
दीपावलिपर्व भारतीयानां प्रमुखः उत्सवः। एषः उत्सवः आभारतम् आचर्यते। शरदऋतौ आश्वयुक् तथा च कार्तिकः एतयोः मासयोः सन्धौ आश्विन-कृष्णद्वादशीतः कार्तिक-शुक्लद्वितीयापर्यन्तं
षड्दिनात्मकम् एतत् उत्सवपर्व भवति। ग्रेगोरियन कालमाने एषः ऑक्टोबरमासस्य अन्तः अथवा नोव्हेंबरमासस्य आरम्भकालः। एषः उत्सवः खलप्रवृत्तौ साधुतायाः, अज्ञानान्धकारे ज्ञानप्रकाशस्य विजयस्य प्रतीकम्। तन्निमित्तेन जनाः सर्व्वत्र दीपान् प्रज्वालयन्ति। अतः दीपानाम् आवलिः, सरणिः पङ्क्तिर्वा एतया व्युत्पत्त्या दीपावलिशब्दस्य अन्वर्थसंज्ञात्वम्।
उपलब्धैतिहासिकसाधनैः ज्ञायते यत् एषः उत्सवः न्यूनातिन्यूनं त्रिसहस्रं वर्षाणि भारते आचर्यते। दीपावल्याः मूलनाम यक्षरात्रिः इति आसीत् इति हेमचन्द्रः। वात्स्यायनस्य कामसूत्रेऽपि एतदेव नाम दत्तम्। राजा हर्षवर्धनः (सप्तमं ख्रैस्तशतकम्) नागानन्दनामके स्वीये नाटके *दीपप्रतिपदुत्सवः* इति नाम उपयुङ्क्ते। राजशेखरः स्वस्य काव्यमीमांसायाम् एनां *दीपमालिका* इति वदति। भविष्योत्तरपुराणे *दीपालिका* , नीलमतपुराणे *दीपमाला* कालविवेकनामके ग्रन्थे *सुखरात्रिः* , व्रतप्रकाशे *सुखसुप्तिका* इत्यादीनि अन्यनामानि अपि उपलभ्यन्ते।
पारसीकप्रवासी तथा इतिहासकारः अल्-बिरुनिः (एकादशं शतकम्) , व्हेनिसनगरात् आगतः व्यापारी निकोलो-डी-कोन्टिः (पञ्चदशं शतकम्) पोर्तुगालतः आगतः डोमिंगो-पेसः एतैः दीपावलिविषये स्वस्य लेखने विवरणं दत्तम् अस्ति। बहुषु संस्कृतशिलालेखेषु , ताम्रपत्रलेखेषु अपि एतस्य उत्सवस्य उल्लेखः प्राप्यते। दीपाल्युत्सवः न केवलं हिन्दूनाम् अपि तु जैनसिक्खबौद्धानामपि उत्सवः अस्ति।
दीपावल्युत्सवे जनाः स्वगृहाणि स्वच्छीकुर्वन्ति, नूतनवस्त्राणि धारयन्ति, नूतनभोज्यान् निर्मान्ति, खादन्ति च, मृद्दीपान् आकाशदीपान् च प्रज्वालयन्ति, गृहाङ्गणे रङ्गवल्लीः आलिखन्ति, स्फोटकानां स्फोटनमपि कुर्वन्ति। बालाः मृद्दुर्गान् निर्माय तान् विविधप्रकारैः अलङ्कुर्वन्ति। एतेषु षट्सु दिनेषु विविधदैवतानां पूजनं भवति। तत्र मुख्यदीपावलिदिने नाम आश्विन-अमावास्यायां लक्ष्म्याः पूजा मुख्यभूता।
$ दिनविशेषाः--
१) गोवत्स-द्वादशी-- आश्विनकृष्णद्वादश्यां दीपावल्याः प्रारम्भः भवति। एतद्दिनं गोवत्सद्वादशी इति नाम्ना ख्यायते। अस्मिन् दिने गोः वत्सेन सह पूजा क्रियते। गृहे लक्ष्म्याः आगमनं भवतु तेन च सन्ततयः आयुरारोग्यं लभन्ताम् इति एतस्याः पूजायाः उद्दिष्टम्।
२) धनत्रयोदशी-- कृष्णत्रयोदश्यां धनत्रयोदशी सम्मान्यते। हेमनामकस्य राज्ञः पुत्रः वयसः षोडशे वर्षे मृत्युं प्राप्नुयात् इति भविष्यकथनम्। तस्य उद्वाहात् चतुर्थं दिनं तस्य मरणदिनम् आसीत्। मृत्योः निवारणार्थं रात्रौ तस्य पत्नी तं विविधाः कथाः कथयित्वा गीतानि श्रावयित्वा जागरितं रक्षति। तं परितः दीपान् प्रज्वाल्य सुवर्णमुद्राभिः पूरितान् करण्डान् अपि स्थापयति। यमः सर्परूपेणं राजपुत्रस्य कक्षं प्रविशन् दीपप्रकाशेन नाणकभाभिश्च अन्धः भूत्वा राजकुमारस्य प्राणान् हर्तुम् असमर्थः भवति यमलोकं प्रतिनिवर्तते च।
एतस्मिन् दिने गृहस्य दक्षिणे यमाय दीपदानं कुर्वन्ति। तेन अपमृत्युभयं नश्यतीति भावना। अतः यमदीपदानम् इत्यपि अस्य दिनोत्सवस्य नाम।
कार्त्तिकस्यासिते पक्षे त्रयोदश्यां निशामुखे।
यमदीपं बहिर्दद्यात् अपमृत्युर्विनश्यति।।
समुद्रमन्थनात् अमृतप्राप्तेः अपि एतदेव दिनम्। देवानां वैद्यः धन्वन्तरिः अमृतस्य कलशं गृहीत्वा समुद्रात् उद्गतः। तस्य पूजनपि अस्मिन्दिने क्रियते। भारतस्य राष्ट्रिय-आयुर्वेददिनम् एतत्।
३) नरकचतुर्दशी-- आश्विनकृष्णचतुर्दशीदिनस्य नाम नरकचतुर्दशी। अस्मिन् दिने कृष्णेन नरकनामकः असुरः मारितः। तदन्तरं सः प्रात: अभ्यङ्गं कृतवान्।अतः अस्मिन्दिने जनाः अभ्यङ्गं कुर्वन्ति। अनेन स्नानेन नरकान्तक: नारायण: सन्तुष्ट: भवति । कृष्णपराक्रमस्य स्मरणं तथा च स्वपापस्य क्षालनम् अस्य दिवसस्य मुख्यम् उद्दिष्टम्। नरके नाम गृहस्य स्वच्छतागृहे तस्य स्वच्छीकरणात् अनन्तरं प्रातः यमार्थं मृद्दीपः अपि प्रज्वाल्यते।
४) लक्ष्मीपूजनम्-- आश्विन-अमावास्यायाम् एषः उत्सवः। एतदेव दीपावल्याः मुख्यं दिनम्।
लक्ष्मी स्वभावेन चला। सा गृहे स्थिरा भवतु। तेन च सर्वे गृहजनाः ऐश्वर्यायुरारोग्यं च प्राप्नुयुः इति लक्ष्मीपूजनोद्देशः। अस्मिन्दिने नूतनसम्मार्जन्याः अपि पूजा बहुत्र भवति।
वस्तुतः अस्मिन् दिने राजराजस्य कुबेरस्य पूजा पूर्वं भवति स्म। तथापि गुप्तकाले वैष्णवधर्मस्य प्राबल्येन तस्य स्थाने लक्ष्म्याः पूजा आरब्धेति विदुषां मतम्।
अस्मिन्नेव दिने रामः रावणं हत्वा २१ दिनानन्तरम् अयोध्यां प्रतिनिवृत्तः इत्यपि मान्यता। रामस्य आगमने अयोध्यावासिभिः तस्य स्वागतार्थं दीपाः प्रज्वालिताः आसन्।
५) बलिप्रतिपदा-- कार्तिकमासस्य एतत् प्रथमं दिनम्। राक्षसराजा बलिः कृषकाणाम् आद्यपुरुषः। तस्य गोमयीं प्रतिमां निर्माय कृषकाः तस्य पूजनं कुर्वन्ति।
बलिराज नमस्तुभ्यं विरोचनसुत प्रभो।
भविष्येन्द्र सुराराते विष्णुसान्निध्यदो भव॥
हिन्दूनां सार्धत्रिषु पवित्रमुहूर्तेषु एतदेकं दिनम्। अस्मिन्दिने व्यापारिजनाः नूतनस्य आय-व्ययलेखस्य प्रारम्भं कुर्वन्ति। एतद्दिने ते नूतनलेखनपुस्तिकानां पूजनं कुर्वन्ति। विक्रमसंवत्सरस्य आरम्भः अपि अस्मिन्नेव दिवसे भवति। मथुरायाम् गोवर्धनप्रतीकस्य अन्नकूटस्य पूजनं कृत्वा कृष्णाय नैवेद्यः समर्प्यते।
६) यमद्वितीया-- कार्तिकद्वितीयायां यमः स्वस्य भगिन्यायाः यमी इत्याख्यायाः गृहं गत्वा भोजनं कृतवान्। अतः एषः दिवसः यमद्वितीया , भ्रातृद्वितीया इत्याभ्यां नामभ्यां प्रख्यातः। अस्मिन्दिवसे भगिनी भ्रातरं मिष्टान्नं भोजयति। अनन्तरं चन्द्रलेखां तत्पश्चात् भ्रातरं नीराजयति।
एतद्दिनं चित्रगुप्तजयन्ती अपि। यमस्य लेखापालः चित्रगुप्तः अस्मिन् दिने जनिम् अलभत। कायस्थाः अस्मिन्दिने चित्रगुप्तस्य पूजनं कुर्वन्ति।
आश्विन-अमावास्यायां जैनानां २४ तमः तीर्थङ्करः भगवान् महावीरः मोक्षं प्राप्तवान्। अतः जैनधर्मीयाः तस्मिन् दिने महावीरप्रतिमायां जलाभिषेकं कृत्वा तस्याः पूजनं कृत्वा भगवते निर्वाणलड्डुकस्य नैवेद्यं समर्पयन्ति।
गौतमबुद्धः अस्मिन्नेव दिने तपः कृत्वा प्रतिनिवृत्तः तथा च तदैव तस्य प्रियशिष्यः अरिहन्तमुगलयानः निर्वाणं प्राप्तवान्। तत्स्मृत्यर्थं बौद्धाः दीपं प्रज्वाल्य बुद्धपूजनं कुर्वन्ति।
सिक्खजनानां षष्ठः गुरुः हरगोविन्दसिंहः मुघलशासकस्य कारागृहात् अस्मिन्नेव दिने मुक्तः। अतः *बन्दिछोड-दिनम्* इति नाम्ना तैः उत्सवः आचरितः भवति।
भारतात् बहिः अपि श्रीलंका, पाकिस्थानम् , ब्रह्मदेशः , थाईलैंड् , मलेशिया, सिंगापुरम्, इंडोनेशिया, ऑस्ट्रेलिया, न्यूजीलैंड्, फिजी, मॉरीशस, केनया, टांजानिया, दक्षिण अफ्रीका, गयाना, सूरीनाम, त्रिनिदादः, टोबैगो, नीदरलैंड्, कनाडा, ब्रिटेन् , संयुक्त-अरब-अमीरातः, संयुक्त-राज्य-अमेरिका इत्यादिषु देशेषु एषः उत्सवः सम्मान्यते।
सत्यमेव एतत् दीपालिपर्व भारतीयसंस्कृतेः विश्वव्यापिस्वरूपस्य निदर्शकम्।
सर्वेभ्यः दीपोत्सवस्य हार्दिक्यः शुभकामनाः।










