अन्धकारजयस्य पर्व--दीपावलि:।

 

दीपावलिपर्व भारतीयानां प्रमुखः उत्सवः। एषः उत्सवः आभारतम् आचर्यते। शरदऋतौ आश्वयुक् तथा च कार्तिकः एतयोः मासयोः सन्धौ आश्विन-कृष्णद्वादशीतः कार्तिक-शुक्लद्वितीयापर्यन्तं

षड्दिनात्मकम् एतत् उत्सवपर्व भवति। ग्रेगोरियन कालमाने एषः ऑक्टोबरमासस्य अन्तः अथवा नोव्हेंबरमासस्य आरम्भकालः। एषः उत्सवः खलप्रवृत्तौ साधुतायाः, अज्ञानान्धकारे ज्ञानप्रकाशस्य विजयस्य प्रतीकम्। तन्निमित्तेन जनाः सर्व्वत्र दीपान् प्रज्वालयन्ति। अतः दीपानाम् आवलिः, सरणिः पङ्क्तिर्वा एतया व्युत्पत्त्या दीपावलिशब्दस्य अन्वर्थसंज्ञात्वम्। 

उपलब्धैतिहासिकसाधनैः ज्ञायते यत् एषः उत्सवः न्यूनातिन्यूनं त्रिसहस्रं वर्षाणि भारते आचर्यते। दीपावल्याः मूलनाम यक्षरात्रिः इति आसीत् इति हेमचन्द्रः। वात्स्यायनस्य कामसूत्रेऽपि एतदेव नाम दत्तम्। राजा हर्षवर्धनः (सप्तमं ख्रैस्तशतकम्) नागानन्दनामके स्वीये नाटके *दीपप्रतिपदुत्सवः* इति नाम उपयुङ्क्ते। राजशेखरः स्वस्य काव्यमीमांसायाम् एनां *दीपमालिका* इति वदति। भविष्योत्तरपुराणे *दीपालिका* , नीलमतपुराणे *दीपमाला* कालविवेकनामके ग्रन्थे *सुखरात्रिः* , व्रतप्रकाशे *सुखसुप्तिका* इत्यादीनि अन्यनामानि अपि उपलभ्यन्ते। 

पारसीकप्रवासी तथा इतिहासकारः अल्-बिरुनिः (एकादशं शतकम्) , व्हेनिसनगरात् आगतः व्यापारी निकोलो-डी-कोन्टिः (पञ्चदशं शतकम्) पोर्तुगालतः आगतः डोमिंगो-पेसः एतैः दीपावलिविषये स्वस्य लेखने विवरणं दत्तम् अस्ति। बहुषु संस्कृतशिलालेखेषु , ताम्रपत्रलेखेषु अपि एतस्य उत्सवस्य उल्लेखः प्राप्यते। दीपाल्युत्सवः न केवलं हिन्दूनाम् अपि तु जैनसिक्खबौद्धानामपि उत्सवः अस्ति।

दीपावल्युत्सवे जनाः स्वगृहाणि स्वच्छीकुर्वन्ति, नूतनवस्त्राणि धारयन्ति, नूतनभोज्यान् निर्मान्ति, खादन्ति च, मृद्दीपान् आकाशदीपान् च प्रज्वालयन्ति, गृहाङ्गणे रङ्गवल्लीः आलिखन्ति, स्फोटकानां स्फोटनमपि कुर्वन्ति। बालाः मृद्दुर्गान् निर्माय तान् विविधप्रकारैः अलङ्कुर्वन्ति। एतेषु षट्सु दिनेषु विविधदैवतानां पूजनं भवति। तत्र मुख्यदीपावलिदिने नाम आश्विन-अमावास्यायां लक्ष्म्याः पूजा मुख्यभूता।

दिनविशेषाः--

१) गोवत्स-द्वादशी-- आश्विनकृष्णद्वादश्यां दीपावल्याः प्रारम्भः भवति। एतद्दिनं गोवत्सद्वादशी इति नाम्ना ख्यायते। अस्मिन् दिने गोः वत्सेन सह पूजा क्रियते। गृहे लक्ष्म्याः आगमनं भवतु तेन च सन्ततयः आयुरारोग्यं लभन्ताम् इति एतस्याः पूजायाः उद्दिष्टम्।

२) धनत्रयोदशी-- कृष्णत्रयोदश्यां धनत्रयोदशी सम्मान्यते। हेमनामकस्य राज्ञः पुत्रः वयसः षोडशे वर्षे मृत्युं प्राप्नुयात् इति भविष्यकथनम्। तस्य उद्वाहात् चतुर्थं दिनं तस्य मरणदिनम् आसीत्। मृत्योः निवारणार्थं रात्रौ तस्य पत्नी तं विविधाः कथाः कथयित्वा गीतानि श्रावयित्वा जागरितं रक्षति। तं परितः दीपान् प्रज्वाल्य सुवर्णमुद्राभिः पूरितान् करण्डान् अपि स्थापयति। यमः सर्परूपेणं राजपुत्रस्य कक्षं प्रविशन् दीपप्रकाशेन नाणकभाभिश्च अन्धः भूत्वा राजकुमारस्य प्राणान् हर्तुम् असमर्थः भवति यमलोकं प्रतिनिवर्तते च। 

एतस्मिन् दिने गृहस्य दक्षिणे यमाय दीपदानं कुर्वन्ति। तेन अपमृत्युभयं नश्यतीति भावना। अतः यमदीपदानम् इत्यपि अस्य दिनोत्सवस्य नाम।

कार्त्तिकस्यासिते पक्षे त्रयोदश्यां निशामुखे।

यमदीपं बहिर्दद्यात् अपमृत्युर्विनश्यति।।

समुद्रमन्थनात् अमृतप्राप्तेः अपि एतदेव दिनम्। देवानां वैद्यः धन्वन्तरिः अमृतस्य कलशं गृहीत्वा समुद्रात् उद्गतः। तस्य पूजनपि अस्मिन्दिने क्रियते। भारतस्य राष्ट्रिय-आयुर्वेददिनम् एतत्।

३) नरकचतुर्दशी-- आश्विनकृष्णचतुर्दशीदिनस्य नाम नरकचतुर्दशी। अस्मिन् दिने कृष्णेन नरकनामकः असुरः मारितः। तदन्तरं सः प्रात: अभ्यङ्गं कृतवान्।अतः अस्मिन्दिने जनाः अभ्यङ्गं कुर्वन्ति। अनेन स्नानेन नरकान्तक: नारायण: सन्तुष्ट: भवति । कृष्णपराक्रमस्य स्मरणं तथा च स्वपापस्य क्षालनम् अस्य दिवसस्य मुख्यम् उद्दिष्टम्। नरके नाम गृहस्य स्वच्छतागृहे तस्य स्वच्छीकरणात् अनन्तरं प्रातः यमार्थं मृद्दीपः अपि प्रज्वाल्यते।

४) लक्ष्मीपूजनम्-- आश्विन-अमावास्यायाम् एषः उत्सवः। एतदेव दीपावल्याः मुख्यं दिनम्।

लक्ष्मी स्वभावेन चला। सा गृहे स्थिरा भवतु। तेन च सर्वे गृहजनाः ऐश्वर्यायुरारोग्यं च प्राप्नुयुः इति लक्ष्मीपूजनोद्देशः। अस्मिन्दिने नूतनसम्मार्जन्याः अपि पूजा बहुत्र भवति।

वस्तुतः अस्मिन् दिने राजराजस्य कुबेरस्य पूजा पूर्वं भवति स्म। तथापि गुप्तकाले वैष्णवधर्मस्य प्राबल्येन तस्य स्थाने लक्ष्म्याः पूजा आरब्धेति विदुषां मतम्। 

अस्मिन्नेव दिने रामः रावणं हत्वा २१ दिनानन्तरम् अयोध्यां प्रतिनिवृत्तः इत्यपि मान्यता। रामस्य आगमने अयोध्यावासिभिः तस्य स्वागतार्थं दीपाः प्रज्वालिताः आसन्।

५) बलिप्रतिपदा-- कार्तिकमासस्य एतत् प्रथमं दिनम्। राक्षसराजा बलिः कृषकाणाम् आद्यपुरुषः। तस्य गोमयीं प्रतिमां निर्माय कृषकाः तस्य पूजनं कुर्वन्ति। 

बलिराज नमस्तुभ्यं विरोचनसुत प्रभो।

भविष्येन्द्र सुराराते विष्णुसान्निध्यदो भव॥

हिन्दूनां सार्धत्रिषु पवित्रमुहूर्तेषु एतदेकं दिनम्। अस्मिन्दिने व्यापारिजनाः नूतनस्य आय-व्ययलेखस्य प्रारम्भं कुर्वन्ति। एतद्दिने ते नूतनलेखनपुस्तिकानां पूजनं कुर्वन्ति। विक्रमसंवत्सरस्य आरम्भः अपि अस्मिन्नेव दिवसे भवति। मथुरायाम् गोवर्धनप्रतीकस्य अन्नकूटस्य पूजनं कृत्वा कृष्णाय नैवेद्यः समर्प्यते।

६) यमद्वितीया-- कार्तिकद्वितीयायां यमः स्वस्य भगिन्यायाः यमी इत्याख्यायाः गृहं गत्वा भोजनं कृतवान्। अतः एषः दिवसः यमद्वितीया , भ्रातृद्वितीया इत्याभ्यां नामभ्यां प्रख्यातः। अस्मिन्दिवसे भगिनी भ्रातरं मिष्टान्नं भोजयति। अनन्तरं चन्द्रलेखां तत्पश्चात् भ्रातरं नीराजयति।

एतद्दिनं चित्रगुप्तजयन्ती अपि। यमस्य लेखापालः चित्रगुप्तः अस्मिन् दिने जनिम् अलभत। कायस्थाः अस्मिन्दिने चित्रगुप्तस्य पूजनं कुर्वन्ति।

आश्विन-अमावास्यायां जैनानां २४ तमः तीर्थङ्करः भगवान् महावीरः मोक्षं प्राप्तवान्। अतः जैनधर्मीयाः तस्मिन् दिने महावीरप्रतिमायां जलाभिषेकं कृत्वा तस्याः पूजनं कृत्वा भगवते निर्वाणलड्डुकस्य नैवेद्यं समर्पयन्ति।

गौतमबुद्धः अस्मिन्नेव दिने तपः कृत्वा प्रतिनिवृत्तः तथा च तदैव तस्य प्रियशिष्यः अरिहन्तमुगलयानः निर्वाणं प्राप्तवान्। तत्स्मृत्यर्थं बौद्धाः दीपं प्रज्वाल्य बुद्धपूजनं कुर्वन्ति।

सिक्खजनानां षष्ठः गुरुः हरगोविन्दसिंहः मुघलशासकस्य कारागृहात् अस्मिन्नेव दिने मुक्तः। अतः *बन्दिछोड-दिनम्* इति नाम्ना तैः उत्सवः आचरितः भवति।

भारतात् बहिः अपि श्रीलंका, पाकिस्थानम् , ब्रह्मदेशः , थाईलैंड् , मलेशिया, सिंगापुरम्, इंडोनेशिया, ऑस्ट्रेलिया, न्यूजीलैंड्, फिजी, मॉरीशस, केनया, टांजानिया, दक्षिण अफ्रीका, गयाना, सूरीनाम, त्रिनिदादः, टोबैगो, नीदरलैंड्, कनाडा, ब्रिटेन् , संयुक्त-अरब-अमीरातः,  संयुक्त-राज्य-अमेरिका इत्यादिषु देशेषु एषः उत्सवः सम्मान्यते। 

सत्यमेव एतत् दीपालिपर्व भारतीयसंस्कृतेः विश्वव्यापिस्वरूपस्य निदर्शकम्। 

सर्वेभ्यः दीपोत्सवस्य हार्दिक्यः शुभकामनाः।

दीपावलिपञ्चदशी।

  

आश्वयुजः समाप्तौ च 
कार्तिकस्यामुखे तथा।
षड्दिनं पर्व प्राहुस्त-
द्दीपानां मोक्षदायकम्।।१।।

आश्विनमासस्य समाप्तौ कार्तिकमासस्य च प्रारम्भे यत् षड्दिनात्मकं दीपावलिपर्व विद्यते तत् मोक्षदायकम् अस्ति इति ज्ञातारः वदन्ति।

आश्विन महिन्याच्या अखेरीस आणि कार्तिकाच्या सुरुवातीला असलेले सहा दिवसांचे दीपावली पर्व मोक्षदायक आहे असे जाणते लोक म्हणतात.

तत्राद्या द्वादशी प्रोक्ता गोवत्सपूजनं तदा ।

क्रियते भद्रकामैस्तु धेनवो लोकमातरः।।२।।

तस्मिन् पर्वणि आद्यदिनः आश्विनस्य द्वादशी। तस्यां गोः वत्ससहितं पूजनं कल्याणेप्सुभिः जनैः क्रियते यतः धेनवः लोकानां मातरः सन्ति।

त्या पर्वामधला पहिला दिवस म्हणजे आश्विन महिन्याची द्वादशी. या दिवशी कल्याणाची इच्छा करणारे लोक सवत्स गायीचे पूजन करतात कारण गायी या जगाच्या जणू माताच होत.

दीपो देयः सदा भक्तैः त्रयोदश्यां यमाय च।

अपमृत्योः भयं नास्ति दीपदानपरश्च यः।।३।।

त्रयोदशीदिने भक्तजनैः यमाय दीपदानं करणीयम्। यः अस्मिन्दिने नित्यं दीपदानं करोति तस्य अपमृत्युभयं न जायते। 

त्रयोदशीच्या दिवशी भक्तांनी नेहमी यमराजाला दीपदान करावे. असे दीपदान करणाऱ्याला अपमृत्यूचे भय रहात नाही.

तदैव क्रियते नित्यं देववैद्यस्य पूजनम्।

धन्वन्तरिः समाख्यातः देवो समुद्रमन्थजः।।४।।

तस्मिन्नेव दिने देवानां वैद्यस्य पूजनं क्रियते। सः देवः नाम समुद्रमन्थनात् उद्भूतः धन्वन्तरिः।

याच दिवशी समुद्रमंथनातून जन्मलेल्या देवांच्या धन्वन्तरी नावाच्या वैद्याचे नेहमी पूजन केले जाते.

चतुर्दश्यां च कृष्णेन मारितो नरकासुरः।

ततश्चाचरितं स्नानं अभ्यङ्गपूर्वकं तदा।।५।।

चतुर्दशीदिने भगवता कृष्णेन नरकासुरः मारितः। तदनन्तरं सः अभ्यङ्गपूर्वकं स्नानम् अकरोत्। 

चतुर्दशीला कृष्णाने नरकासुर नावाच्या असुराला ठार केले होते आणि त्यानंतर अभ्यंगपूर्वक स्नान केले होते.

अतः सर्वे तथा कुर्युः स्नानमभ्यङ्गपूर्वकम्।

पापनाशो भवेत्तेन कथ्यते सूरिभिस्सदा।।६।।

अतः एतद्दिने सर्वे अभ्यङ्गपूर्वकं स्नानं समाचरेयुः। तेन पापस्य नाशः भवति इति विद्वांसः कथयन्ति।

म्हणून सर्वांनी या दिवशी अभ्यंगपूर्वक स्नान करावे. त्यामुळे पापनाश होतो असे ज्ञानी लोक म्हणतात.

अमावास्या दिनो मुख्यः दीपावल्याः स्मृतो ध्रुवम्।

ऐश्वर्यदायिनी लक्ष्मीः कल्याणी सा समर्च्यते ।।७।।

अमावास्या दीपावल्याः मुख्यदिनः इति निश्चयेन कथ्यते। तदा कल्याणदायिनी लक्ष्मीः पूजिता भवति।

अमावास्या हा दिवाळीचा मुख्य दिवस होय. या दिवशी कल्याण करणाऱ्या आणि ऐश्वर्य देणाऱ्या लक्ष्मीचे पूजन करतात.

बलिप्रतिपदा चोक्ता कार्त्तिकस्य प्रसूतिका ।

तत्रार्च्यते बुधैर्नित्यं वीरोचनपुत्रो बलिः।।८।।

कार्तिकमासस्य जनयित्री प्रतिपदा बलिप्रतिपदा इति नाम्ना उच्यते। तत्र विचक्षणाः नित्यं वीरोचनपुत्रस्य बलेः अर्चनं कुर्वन्ति।

कार्तिक महिन्याची सुरुवात करणारी प्रतिपदा म्हणजे बलिप्रतिपदा होय. या दिवशी बुद्धिमान लोक वीरोचनाचा पुत्र बलिराजा याचे पूजन करतात.

नूतनस्तत्त्र प्रक्राम्यः विक्रमार्कस्य वत्सरः।

सार्धत्रिषु मुहूर्तेषु पवित्रेषु सुगण्यते।।९।।

तदा नूतनविक्रमसंवत्सरस्य प्रारम्भः कार्यः। एषः दिनः सार्धत्रिषु पवित्रेषु मुहूर्तेषु एकः इति गण्यते।

या दिवशी नवीन विक्रमसंवत्सराची सुरुवात करायची असते. हा दिवस साडेतीन मुहूर्तांमधला एक म्हणून गणला जातो.

कुर्वन्ति माथुरास्तत्र अन्नकूटस्य पूजनम्।

गोवर्धनस्य चिह्नं तत्कृष्णदत्तं च रक्षणम्।।१०।।

मथुरावासिनः तदा गोवर्धनपर्वतस्य प्रतीकरूपेण अन्नकूटस्य पूजनं कुर्वन्ति। अन्नकूटः गोवर्धनस्य तथा च कृष्णेन कृतस्य गोपरक्षणस्य प्रतीकम्।

मथुरावासी याच दिवशी अन्नकूटाचे पूजन करतात. हा अन्नकूट गोवर्धन पर्वताचे आणि कृष्णाने गोपांच्या केलेल्या रक्षणाचे प्रतीक आहे.

बन्ध्वादरः द्वितीयायां स्वसृभिश्च प्रदर्श्यते।

वैवस्वते स्वबन्धौ प्राग्यमी प्रादर्शयद्यथा।।११।।

कार्त्तिकस्य द्वितीयायां सहोदरीभिः बन्धुं प्रति आदरः प्रदर्श्यते यथा पूर्वकाले यम्या स्वबन्धुवैवस्वतयमविषये प्रदर्शितः आसीत्।

द्वितीयेला बहिणी भावाबद्दल आपला आदर प्रदर्शित करतात जसा पूर्वी आपला भाऊ वैवस्वत यमाबद्दल त्याच्या यमी नावाच्या बहिणीने प्रदर्शित केला होता.

प्रकाशनेन दीपानां मिष्टानां भक्षणेन च।

स्फोटकस्फोटनाच्चासौ नूतनवस्त्रधारणात्।।१२।।

दीपानां प्रकाशनेन मिष्टान्नभक्षणेन स्फोटकानां स्फोटनात् नूतनवस्त्रधारणात् --

दीपांच्या प्रकाशाने, गोडधोड खाण्याने, फटाक्यांच्या दणदणाटाने, आणि नवीन वस्त्रे ल्यायल्याने--

दीपोत्सवो भवत्येव सर्वेषां च मुदावहः।

अन्धकारस्य नाशेन भासस्य स्फुरणेन च ।। १३।।

अन्धकारस्य नाशात् प्रकाशस्य च स्फुरणात् असौ दीपोत्सवः सर्वेषां कृते निश्चयेन मोददायकः भवति। 

अंधकाराचा नाश झाल्याने आणि प्रकाशाच्या स्फुरणाने हा दीपोत्सव खरोखर सर्वांच्या आनंदाला कारणीभूत होतो. 

अज्ञानतमसः नाशः ज्ञानस्य च प्रकाशनम्।

भवे भवतु भूतानां प्रार्थयेमहि सन्ततम्।।१४।।

एतस्मिन्नुत्सवे सर्वेषा जीवानां जन्मनि अज्ञानरूपस्य तमसः नाशः भवतु ज्ञानस्य प्रकाशनं च भवतु इति वयं निरन्तरं प्रार्थनां कुर्महे।

या उत्सवाच्या निमित्ताने या जगातील सर्व जीवांच्या अज्ञानरूप अंधकाराचा नाश होवो आणि ज्ञानाचे प्रकटन होवो अशी आम्ही सतत प्रार्थना करतो.

सुजनाः सुखिनः सन्तु दुरितानां क्षयो भवेत्।

दीपावलिप्रकाशेन अन्तर्ज्योतिसमुद्भवः।।१५।।

दीपावल्याः प्रकाशेन सज्जनाः सुखिनः भवन्तु पापस्य क्षयः भवेत् तथा च आत्मज्योतिषः प्रकटनं भवेत्।

दीपावलीच्या प्रकाशाने सज्जन सुखी होवोत आणि वाईटाचा नाश होवो आणि सर्वांच्या अन्तःकरणातील ज्ञानज्योती प्रकट होवो.

पञ्चदशीमिमां स्मृत्वा मालां प्रकाशशालिनीम्।

कल्याणधीकृतां नित्यं दीपपर्वणि यः पठेत्।।१६।।

लोककल्याणबुद्ध्या कृताम् इमां प्रकाशयुतां  पञ्चदशश्लोकानां माला स्मृतौ धृत्वा यः नित्यं दीपावल्युत्सवकाले पठेत् --

लोककल्याणाच्या बुद्धीने लिहिलेली,प्रकाशाने विलसणारी ही पंधरा श्लोकांची माला-- दीपावलिपञ्चदशी-- दीपावलीच्या पर्वामध्ये ध्यानात ठेवून जो म्हणेल-- 

तस्यारोग्यं सुखं मोदः सौभाग्यं च परं ध्रुवम्।

भवेदीशप्रसादाद्धि आत्मदीपप्रकाशनम्।।१७।।

तस्य ईश्वरप्रसादात्  निश्चयेन आरोग्यं, सुखं , आनन्दः ,परं सौभाग्यं, तथा च आत्मरूपदीपस्य प्रकाशनम् अपि भवेत्।

---त्याला ईश्वराच्या कृपेने आरोग्य, सुख, आनंद आणि उत्तम असे भाग्य यांची प्राप्ती होईल आणि त्यांचा आत्मरूपी दीपही प्रकाशित होईल.

आदिकवि: वाल्मीकि:।

  

कूजन्तं रामरामेति 
मधुरं मधुराक्षरम्।
आरुह्य कविताशाखां 
वन्दे वाल्मीकिकोकिलम्।।

वाल्मीकिः रामायणस्य रचयिता आदिकविः। तस्य काव्यं रामायणं भारतीयानाम् आदिकाव्यम्।

पूर्वं वाल्मीकिः रत्नाकरः नाम लुण्ठकः आसीत्। सः वने गच्छतः जनान् मारयित्वा तेषां धनम् अपहरति स्म। एवं सः सहस्रशः जनान् व्यापादितवान्। एकदा नारदः तेन वनमार्गेण गच्छन् रत्नाकरेण अवरुद्धः। कर्कशस्वरेण रत्नाकरः तम् उक्तवान् ,"यद्भवतः समीपे धनादिकम् अस्ति तन्मह्यं समर्पयतु अन्यथा भवन्तं मारयामि" इति। नारदेन कथितं यत् तस्य समीपे धनादिकं किमपि मूल्यवत् नास्ति यतः सः सर्व्वस्वत्यागी संन्यासी। तथापि यद्रत्नाकरः घोरं मारणधर्मम् आचरति तेन जनितेन पापेन सः निश्चयेन नरकं प्राप्नुयात्।  

नारदोपदेशेन रत्नाकरस्य विवेकः जागरितः। सः पापमुक्तेः उपायं नारदं पृष्टवान्। नारदेन तस्मै रामनाम्नः उपदेशः कृतः। तदा आरभ्य एकस्मिन्नेव स्थले उपविश्य रत्नाकरेण रामनाम्नः सन्ततजपः आरब्धः। सः जपे तावान् निमग्नः अभवत् येन तस्य शरीरभानं जगद्भानमपि नष्टम्। पिपीलिकाः तस्य शरीरस्य उपरि वल्मीकस्य निर्माणं कृतवत्यः। एवं द्वादशवर्षाणि अतीतानि। 

पुनः एकदा नारदः तेनैव मार्गेण गच्छन् वल्मीकात् रामशब्दस्य सन्ततजपं श्रुतवान्। नारदेन आहूते सति रत्नाकरः समाधितः  जगद्भानं प्राप्य वल्मीकात् उदतिष्ठत्। वल्मीकात् आगतः इत्यतः तस्य नाम वाल्मीकिः इति अभवत्। पूर्ववृत्तिं त्यक्त्वा तपसा सर्वं पापं नाशयित्वा सः महर्षिः अभवत्। 

अनन्तरम् एकदा शिष्यगणेन सह सः स्नानार्थं तमसा नदीं गच्छन् आसीत्। तदा एकस्मिन् वृक्षे प्रणयक्रीडामग्नम् एकं क्रौञ्चयुगलं सः लक्षितवान्। तस्मिन्नेव क्षणे एकस्य व्याधस्य बाणेन विद्धः क्रौञ्चः भूमौ पतितः मृतश्च। तद्दृष्ट्वा क्रौञ्ची बहु विलापं कृतवती। तस्या विलापेन द्रवितहृदयः महर्षिः व्याधं सहसा शप्तवान्। सः शापः श्लोकरूपं धृत्वा महर्षेः मुखात् आविरभूत्--

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।

यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम्।।

ईश्वरकृतवेदात् अनन्तरं मानवेन रचितं प्रथमं काव्यमिदम्। वेदे विद्यमानानि यावन्ति छन्दांसि तानि सर्वाणि विहायः अनुष्टुप्-नामकस्य छन्दसः एषः प्रथमाविष्कारः वाल्मीकिमुखात् समुद्भूतः। श्लोकस्य उच्चारणात् अनन्तरं ब्रह्मदेवः वाल्मीकेः पुरतः प्रकटीभूय तं रामायणरचनां कर्तुम् आदिशत्। 

तस्यादेशेन मर्यादापुरुषोत्तमस्य रामस्य जीवनचरित्रं वाल्मीकिना श्लोकबद्धं कृतम्। 'रामस्य अयनं (जीवनमार्गः) रामायणम्' इति तस्य अन्वर्थकं नाम। एतत् आदिकाव्यं सहस्रावधिवर्षाणि भारतीयानां मनःसु विराजते। रामस्य एतत् चरित्रं मानुषवर्तनस्य आदर्शं जनानां पुरतः उपस्थापयति। २४,००० श्लोकेषु तन्निबद्धम् अतः 'चतुर्विंशतिसाहस्री संहिता' इत्यपि तस्य अपरं नामध्येयम्। 

एतेन काव्येन वाल्मीकिः अपि जनमानसे अमरत्वं प्राप्तवान्। आश्विनमासस्य पूर्णिमायां वाल्मीकेः जन्म जातम् आसीत् इति जनाः मन्यन्ते। अतः कोजागरीपूर्णिमा अथवा आश्विनपूर्णिमा वाल्मीकिजयन्तीरूपेण भारते सर्व्वत्र आचरिता भवति।

नमो महर्षये आदिकवये वाल्मीकये।

नवरात्रम्।

  

हिन्दुधर्मे सर्वं जगत् शिवशक्त्योः अभिव्यक्तिरिति मन्यते। निष्कलं निर्गुणं ब्रह्म शिवः तथा च विश्वनिर्मितये उन्मुखं तदेव ब्रह्म शक्तिः। शक्तिः जगतः प्रसवित्री अतः जगन्मातुः शक्तेः पूजनस्य महत्त्वम् अनन्यसाधारणम्।

 एकस्मिन् संवत्सरे चतुर्वारं शुक्लप्रतिपदातः नवमीपर्यन्तं नवसु रात्रिषु देव्याः पूजनं भवति। एतत् पूजनपर्व नवरात्रम् इति नाम्ना विख्यातम्।

पौषः, चैत्रः, आषाढः, तथा च आश्विनः एतेषु चतुर्षु मासेषु नवरात्रिपर्व विद्यते।  तेषु सर्वेषु आश्विन-नवरात्रस्य अथवा शारद-नवरात्रस्य महत्त्वम् अधिकम्। 

महिषासुरनामकः कश्चन असुरः ब्रह्मदेवस्य वरेण महाशक्तिमत्त्वं प्राप्तवान्। ततः सः देवान् पराजयत्। सर्वे देवाः ब्रह्मविष्णुशङ्करान् आराध्यन्त। तदा त्रयः देवाः स्वस्वशक्तिं प्रदाय दुर्गायाः सृजनं कृतवन्तः। अन्येपि देवाः दुर्गायै स्वशक्तिम् स्वायुधानि च दत्तवन्तः।

तदनन्तरं महिषवेषधारिणा असुरेण सह आश्विनशुद्धप्रतिपदातः दशमीपर्यन्तं दश दिनानि यावत् घोरं युद्धं कृत्वा दशमे दिने दुर्गया सः असुरः मारितः। ततः सा 'महिषासुरमर्दिनी' इति नाम्ना विख्याता अभवत्। दुष्टान् सा विजितवती। अतः दशमं दिनं 'विजयादशमी' इति नाम्ना प्रसिद्धम् अभवत्। अतः एतेषु नवसु दिनेषु दुर्गायाः पूजनस्य विधानं शास्त्रेण क्रियते।

ब्रह्मविष्णुशङ्कराणां शक्तीनां संहननेन यद्यपि दुर्गायाः उत्पत्तिः जाता आसीत् तथापि वस्तुतः जगत्कारणस्य निर्गुणशिवस्य शक्तिरेव पार्वती दुर्गारूपेण आविरभूत्। अतः एतासु नवसु रात्रिषु पार्वत्याः नव रूपाणि क्रमशः पूज्यन्ते। तानि एवं सन्ति---

१) शैलपुत्री-- भगवान् शिवः तस्य श्वशुरेण प्रजापतिना दक्षेण यज्ञार्थं न आहूतः। शिवस्य पत्नी सती आमन्त्रणं विनैव स्वस्य पितुः गृहं गतवती। तत्र स्वपित्रा दक्षेण कृतम् शिवस्य अपमाननम् असहमाना सा यज्ञकुण्डे आत्मानं समर्प्य प्राणत्यागम् अकरोत्। 

तदनन्तरं सा हिमाचलस्य तथा च मेनायाः पुत्रीरूपेण जन्म प्राप्तवती। सा एव शैलपुत्री अथवा पार्वती। एतत् शक्तेः बाल्यस्वरूपम्।

२) ब्रह्मचारिणी-- जन्मनः आरभ्य शिवस्य विषये सा भक्तिमती आसीत्। प्राप्तवयस्का सा शिवमेव पतिरूपेण ऐच्छत्। शिवं प्राप्तुं सा घोरं तपः आचरत्। अतः एतत् पार्वत्याः तपोनिरतं रूपम्। 

३) चन्द्रघण्टा-- तस्याः घोरतपसा शिवः प्रसन्नः अभवत्। शिवपार्वत्योः विवाहात् अनन्तरं भगवती शिवः इव चन्द्रमसम् अलङ्काररूपेण शिरसि अधारयत्। अतः सा चन्द्रघण्टा इति नाम्ना विख्याता अभवत्।

४) कूष्माण्डा-- मानवरूपेण जन्म प्राप्तवती पार्वती अनन्तरं शिवस्य अनुग्रहेण स्वस्य महाशक्तिस्वरूपम् प्रत्यभ्यजानात्। अहं जगतः निर्मात्री महाशक्तिः सम्पूर्णं ब्रह्माण्डं स्वस्य उदरे धारयामि इति सा ज्ञातवती। तेन सा कूष्माण्डा इति नाम्ना प्रथिता।

५) स्कन्दमाता-- शिवस्य रेतसा स्कन्दस्य अथवा कार्तिकेयस्य जन्म अभवत्। एषः गणेशस्य अनुजः। स्कन्दमाता इत्येतत् पार्वत्याः मातृस्वरूपम्।

६) कात्यायनी-- ब्रह्मविष्णुशङ्कराणां शक्तीनां मेलनेन जनिता दुर्गा कात्यायनर्षिद्वारा पूजिता अभवत् अतः सा कात्यायनीनाम्ना प्रसिद्धा। सा महिषासुरस्य वधं कृतवती। एतत् देव्याः घोररूपं युद्धोद्यतम्।

७) कालरात्रिः-- एषा संहारकारिणी देवी। एतत् देव्याः संहारोन्मुखं भयोत्पादकं रूपम्। एषा कालदेवता अथवा मृत्युदेवता इत्यपि वदन्ति।

८) महागौरी-- असुरनाशार्थं धृतं कालीरूपं त्यक्त्वा यदा देवी स्वस्वरूपं प्राप्तवती तदा सा कृष्णवर्णा एव आसीत्। ब्रह्मणः उपदेशेन सा गङ्गायां स्नानं कृत्वा गौरवर्णं पुनः प्राप्तवती। अतः सा महागौरी इति कथ्यते।

९) सिद्धिदात्री-- एतत् पार्वत्याः सिद्धिदायकं मनोकामनापूरकं रूपम्। एतस्याः प्रसादेन अणिमादयः अष्टसिद्धयः करतलामलकवत् प्राप्यन्ते।

एतेषु नवसु दिनेषु देव्याः पूजनं कृत्वा वयमपि अनुग्रहार्थं तां प्रार्थयामहे।

गुरुपञ्चकम्।

 

जीवमात्रे क्षमायुक्तः
ज्ञानदानं करोति यः।
व्यवहाराय मोक्षाय
स वै गुरुरिति स्मृतः।।१।।

जीवमात्राच्या बाबतीत क्षमाशील असणारा,जो व्यवहारसिद्धीसाठी किंवा मोक्षप्राप्तीसाठीही ज्ञान देतो, त्याला गुरू असे म्हणतात.

सर्वेषामुपकारित्वाद्-
गुरुः गुरुत्वमर्हति।
सम्मान्यः सर्वभूतेषु
किं भूतमधिकं ततः।।२।।

सर्वांवर उपकार करत असल्याने गुरू गुरुपणास पात्र होतात. ते सर्व जीवांमध्ये सन्मान्य आहेत. त्यांच्यापेक्षा कोणता जीव अधिक श्रेष्ठ असेल बरे? 

प्रसादः श्रीगुरोश्चैव
विभवाय भवेत्सदा।
अत एव गुरुर्ध्येयः
सुखमूलं च तत्परम्।।३।।

श्रीगुरूंची प्रसन्नता सर्व प्रकारच्या (ऐहिक आणि आध्यात्मिक) वैभवाला कारणीभूत होते.म्हणून गुरूंचे नेहमी ध्यान करावे कारण तेच सर्वसुखांचे श्रेष्ठ असे उगमस्थान आहे.

गुरुं विना भवेज्जीवः
नौरिव नाविकं विना।
निमज्जेदसहायश्च
संसृतिसागरे ध्रुवम्।।४।।

गुरुविना जीवाजी स्थिती नावाडी नसलेल्या नावेप्रमाणे होईल आणि असहायपणे तो नक्कीच या संसारसागरात बुडेल.

अहङ्कारं परित्यज्य
गुरोरङ्घ्रियुगे रतः।
तस्य भवेत्फलं सर्वं
वेदवेदान्तनिश्चितम्।।५।।

अहंकाराचा त्याग करून जो गुरूंच्या चरणयुगाच्या ठिकाणी रममाण होतो, त्याला वेद आणि वेदान्ताने निश्चित केलेले सर्वप्रकारचे फल प्राप्त होते.

फलश्रुतिः--
गुरुपञ्चकमेतद्वै
यः पठेद्भाविको जनः।
सायं प्रातर्दृढप्रीत्या
प्राप्नुयात्सर्वमङ्गलम्।।६।।

जो भाविक मनुष्य या स्तोत्राप्रति दृढ प्रीती धरून सकाळ संध्याकाळ या गुरुपंचकाचा पाठ करेल त्याला सर्व मंगलमय गोष्टी प्राप्त होतील.

भारतरत्नं डॉ.आम्बेडकर:।

 


डॉ. भीमराव-रामजी-अम्बेडकरः १४ एप्रिल १८९१ दिनाङ्के मध्यप्रदेशे महू इत्यत्र जनिम् अलभत। तदानीं एषः ग्रामः 'सेंट्रल् प्रोव्हिन्स' प्रदेशे समाविष्टः आसीत्। भीमरावस्य पिता रामजि-मालोजि-सकपाळः आङ्ग्ल-भारतीय-सैन्ये 'सुभेदार' इति पदम् अभूषयत। भीमरावस्य मातुः नाम भीमाबायी-सकपाळः इति। भीमरावः तयोः चतुर्दशतमं तथा अन्तिमम् अपत्यम्। रामजेः कुटुम्बं मूलतः महाराष्ट्रस्य कोङ्कणप्रान्तस्य रत्नागिरीजनपदे विद्यमानस्य मण्डणगड-तालुकक्षेत्रस्य 'अम्बडवे' इति ग्रामात् आगतम् आसीत्। एतत् कुटुम्बं 'महार' नामिकायां जातौ समाविष्टम् आसीत्। तदानीं महारजातेः समावेशः अस्पृश्यजातिषु भवति स्म। तेन एते जनाः समाजव्यवहारे सामाजिक-आर्थिकभेदभावनायाः आस्पदं भवन्ति स्म। 

पाठशालायां भीमरावसदृशाः बालाः अस्पृश्याः इति इतरेभ्यः सवर्णबालेभ्यः विलगीकृत्य  पृथक् उपावेशिताः भवन्ति स्म। शिक्षकाः तान् प्रति दुर्व्यवहारं कुर्वन्ति स्म। अध्ययने तेषाम् अल्पमेव साह्यं कुर्वन्ति स्म। 

एते बालाः कक्ष्यायाम् उपवेष्टुं नानुमताः। कक्ष्यायाः बहिः एव ते स्वस्य गोणीम् आसन्दीकृत्य तस्याम् उपविशन्ति स्म। तेषु पिपासितेषु सत्सु उच्चवर्णीयबालाः तेषां कृते उपरिष्टात् जलं पातयन्ति स्म यतः जलभाण्डं जलं वा स्प्रष्टुं ते नानुमताः। भीमरावस्य कृते जलदानस्य कार्यं पाठशालायाः कर्मकरस्य आसीत्। यदा कर्मकरः अवकाशं स्वीकृत्य क्वचित् अनुपस्थितः तदा भीमरावाय जलदानं न भवति स्म। तेन तस्य आदिनं तृषितः सन् उपवेशः अनिवार्यः भवति स्म। एतस्याः परिस्थितेः वर्णनं भीमरावेण 'नो प्यून नो वॉटर' इत्यस्मिन् स्वलेखे कृतम् अस्ति।

१८९४ मध्ये रामजिः सेवानिवृत्तः। तदनन्तरं एतत् कुटुम्बं महाराष्ट्रस्य सातारानगरम् आगतम्। आगमनात् समनन्तरमेव भीमरावस्य माता दिवङ्गता। रामजेः चतुर्दशसु अपत्येषु केवलं पञ्च--बलरामः, आनन्दरावः तथा भीमरावः एते त्रयः पुत्राः, मञ्जुळा तथा तुळसा एते द्वे कन्ये --एव जीवन्तः अवशिष्टाः आसन्। तेषु भीमरावः एकः एव माध्यमिकशालां प्रवेष्टुम् अर्हतां प्राप्य माध्यमिकशालां प्रविष्टवान्।  तत्र तस्य पित्रा भीमरावस्य कुलनाम अम्बडवेकरः इति लिखितं यतः सः मूलतः अम्बडवेग्रामात् आसीत्। तथापि अनन्तरं भीमरावस्य शिक्षकः कृष्णाजि-केशव-अम्बेडकरः स्वस्य अम्बेडकरः इति कुलनाम भीमरावाय अदात्।

१८९७ मध्ये एतत् कुटुम्बं मुम्बयीम् आगतम्। तत्र भीमरावः 'एल्फिन्स्टन् हायस्कूल' इति माध्यमिकविद्यालयं  प्रविष्टवान् प्रथमः अस्पृश्यवर्गीयच्छात्रः आसीत्। १९०६ मध्ये तदानीन्तनीं परम्पराम् अनुसृत्य वयसः पञ्चदशे वर्षे भीमरावस्य विवाहः रमाबायीनाम्न्या नववर्षीयया कन्यया सह अभवत्। १९१२ मध्ये भीमरावेण मुम्बयीविद्यापीठात् अर्थशास्त्रं तथा राजशास्त्रम् इति विषये पदवी अधिगता। समनन्तरमेव १९१३ मध्ये तस्य पिता दिवं गतः।

तस्मिन्नेव वर्षे बडोदासंस्थानस्य शिष्यवृत्तिं प्राप्य भीमरावः उच्चशिक्षणार्थम् अमरीकादेशं गतः। कोलम्बियाविद्यापीठात् अर्थशास्त्रे तेन १९१५ तमे वर्षे परास्नातकपदवी समधिगता। तत्र तेन 'प्राचीनभारतीयव्यापारः' इति शोधनिबन्धः प्रस्तुतः।

'लण्डन स्कूल ऑफ् इकानॉमिक्स' इत्यस्मात् विद्यापीठात् १९२३ मध्ये तेन अर्थशास्त्रे विद्यावारिधिः इति पदवी अधिगता। अर्थशास्त्रे विद्यावारिधिं प्राप्तवान् सः दक्षिण-आशियातः प्रथमः व्यक्तिः आसीत्। १९२७ मध्ये कोलम्बियाविद्यापीठेन तस्मै विद्यावारिधिः इति पदवी प्रदत्ता। 'ग्रेज् इन्' इत्यस्मात् विद्यापीठात् १९२० मध्ये सः बॅरिस्टर इति उपाधिम् अपि अधिगतवान्। पुनश्च भारतीयसंविधानस्य निर्माणे तस्य अतुलनीययोगदानम् उपलक्ष्य १९५२ मध्ये कोलम्बियाविद्यापीठेन तथा १९५३ मध्ये भाग्यनगरस्थेन ओस्मानीयाविद्यापीठेन मानद-विद्यावारिधिः इति उपाधिना सः सम्मानितः।

आजीविकार्थं भीमरावेण प्रथमं महाराज-सयाजीरावस्य बडोदासंस्थाने सैन्यसचिवरूपेण कार्यमारब्धम्। तथापि समनन्तरमेव सः तत् कार्यम् अत्यजत्।अनन्तरं वैयक्तिकशिक्षकः, लेखापालः इत्यादीः वृत्तीः सः स्वीकृतवान्। निवेशमन्त्रणादानस्य व्यवसायः अपि तेन कञ्चित्कालम् अङ्गीकृतः। तथापि तस्य ग्राहकाणां तस्य अस्पृश्यजातिविषये ज्ञानम् अभवत् तदा तेन सः व्यवसायः असफलतां गतः। १९१८ मध्ये तेन सिडनहॅम-वाणिज्यार्थ-महाविद्यालये प्राध्यापकवृत्तिः प्राप्ता।

१९२० मध्ये तेन कोल्हापुरस्थस्य छत्रपतिशाहूमहाराजस्य साह्येन 'मूकनायकः' इति साप्ताहिकस्य प्रकाशनम् आरब्धम्। दलितजनेषु शिक्षणप्रसारार्थं तेन बहिष्कृत-हितकारिणी-सभा इत्यस्याः संस्थायाः स्थापनापि कृता। 

१९२७ मध्ये अस्पृश्यताविरोधि-आन्दोलनस्य प्रारम्भः तेन कृतः। महाराष्ट्रस्य रायगडजनपदे महाडग्रामे दलितजनानां ग्रामतडागात् जलादानस्य अधिकारार्थं सः सत्याग्रहम् अनुष्ठितवान्।

दलितानां मन्दिरप्रवेशस्य अधिकारार्थम् अपि तेन आन्दोलनानि आरब्धानि। नाशिकस्थ-काळाराममन्दिरे दलितानां प्रवेशस्य अधिकारार्थं तेन जनयात्रा आरब्धा। तस्यां १५००० दलितजनाः सहभागिनः अभवन्।

१९३२ मध्ये ब्रिटिशैः दलितानां कृते स्वतन्त्रनिर्वाचनक्षेत्रनिर्माणस्य उद्घोषणा कृता। तेन हिन्दुसमाजः विभक्तः भवेत् इति भीत्या गान्धिना तन्निरोद्धुम् उपवासः आरब्धः। अतः मदनमोहनमालवीयादिजनैः उभयोः नेत्रोः अम्बेडकरगान्ध्योः मेलनम् आयोजितम्। तदा अम्बेडकरः गान्धिः च सन्धिं कृतवन्तौ। सः च सन्धिः 'पूना पॅक्ट' इति नाम्ना प्रसिद्धः अभवत्। तेन सामान्यनिर्वाचनक्षेत्रे दलितानां कृते स्वतन्त्राणि आरक्षितस्थानानि निर्मितानि। तेन स्वतन्त्रनिर्वाचनक्षेत्रनिर्माणं निरस्तम्।

१९३५ मध्ये मुम्बय्यां शासकीयविधिमहाविद्यालयस्य प्राचार्यरूपेण सः नियुक्तः अभवत्। १९३६ मध्ये तेन 'स्वतन्त्रश्रमिकपक्षः' इति नाम्ना राजनैतिकदलस्य स्थापना कृता। अस्मिन्नेव वर्षे 'जातिव्यवस्थाध्वंसः' इति तस्य पुस्तकं प्रसिद्धम् अभवत्। कोड्कणप्रान्ते विद्यमानायाः कृषिकानां कृते अन्याय्याः 'खोती'-व्यवस्थायाः निषेधार्थम् आन्दोलनमपि तेन आरब्धम्।

१९४० मध्ये महोदयेन 'पाकिस्थानविषयकविचाराः' नामकः चतुःशतपृष्ठात्मकः प्रबन्धः प्रकाशितः यस्मिन् पाकिस्थानराष्ट्रस्य कल्पना तेन साकल्येन विवेचिता। तन्मतेन भारतस्य विभाजनं कृत्वा मुसल्मानानां कृते भिन्नराष्ट्रस्य निर्माणं हितावहमेव आसीत् यतः हिन्दुमुस्लिमाः समञ्जनेन एकत्रं वासं कर्तुम् असमर्थाः सन्ति।

१५ ऑगस्ट १९४७ दिनाङ्के भारतं स्वतन्त्रम् अभवत्। खांग्रेसदलेन प्रथमविधिमन्त्रिरूपेण भारतस्य सेवां कर्तुं सः निमन्त्रितः। २९ ऑगस्टदिने संविधानप्रारूपसमितेः सः अध्यक्षः अभवत्।

पाश्चात्यविदुषां मतेन भारतीयसंविधानम् ऐदम्प्राथम्येन एकं सामाजिकप्रपत्रम् अस्ति। तस्य बहवः अंशाः सामाजिकोत्थानस्य कृते एव निर्मिताः सन्ति। सामाजिकदृष्ट्या अप्रगतसमाजस्य कृते वृत्तिषु 'आरक्षणस्य व्यवस्थां' निर्मातुं संसदः अनुमतिः तेन अधिगता। एतेन सामाजिकविषमताम् उन्मूलयितुं अप्रगतसमाजाय उन्नतेः अवसरान् च प्रदातुं वयं प्रभवेम इति संविधानप्रारूपसमितेः चिन्तनम् आसीत्। स्त्रीणां कृते अपि बहवः आर्थिकसामाजिकाधिकाराः संविधानेन दत्ताः। एतत् संविधानम् २६ जनवरी १९५० दिनाङ्के संसदा अङ्गीकृतम् अभवत्।

अम्बेडकरः काश्मीरेभ्यः ३७० अनुच्छेदानुसारं विशेषाधिकारान् प्रदातुं न सिद्धः आसीत्। एतस्य प्रस्तावस्य सः भृशं विरोधं कृतवान्। तथापि नेहरूमहाभागस्य अनुरोधेन पटेलमहोदयेन एषः अनुच्छेदप्रस्तावः संसदि न्यस्तः पारितः च।

अम्बेडकरः सर्वभारतीयानां कृते समाननागरीविधेः समर्थकः आसीत्। तेन विवाहः तथा दायभागस्य प्राप्तिः अनयोः विषययोः स्त्रीपुरुषसमानताम् निर्मातुं प्रस्तुतः 'हिन्दु-कोड-बिल्' इति विधिः संसदा अवरोधितः अतः सः १९५१ मध्ये सदस्यत्वस्य त्यागपत्रं दत्तवान्। तथापि  १९५२ मध्ये सः राज्यसभायां पुनः नियुक्तः अभवत्। 

अम्बेडकरः प्रथमः भारतीयः येन परदेशात् अर्थशास्त्रे विद्यावारिधिः पदवी प्राप्ता। कृषिः तथा औद्योगिकक्षेत्रस्य उन्नति देशोन्नत्यै भवेदिति तस्य मतम्। जनननियन्त्रणं भारतस्य आर्थिकविकासाय साह्यकारि भवेदिति तस्य मतं स्वीकृत्य भारतसर्वकारेण कुटुम्बनियमनयोजना प्रचालिता।

प्रप्रथमं अम्बेडकरः सिक्खधर्मं प्रवेष्टुम् इष्टवान्। तथापि अनन्तरं तेन बौद्धधर्मस्य स्वीकारः कृतः। १४ ऑक्टोबर १९५६ मध्ये एतत् धर्मपरिवर्तनम् अभवत्। तदनन्तरं तस्य ५ लक्ष अनुयायिनः अपि बौद्धाः अभवन्। 'बुद्धः तथा च तस्य धम्मः' तेन लिखितः अन्तिमः ग्रन्थः। तस्य लेखनस्य समापनात्  अनन्तरं त्रिषु दिनेषु ६ डिसेंबर १९५६ इति दिनाङ्के सः दिवङ्गतः।  

२०१२ मध्ये एकस्मिन् सर्वेक्षणे सः 'सर्वश्रेष्ठः भारतीयः' इति निर्वाचितः अभवत्।

महाकविकालिदास:।

  

पुरा कवीनां गणनाप्रसङ्गे
कनिष्ठिकाधिष्ठितकालिदासः।
अद्यापि तत्तुल्यकवेरभावा-
दनामिका सार्थवती बभूव।।

महाकविकालिदासस्य विषये प्रसिद्धोयं श्लोकः  संस्कृतकाव्यक्षेत्रे कालिदासस्य अनन्यसाधारणत्वं दर्शयति।

कालिदासस्य प्रदेशकालयोः  विषये न किमपि निश्चितं ज्ञायते। सर्वे संस्कृतग्रन्थकाराः स्वस्य विषये कमपि उल्लेखम् आत्मश्लाघाम् इव मन्यन्ते स्म अतः बुद्ध्या आत्मानं सर्वेभ्यः गोपायितुं प्रयतन्ते स्म। कालिदासः अपि तथा। 

अतः कालिदासस्य वाङ्मये तेन स्वस्य विषये किञ्चिदपि संज्ञापनं न दत्तम्। अतः किंवदन्त्यः लोकमान्यताः एव अस्मिन्विषये शरणम्।

कालिदासः भोजराजस्य सभायाम् आसीदिति केषाञ्चन तर्कः। भोजस्य कालः एकादशं ख्रैस्तशतकम्। बल्लालदेवस्य  भोजप्रबन्धे प्राप्तः कालिदासविषयकः एषः उल्लेखः न ऐतिहासिकदृष्ट्या समीचीनः।  चन्द्रगुप्त-विक्रमादित्यः मौर्यशासकः येन विक्रमसंवतः आरम्भः कृतः। तस्य कालः एव कालिदासस्य कालः इति केचन। अतः कालिदासः इ.स. पूर्वं प्रथमे शतके अभवदिति तेषाम् ऊहा। बहूनां मतेन विक्रमादित्यः इति न राजनाम अपि तु एका पदवी। गुप्तशासकः चन्द्रगुप्तः द्वितीयः अपि एनां पदवीं बिभर्ति स्म। एतस्य कालः चतुर्थं ख्रैस्तशतकम्। ऐतिहासिकलेखेषु कालिदासस्य  प्रथमः उल्लेखः मन्दसौरम्  इत्यत्र सूर्यमन्दिरे विद्यमाने शिलालेखे (ख्रैस्तवर्षम् ४७३) प्राप्यते। अतः बहवः पाश्चात्त्याः ऐतद्देशीयाश्च विद्वांसः  तस्य कालं ख्रैस्तशतकस्य चतुर्थं पञ्चमं वा शतकमिति मन्यन्ते।

उज्जयिनीविषये कालिदासस्य महती आस्था। अतः तदेव तस्य निवासस्थानमासीदिति ऊहा।   लक्ष्मीधर कल्ला-- कश्चन कश्मीरलेखकः --१९२६ तमे वर्षे The Birth Place of Kalidasa इति पुस्तकम् अलिखत्। तस्य मतेन कालिदासः कश्मीरजन्मा। अनन्तरं राजाश्रयार्थं सः उज्जयिनीं गतवान् स्यात्।

कालिदासः अभिजातसंस्कृतलेखकेषु मूर्धन्यस्थानं भजते। राजशेखरबाणभट्टादिभिः सः बहुधा प्रशंसितः। कालिदासं 'कविकुलगुरुः' इति मानाभिधानं दत्तवान् जयदेवकविः। सर विल्यम जोन्सः तं भारतस्य शेक्सपियरः इति सम्बोधयति।

कालिदासस्य सप्त साहित्यकृतयः सर्वमान्याः। 

१) मेघदूतम् -- एतत् खण्डकाव्यं दूतरूपधृतः मेघस्य प्रवासं वर्णयति। कुबेरस्य राजधान्यां अलकानगर्यां वर्तमानः कश्चन कुबेरस्य सेवकः यक्षः सेवाप्रमादात् कुबेरेण शप्तः। तेन सः अलकानगरीं विहाय रामगिरिः इत्यत्र वर्षं यावत् वासं कृतवान्।  पत्नीविरहात् विकलः सः आषाढस्य प्रथमदिवसे मेघं दृष्ट्वा तमेव दूतरूपेण कल्पित्वा तन्माध्यमेन पत्न्यै सन्देशं प्रेषयति इति कल्पना। 

मेघदूते विद्यमाने द्वितीयश्लोके --- 

आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं

वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श।।

इति उल्लेखात् 'आषाढस्य प्रथमदिवसः' कालिदासदिनरूपेण आचर्यते।

मेघदूतस्य विद्वन्मान्यता इयती यत् 'मेघे-माघे गतं वयः' (अस्माकम् आयुः मेघदूतस्य माघकवेश्च कृतीनाम् अभ्यासे एव गतम्) इति उक्तिः विदुषां क्षेत्रे प्रचलिता।

२) ऋतुसंहारम् -- एतत् गीतिकाव्यं कालिदासस्य प्रारम्भिकी रचनैति विद्वांसः। ग्रीष्मादारभ्य वसन्तपर्यन्तं षण्णां ऋतूनां मनोहारि वर्णनम् अत्र प्राप्यते।

३) रघुवंशम् -- एतत् महाकाव्यं रघुवंशे जातानां राज्ञां चरितानि वर्णयति। दिलीपात् आरभ्य अग्निवर्णपर्यन्तं सूर्यवंशीयनृपाः अत्र वर्णिताः।

४) कुमारसम्भवम् -- तारकासुरस्य वधार्थं शिवपार्वत्योः पुत्रः एव क्षमः इत्यतः तयोः विवाहः भवतु इति देवाः ऐच्छन्।  तदनुगुणं शिवपार्वतीपुत्रस्य कार्तिकेयस्य जन्म अभवत्। तेन कृतः तारकसंहारः अस्मिन् काव्ये वर्णितः।

५) मालविकाग्निमित्रम् -- मालविका तथा अग्निमित्रनृपस्य प्रेमकथा अस्मिन्नाटके वर्णिता।

६) विक्रमोर्वशीयम्-- पुरुरवा नाम राजा तथा च उर्वशीनाम्नी अप्सरा एतयोः प्रणयकथा अस्य नाटकस्य कथावस्तु।

७) अभिज्ञानशाकुन्तलम् -- कालिदासनाटकेषु एतत् सर्वश्रेष्ठमिति मान्यता। दुष्यन्तशकुन्तलयोः महाभारतकथा एतस्य नाटकस्य मूलस्रोतः।

काव्येषु नाटकं रम्यं

तत्र रम्या शकुन्तला।

इति उक्तिः सर्वप्रसिद्धा।

पूर्वजीवने कालिदासः मन्दबुद्धिः आसीत्। विद्योत्तमानाम्न्या राजकन्यया सह तस्य छलेन विवाहः अभवत्। तस्य मौर्ख्यं ज्ञात्वा पत्नी तं गृहात् निष्कासितवती। अपमाननम् असहमानः सः कालिमातुः अर्चां कृत्वा तस्याः कृपया बुद्धिमान् कविश्च अभवत्। प्रत्यागते तस्मिन् विद्योत्तमा " अस्ति कश्चित् वाग्विशेषः?" इति पृष्टवती। तदा कालिदासः स्वस्य काव्यशक्तिं दर्शयन् अस्तिशब्देन आरभमाणं कुमारसम्भवम् ( अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः .....) कश्चिच्छब्देन आरब्धं मेघदूतम् ( कश्चित्कान्ताविरहगुरुणा स्वाधिकारात् प्रमत्तः .... ) तथा च वाक्शब्देन प्रारब्धं रघुवंशम् ( वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये.... )  इत्येतानि त्रीणि काव्यानि रचयित्वा तस्याः मानसे बहुमानस्थानं प्राप्तवानिति किंवदन्ती।

उपमालङ्कारयोजने कालिदासः सिद्धहस्तः। अतः 'उपमा कालिदासस्य' इति उक्तिः प्रसिद्धा। मनोभावानां चित्रीकरणे, शब्दयोजने च सिद्धहस्तः एषः महाकविः काव्य-नाट्य-वेद-वेदान्त-छन्द-व्याकरणादि बहुषु शास्त्रेषु पारङ्गतः आसीत्। 

एतादृशस्य अस्य महाकवेः कीर्तिः पृथिव्यां यावच्चन्द्रदिवाकरौ स्थास्यतीति न कोपि सन्देहः।

लोकमान्य:।

  

भारतीयस्वातन्त्र्यसङ्ग्रामस्य अग्रणीः भगवद्गीतायाः आधुनिकभाष्यकारः श्री.बालगङ्गाधरतिलकमहोदयः महाराष्ट्रे कोङ्कणप्रान्ते रत्नागिरी इत्यत्र २३ जुलै १८५६ इति दिनाङ्के जनिम् लेभे। तस्य पिता गङ्गाधरः माता च पार्वतीबायी । महोदयस्य जन्मनाम 'केशवः' इति आसीत् तथापि अनन्तरं 'बालः' इति स्नेहनाम्ना एव सः प्रसिद्धः अभवत्।

तस्य पिता गङ्गाधरः शिक्षकः संस्कृतविद्वान् च आसीत्। 

तिलकमहोदयस्य विवाहः १८७१ मध्ये तापीबायी (अनन्तरनाम सत्यभामाबायी) इत्यनया सह अभवत्। १८७१ मध्ये एव तस्य विवाहस्य पश्चात् पिता गङ्गाधरः दिवङ्गतः। १८७७ मध्ये डेक्कन-महाविद्यालयात् तिलकमहोदयः गणिते स्नातकपदवीम् अधिगतवान्। १८७९ मध्ये तेन एल्.एल्.बी.पदवी अपि अधिगता।

डेक्कनमहाविद्यालये एव आगरकरमहोदयेन सह तस्य स्नेहः जातः। निबन्धमालाकारः विष्णुशास्त्री चिपळूणकरः सर्वकारीयां वृत्तिं त्यक्त्वा राष्ट्रियशिक्षणदायिन्याः पाठशालायाः निर्माणं कर्तुम् उद्यतः। तिलकागरकरौ तेन सह १ जानेवारी १८८० दिनाङ्के पुण्यनगरे ' न्यू इङ्ग्लिश स्कूल्' इत्यस्याः पाठशालायाः स्थापनं कृतवन्तौ। १८८१ मध्ये तैः 'आर्यभूषणमुद्रणालयः' निर्मितः ततश्च 'केसरी' तथा च 'मराठा' इति द्वयोः वृत्तपत्रयोः प्रकाशनस्य आरम्भः कृतः। केसरी मराठ्या तथा च मराठा आङ्ग्लया प्रकाश्यमानं वृत्तपत्रम् आसीत्।

१८८२ मध्ये विष्णुशास्त्री पञ्चत्वं गतः। तदनन्तरं १८८४ मध्ये तिलकः केळकरः भाण्डारकरः, वर्ड्स्वर्थः, वेडरबर्नः इत्यादीनां जनानां संयुक्तप्रयत्नेन 'डेक्कन एज्युकेशन सोसायटी' इति नाम्ना महाराष्ट्रे बहुमान्यायाः शिक्षणसंस्थायाः स्थापनम् अभवत्। भारतीयां संस्कृतिं आधारभूतां कृत्वा राष्ट्रियशिक्षणस्य नूतनपद्धतेः प्रचालनम् इति एतस्याः संस्थायाः उद्दिष्टम् आसीत्। अनया संस्थया १८८५ मध्ये 'फर्ग्युसन-महाविद्यालयः' उद्घाटितः। तत्र तिलकमहोदयः गणितं संस्कृतं च पाठयति स्म।

१८९० मध्ये सः स्वातन्त्र्यकार्यार्थं शिक्षकवृत्तिं त्यक्तवान्। स्वातन्त्र्यप्राप्त्यर्थं धर्मसंस्कृतिपुनरुज्जीवनार्थं च जनान्दोलनं तेन आरब्धम्। तस्य राजकीयजीवनं सुदीर्घम् आसीत्। महात्मागान्धेः पूर्वं सः एव भारतस्य विख्याततमः राजकीयनेता आसीत्।

स्वातन्त्र्यकार्यार्थं सः भारतीयराष्ट्रियखांग्रेसदलं प्रविष्टवान्। तथापि तत्र स्वातन्त्र्यान्दोलनविषये मृदुभूमिकां धारयतां सः विरोधं कृतवान्। स्वातन्त्र्यविषये तस्य भूमिका तीक्ष्णा आसीत्। तेन आरब्धात् 'स्वदेशी'-आन्दोलनात् अनन्तरं खांग्रेसदलं मृदुदल-तीक्ष्णदलयोः विभक्तम् अभवत्।

१८९६ मध्ये प्लेगमहामार्याः प्रादुर्भावकाले ब्रिटिशशासनेन आचरितस्य घोरवर्तनस्य निषेधार्थं केसरीमराठावृत्तपत्रद्वये लिखितैः लेखैः प्रेरितौ चापेकरबन्धू रँड्-नामकं ब्रिटिशाधिकारिणं व्यापादितवन्तौ। अतः शासनेन तिलकमहोदयं विरुद्ध्य हननप्रेरणाभियोगः चालितः तथा च महोदयाय १८ मासात्मकः सश्रमकारावासरूपः दण्डः प्रदत्तः। तदनन्तरं कारावासात् मुक्तः महोदयः ' स्वराज्यं मम जन्मसिद्धाधिकारः तदहं निश्चयेन अधिगच्छेयम्' इत्येतत् प्रसिद्धं उद्घोषणं कृतवान्।

तिलकस्य 'स्वदेशी-आन्दोलनं' तथा 'बहिष्कारान्दोलनं' जनेषु भृशं स्वातन्त्र्यलालसाम् अजनयत्। क्षुदिरामबोसः तथा प्रफुल्लचाकी इत्येतौ द्वौ क्रान्तिकारिणौ ब्रिटिशन्यायाधीशः डग्लस् किग्जफोर्ड् इत्यस्य हननाय कोलकातानगरे विस्फोटकस्य विस्फोटनं कृतवन्तौ। तेषां कार्यं तिलकमहोदयेन केसरीवृत्तपत्रे भृशं प्रशंसितम् ब्रिटिशेभ्यः त्वरितस्वराज्यदानस्य आह्वानं कृतम्। तेन पुनरेकवारं राजद्रोहाभियोगं प्रचाल्य शासनेन महोदयः षड्वर्षीय-सश्रमकारावासार्थं ब्रह्मदेशे मण्डालेनगरं प्रेषितः।

कारागारे सः कर्मयोगसमर्थिनीं विश्वप्रसिद्धां 'गीतारहस्य'नाम्नीं भगवद्गीताटीकां अलिखत्। 

महोदयेन 'आर्क्टिक होम इन द वेदाज्' तथा 'ओरायन' नामकौ द्वौ प्रसिद्धग्रन्थौ अपि लिखितौ। आद्ये आर्यजनानां मूलस्थानं उत्तरध्रुवप्रदेशः अस्तीति तर्कितम्। द्वितीये वेदेषु प्राप्तानां नक्षत्रोल्लेखानाम् आधारेण वेदकालनिर्णयस्य प्रयत्नः महोदयेन कृतः अस्ति। 

'भारतीय असन्तोषस्य जनकः' इति 'लोकमान्यः 'इति चैताभ्यां बिरुदाभ्यां ज्ञातः एषः महान् स्वातन्त्र्यसेनानी १ ऑगस्ट १९२० दिनाङ्के पञ्चत्वं गतः। 

नमः लोकमान्याय।

विश्वसंस्कृतदिनम्।

  

संस्कृतं भारतस्य संस्कृतेः भाषा। कतिपयेभ्यः शतकेभ्यः पूर्वम् एषा अस्माकं व्यवहारभाषा आसीत्। भारते आबालवृद्धाः जनाः केवलं संस्कृतेनैव व्यवहरन्ति स्म। 

एषा न केवलं भारतस्य व्यवहारभाषा अपि तु ज्ञानभाषा अपि। रामायण-महाभारत--पुराणादयः आर्षग्रन्थाः, कालिदासादीनां श्रेष्ठकवीनां साहित्यं तु संस्कृते अस्ति एव; किन्तु गणित-रसायन-खगोल-आयुर्वेद-योगादीनां शास्त्राणां ज्ञानमपि  संस्कृते एव अस्ति। एषा भाषा भारतस्य ऐक्यसूत्रम् अपि अस्ति।

श्रावणमासस्य पूर्णिमायां विश्वे सर्वत्र संस्कृतदिनम् आचर्यते। प्राचीनकाले गुरुकुलेषु शैक्षिकसत्रस्य आरम्भः अस्मिन्नेव दिने भवति स्म। श्रावणपूर्णिमातः पौषपूर्णिमापर्यन्तं अध्ययनं प्रचलति स्म। अतः एतदेव दिनं संस्कृतदिनरूपेण आचरणीयमिति निश्चित्य भारतसर्वकारः १९६९ मध्ये (नव-षण्णव-एकतमे ख्रैस्ताब्दे) आदिष्टवान् यदेतत् दिनं केन्द्रस्तरे राज्यस्तरे च संस्कृतदिवसरूपेण सम्मान्यताम्।

इदानीं एतत् दिनं संस्कृतदिनमिति विशेषतया सम्मानितं तु भवत्येव किन्तु ततः पूर्वं त्रीणि तथा च तदनन्तरमपि त्रीणि दिनानि नाम एकः पूर्णः सप्ताहः एव संस्कृतसप्ताहरूपेण आचरितः भवति। 

एतेषु दिनेषु संस्कृतच्छात्राणां विविधाः भाषण-निबन्धलेखनादिस्पर्धाः आयोज्यन्ते। सप्ताहे विविधोत्सवानामपि आयोजनं अस्माकं देशे एव न अपि तु  सर्वस्मिन् विश्वे  भवति।

आगच्छन्तु। संस्कृतदिनं निमित्तीकृत्य संस्कृताध्यनस्य संस्कृतप्रचारस्य च दृढसङ्कल्पं कुर्मः। भारतं संस्कृतमाध्यमेन विश्वगुरुपदं प्रापयामः।

जयतु संस्कृतम्। जयतु भारतम्।

युवादर्श: विवेकानन्द:।

  

येन युगाचार्यस्य विवेकानन्दस्य नाम न श्रुतं तादृशो जनः अतिविरलः स्यात्। अवतारवरिष्ठस्य भगवतः श्रीरामकृष्णस्य संन्यासी शिष्योत्तमः एषः हिन्दुधर्मस्य महान् तत्त्ववेत्ता। आधुनिककाले यैः हिन्दूनां वेदान्ततत्त्वज्ञानस्य तथा च योगदर्शनस्य परिचयः पाश्चात्येभ्यः दत्तः तादृशेषु आचार्येषु स्वामिविवेकानन्दस्य स्थानं प्रथमं श्रेष्ठतमं च विद्यते। 

आन्तरधर्मीय-सामञ्जस्यस्य प्रथमः उद्घोषयिता एषः १९ तमे शतके हिन्दुधर्मं जगतः व्यासपीठे प्रमुखधर्मरूपेण स्थापितवान्। तस्य विचाराः भारतस्य धर्मपरिष्करणान्दोलने प्रमुखशक्तिरूपेण भागम् आवहन्ति। ब्रिटिशोपनिवेशकाले उद्भूतस्य भारतीयराष्ट्रवादस्य जनकः विवेकानन्दः एव। "स्वाभिमानेन वदन्तु वयं हिन्दवः स्मः" एषा तस्य उद्घोषणा हिन्दूनां मनःसु आत्मगौरवस्य स्फुल्लिङ्गम् उद्दीपयति। 

इदानींतनस्य पश्चिमवङ्गराज्ये कोलकातानगरात् उत्तरेण सिमुलियानामकः प्रभागः वर्तते। तस्मिन् एकस्यां गौरमोहनमुखर्जीनाम्न्यां वीथ्यां दत्तकुटुम्बस्य गृहम् आसीत्। एतत् कुटम्बम् ऐश्वर्ययुतं दानशीलं परम्परया विदुषां जन्मस्थानं च आसीत्।  तस्मिन् कुटुम्बे श्रीमतः राममोहनदत्तमहाभागस्य दुर्गाप्रसादः कालिप्रसादश्च इति द्वे अपत्ये आस्ताम्। 

तयोः दुर्गाप्रसादः वयसः पञ्चविंशतितमे वर्षे परिव्रज्यां स्वीकृत्य गृहत्यागं कृत्वा गतवान्। तस्य पत्नी आसीत् श्यामासुन्दरी तथा च पुत्रः विश्वनाथः। राममोहनस्य पश्चात् कालिप्रसादः कुटुम्बप्रमुखः अभवत्। विश्वनाथः यदा दशवर्षीयः आसीत् तदा तस्य माता श्यामासुन्दरी अपि दिवङ्गता।  

विश्वनाथस्य पितृव्यः उदारचरितः नासीत्। तेन कृतं वञ्चनं जानन् अपि विश्वनाथेन स्वस्य मृदुस्वभावः न त्यक्तः। वाक्कीलपरीक्षायाम् उत्तीर्णः भूत्वा सः कोलकाता-उच्चन्यायालये न्यायवादिरूपेण कार्यम् आरब्धवान्। 

नन्दलाल-बसूमहोदयस्य पुत्री श्रीमती भुवनेश्वरी विश्वनाथस्य अर्धाङ्गिनी। एतौ स्वामिविवेकानन्दस्य पितरौ। भुवनेश्वरी पुत्रप्राप्त्यर्थं वाराणसीस्थितस्य वीरेश्वरस्य आराधनं कृतवती। शिवस्य प्रसादेन वङ्गपञ्चाङ्गानुसारं मकरसङ्क्रान्तिदिने १२ जनवरी १८६३ इत्यस्यां तारिकायां भुवनेश्वरी एकं पुत्रं प्रसूतवती। तस्य रूपेण भारतभूमौ एकस्य ज्ञानसूर्यस्य एव आगमनं जातम्।

पितृभ्यां तस्य जन्मनाम वीरेश्वरः इति कृतम्। अनन्तरं नरेन्द्रनाथः इत्यपि तस्य नाम अभवत्। एषः बहु चटुलः पुत्रः आसीत्। तस्य नियन्त्रणे माता बहुक्लेशम् अनुभवति स्म। अतः सा वदति स्म यत् मया शिवसदृशः पुत्रः प्रार्थितः आसीत् तथापि प्रायः शिवेन तस्य एतत् एकं भूतमेव प्रेषितं स्यात्। तथापि पितामहमातापितृभ्यः नरेन्द्रेण दानशीलता, ईश्वरपरायणता निर्भयता इत्यादयः उत्तमगुणाः अपि स्वीकृताः आसन्। तस्य दानशीलता तु अतुलनीया एव। कः अपि भिक्षुकः गृहमागतश्चेत् सः हस्ते आगतं कमपि वस्तु अविचार्य एव तस्मै ददाति स्म। 

मातुः अङ्के उपविश्य नरेन्द्रेण रामाणमहाभारतभागवतकथाः श्रुताः। रामायणकथायां हनुमान् तस्य प्रियतमं पात्रम् आसीत्। बाल्यकाले सः ध्यानक्रीडां करोति स्म। विशेषतः शिवध्याने तस्य नितरां रुचिः आसीत्। एकदा सः ध्यानावस्थायां मग्नः आसीत् तदा एकः भुजङ्गः तस्य पुरतः स्वशीर्षं दोलायमानः स्थितः। तथापि ध्यानमग्नस्य नरेन्द्रस्य बहिर्भानमेव नासीत्।

१८७१ मध्ये वयसः अष्टमे वर्षे ईश्वरचन्द्रविद्यासागरमहोदयस्य मेट्रोपॉलिटन-इन्स्टिट्यूशननामिकायां पाठशालायां नरेन्द्रेण प्रवेशः स्वीकृतः। अनन्तरं सः उच्चशिक्षणार्थं प्रेसिडेन्सीमहाविद्यालयं प्रविष्टवान्। नरेन्द्रः अत्यन्तं जिज्ञासुवाचकः आसीत्। तस्य वाचनस्य क्षेत्रमपि विशालम्। धर्मः, तत्त्वज्ञानम् ,इतिहासः, सामाजिकशास्त्राणि, कला, साहित्यम् इत्येते तस्य अभ्यासविषयाः। हिन्दुधर्मशास्त्रे तस्य नितरां रुचिः। वेदोपनिषदः, पुराणानि, भगवद्गीता, रामायणं, महाभारतम् इत्येतेषु ग्रन्थेषु सः सम्यगभ्यस्तः अभवत्। अभिजातभारतीयसङ्गीतमपि तेन अधीतम्। बेनीगुप्तः, अहमदखानः एताभ्यां भक्तिगीतानि, काशीघोषालावर्यात् पखवाजवाद्यं जगन्नाथमित्रवर्यात् इसराजवाद्यं, सप्ततन्त्री च तेन शिक्षिता।  शारीरव्यायामः, क्रीडा, सामूहिककार्यक्रमोपक्रमेष्वपि सः सर्वदा भागं वहति स्म।नौकानयनं मल्लयुद्धं, जलतरणं, यष्टियुद्धम् इत्यादिषु सः पारङ्गतः आसीत्।

१८८१ मध्ये सः ललितकलापरीक्षाम् उत्तीर्णः। १८८४ मध्ये तेन स्नातकोपाधिः प्राप्ता। स्कॉटिशचर्चमहाविद्यालये (तदानींतनः जनरल्-असेंब्ली-इन्स्टिट्यूशनमहाविद्यालयः) तेन पाश्चात्त्यतत्त्वज्ञानस्यापि अध्ययनं कृतम्। डेव्हिड्-ह्यूमः, इमान्यूअल्-कान्टः, गॉट्लिबः, फित्शेमहाभागः,जॉर्ज्- हेगेलः, आर्थर्-शोपेनहॉरः, स्पिनोझावर्यः, हर्बर्ट्-स्पेन्सरः, ऑगस्ट्-कोम्टेमहोदयः, जॉन्-स्टुअर्ट-मिलः, चार्ल्स्-डार्विनः एतेषां पाश्चात्त्यविदुषां साहित्यं सः अधीतवान्।

जनरल्-असेम्ब्लीमहाविद्यालये प्रो.विल्यम्-हेस्टीमहाभागः नरेन्द्रे बहु दृढस्नेहः आसीत्। एकादा हेस्टीवर्यः विल्यम्-वर्ड्स्वर्थकवेः एक्स्कर्षननाम्नीं कवितां पाठयन् आसीत्। कवितायामागतं सत्यशिवसुन्दरावस्थायाः वर्णनं श्रुत्वा नरेन्द्रः तद्विषये अधिकं ज्ञातुकामः अभवत्। तदा हेस्टीवर्येण तस्मै रामकृष्णपरमहंसविषये कथितम्। रामकृष्णः एताम् अवस्थां सर्वदा अनुभवति इति सः उक्तवान्। 

विंशतिवर्षदेशीयः नरेन्द्रः केशवचन्द्रसेनः तथा च विजयकृष्णगोस्वामी इत्येताभ्यां स्थापितस्य साधारणब्राह्मसमाजस्य अनुयायी अभवत्। तथापि तत्र बुद्धेः समाधाने जाते अपि तस्य आध्यात्मिकज्ञानतृष्णा तु वर्धमानैव आसीत्। एकदा सः महर्षिदेवेन्द्रनाथठाकुरमहोदयं पृष्टवान् ,"महोदय, भवता ईश्वरः दृष्टः अस्ति वा?" देवेन्द्रनाथः समीचीनम् उत्तरं दातुं न शक्तवान्। नरेन्द्रः विविधान् धर्मनेतॄन्  तदेव प्रश्नं पृष्टवान्। 

१८८१ तमे वर्षे डिसेम्बरमासे सः रामकृष्णं मिलितवान्  । श्रीरामकृष्णेन तस्य प्रश्नस्य असन्दिग्धरीत्या उत्तरं दत्तं यत् ," यथा अहं त्वां पश्यन् अस्मि तथैव ईश्वरमपि पश्यामि , तथापि अधिकम् उत्कटरीत्या।" 

प्रप्रथमं रामकृष्णस्य मतानाम् आध्यात्मिकानुभूतीनां च विषये सः समीक्षाकारी, चिकित्सकः, अस्वीकारी आसीत् । रामकृष्णस्य कालिपूजा, वेदान्तस्य जीवब्रह्मैक्यम् इत्यादिषु सः नितराम् अनादरं प्रदर्शयति स्म। रामकृष्णस्य भावावस्था तथा च दैवतसाक्षात्कारान् सः बुद्धिभ्रममेव मन्यते स्म।तथापि तस्य ऋजुव्यक्तित्वेन त्यागवृत्या च सः नितरां प्रभावितः।  

१८८४ मध्ये अकस्मादेव नरेन्द्रस्य पिता दिवङ्गतः। पित्रा गृहीतस्य ऋणस्य आदानार्थम् उत्तमर्णाः तस्य कुटुम्बं भृशं सन्त्रासयन्। वैभवे जीवनं यापयन् नरेन्द्रः सहसा नितरां दरिद्रताम् अन्वभवत्। तस्य बान्धवाः एव तं गृहान्निष्कासयितुम् उद्यताः। तेन विकलमनस्कः नरेन्द्रः वृत्तिप्राप्त्यर्थं भृशम् अटितवान्। तथापि तेन जीविका नैव प्राप्ता। एतैः प्रसङ्गैः ईश्वरे तस्य विश्वासः दोलायमानः अभवत्।

एकस्मिन्दिने सः रामकृष्णं प्रार्थितवान् यत् कालिमात्रे भवानेव मम समस्यायाः परिहारविषये कथयतु इति। तथापि रामकृष्णेन 'भवान् स्वयमेव गत्वा तस्यै कथयतु' इति आदिष्टः सः कालिमन्दिरं प्रविष्टवान्। तत्र बहुवारं कालिमातुः दर्शनं प्राप्य अपि स्वसमस्यापरिहारार्थं सः तां प्रार्थयितुं न शक्तवान्। केवलं सः अहैतुकभक्तेः प्राप्त्यर्थमेव प्रार्थनम् अकरोत्।  तथापि एतेन कालिमातुः अनस्तित्वविषये तस्य भ्रान्तिः अपगता। तत्पश्चात् सः रामकृष्णं गुरुरूपेण वृत्वा तस्य निर्देशानुसारम् ईश्वरदर्शनसाधनायां मग्नः अभवत्।

१८८५ मध्ये रामकृष्णः कण्ठस्य कर्करोगेण ग्रस्तः अभवत्। तस्य महासमाधेः पूर्वं काशीपुरोद्यानगृहे सः वासम् अकरोत्। रामकृष्णकृपया नरेन्द्रेण एषु दिनेष्वेव निर्विकल्पसमाधिः प्राप्तः। रामकृष्णेन नरेन्द्राय अन्यशिष्येभ्यः च संन्यासदीक्षा दत्ता। एतान् शिष्यान् नेतृरूपेण भवानेव मार्गं दर्शयतु इति रामकृष्णेन सः आदिष्टः।

रामकृष्णस्य देहान्तानन्तरं तस्य बहवः शिष्याः गार्हस्थ्यम् अङ्गीकृतवन्तः। तथापि अवशिष्टसन्यासिशिष्यैः सह नरेन्द्रः बारानगरमठे निवासम् अकरोत्। तत्र सर्वेषाम् ईश्वरसाधना प्रतिकूलावस्थायामपि अखण्डितरीत्या प्राचलत्।

१८८८ मध्ये नरेन्द्रेण परिव्रज्या स्वीकृता। केवलं दण्डः , कमण्डलुः ,भगवद्गीता तथा च ख्रिस्तानुसरणम् इति द्वे पुस्तके एव तस्य नैजवस्तूनि आसन्। सः भारते सर्व्वत्र प्रवासं कृत्वा भारतीयसामाजिकजीवनं तथा च विविधधर्मपन्थानः इत्येतेषां सम्यक् ज्ञानं प्राप्तवान्। सः पद्भ्यां वा रेलयानेन वा प्रवासं करोति स्म। यात्रायां सः राजानः, दरिद्राः,बुद्धिमन्तः, हिन्दवः,मुसल्मानाः, ख्रैस्ताः, शूद्राः एतैः सर्वैः सह यथाप्रसङ्गं निवासं कृतवान्। दरिद्रभारतस्य शोचनीयां स्थितिं दृष्ट्वा तस्य हृदयं करुणाकुलं जातम्।  भारतीयसमाजस्य उत्थानार्थं सः बद्धप्रतिज्ञः अभवत्।

खेत्रीसंस्थानस्य महाराजः अजितसिंहः तस्य परममित्रम्। महाराजस्य सूचनानुसारं सः 'विवेकानन्दः' इति नाम स्वीकृतवान्। महाराजस्यैव निर्देशानुसारं अमरीकायां शिकागो इत्यत्र भविष्यमाणायां सर्वधर्मपरिषदि सहभागं वोढुं सः ३१ मे १८९३ दिनाङ्के अमरीकादेशं प्रति प्रस्थितः।

सर्वधर्मपरिषदः प्रारम्भः ११ सप्टेंबर दिनाङ्के अभवत्। अस्मिन् दिने 'आर्ट इन्स्टिट्यूट आफ् शिकागो' इत्यस्मिन् स्थाने सभागृहे हिन्दुः, जैनः, बौद्धः, जुडाईझमः, कन्फ्यूशिअसतत्त्वज्ञानं, शिंटोधर्मः, मुस्लिमधर्मः, मझ्दधर्मः एवं अष्ट धर्मपथां प्रतिनिधयः उपस्थिताः आसन्।  चतुःसहस्त्रं श्रोतारः अपि सभागृहे उपविष्टाः आसन्। इतःपूर्वं भाषणदाने अनभ्यस्तः स्वामी  वक्तुं भीतिः अनुभूतवान्। तथापि सरस्वत्याः स्मरणं कृत्वा तेन भाषणस्य आरम्भः कृतः।

 तस्य प्रथमशब्दाः "मम अमेरिकावासिनः भगिन्यः बान्धवाश्च" इतिहासमेव निर्मितवन्तः। चतुःसहस्रजनैः उत्थाय तालिकावादनेन सः अभिनन्दितः। यद्यपि स्वामिनः तत् भाषणं लघु एव तथापि विश्वस्य सर्वोत्कृष्टभाषणेषु तत् समाविश्यते। स्वस्य भाषणे 'आन्तरधर्मीयसहिष्णुता तथा च सर्वधर्ममतानां वैश्विकस्वीकारः' इति अपूर्वतत्त्वं सः उदघोषयत्। शिवमहिम्नस्तोत्रात् सः उद्धृतवान्, "यथा सर्वे जलप्रवाहाः अन्ते समुद्रं प्राप्य एकीभूताः भवन्ति तथा विविधधर्ममार्गैः गच्छन्तः जनाः अन्ते एकमेव ईश्वरं प्राप्नुवन्ति।"

अमेरिकायां. स्वामी सर्व्वत्र प्रसिद्धः अभवत्। अमेरिकायां वृत्तपत्राणि तं " धर्मपरिषदि विद्यमानेषु सर्वश्रेष्ठं व्यक्तिमत्त्वम् " अमन्यन्त। 

धर्मपरिषदः समापनात् अनन्तरं स्वामी अमरीकायां सर्वत्र अटित्वा व्याख्यानानि दत्त्वा भारतीयतत्त्वज्ञानस्य प्रचारम् अकरोत्। १८९४ मध्ये न्यूयॉर्कनगरे तेन 'वेदान्त-सोसायटी' नामिकायाः संस्थायाः स्थापनं कृतम्। 

१८९५-९६ मध्ये सः इंग्लंडदेशं गतवान्। तत्र मार्गारेट्-नोबल् (सिस्टर-निवेदिता) तस्य शिष्या अभवत्। रामकृष्णस्य प्रथमपाश्चात्त्यचरित्रस्य लेखकं मैक्स-मुलरमहोदयं सः मिलितवान्। 

पाश्चात्त्यदेशात् सः स्वस्य भारतीयकार्यं पुनरुज्जीवयत्। तस्य गुरुबन्धुभ्यः प्रेषितानि तत्कालीनपत्राणि भारतस्य सामाजिकोत्थानस्य आवश्यकताम् उच्चरवेण उद्घोषयन्ति।

१८९७ तमे वर्षे जनवरीमासे नौकायानेन सः भारतं प्रत्यागतवान्। श्रीलङ्कायाः कोलम्बोनगरे सः प्राप्तः। तत्र तस्य अभूतपूर्वं स्वागतम् अभवत्। कोलकातासमीपे बेलूरम् इत्यत्र १ मे १८९७ इति दिनाङ्के स्वामिना 'रामकृष्ण-मिशन' नाम्ना सामाजिकसेवाकार्यार्थं कटिबद्धायाः संस्थायाः स्थापना कृता।

१८९९ मध्ये सः पुनरेकवारं इंग्लण्ड-अमरीकादिदेशं गत्वा तत्रत्यस्वकार्यस्य दृढीकरणं कृतवान्।  विदेशात् प्रत्यागत्य सः बेलूरमठे निवासम् अकरोत्। तथापि ४ जुलै १९०२ दिनाङ्के वयसः केवलं ऊनचत्वारिंशत्तमे वर्षे सः महासमाधिं प्राप्तवान्। 

विवेकानन्दः शङ्कराचार्यस्य अद्वैतत्त्वज्ञानं हिन्दुत्त्वज्ञानस्य सारः इति अमन्यत। तथापि रामकृष्णमतानुसारं द्वैताद्वैतस्य समन्वयः अपि तेन प्रतिपादितः अस्ति। "यदेकं तदेव बहु" इति तस्य तत्त्वज्ञानस्य विशेषः। स्वामिना प्रतिपादितं चतुर्विधयोगरूपं साधनप्रारूपं --तत्रापि विशेषतया राजयोगः--जगज्जनानां कृते स्वस्य दैवीस्वरूपस्य साक्षात्कारार्थं व्यावहारिकं साधनमार्गं निरमात्।

तस्य मतेन --प्रत्येकं जीवः अव्यक्तब्रह्म एव। बहिस्थां तथा च आन्तरिकीं प्रकृतिं नियम्य एतस्य दैवीस्वरूपस्य आविष्करणमेव अस्माकं ध्येयम् । एतत् ध्येयं कर्मभक्तियोगज्ञानमार्गैः व्यस्तैः समस्तैर्वा सम्पादयन्तु मुक्ताश्च भवन्तु। एषः एव धर्मस्य सारः। सर्वाणि तत्वज्ञानानि, मन्दिराणि, धर्ममार्गाः, कर्मकाण्डं वा एतस्य लक्ष्यस्य प्राप्त्यर्थं साह्यकारी गौणविस्तरः एव।

आत्मग्लानिं प्राप्तवतः भारतस्य कृते स्वामिना दत्तः सामाजिकोत्थानस्य, पुरुषकारस्य, राष्ट्रभक्तेः स्वाभिमानस्य च सन्देशः भारतीययुवजनानां कृते अत्यन्तं महत्त्वपूर्णः। आधुनिकहिन्दुजनाः स्वस्य धर्मस्य संज्ञापनं प्रत्यक्षाप्रत्यक्षरीत्या विवेकानन्दवर्यस्य साहित्यात् एव प्राप्नुवन्ति।

नमो भगवते विवेकानन्दाय।

भारतवन्दना।

  

कुमारी दक्षिणे यस्य
सीमा हिमवदुत्तरा।
भारतं मातृभूतं तं
नमस्कुर्मः सदा मुदा।।१।।

यस्य दक्षिणस्यां दिशि कन्याकुमारी तथा च उत्तरसीमायां हिमवत्पर्वतः वर्तते तं मातृभूतं भारतं वयं सदैव सानन्दं नमामः।

ज्याच्या दक्षिणेला कन्याकुमारी आणि ज्याची उत्तरसीमेला हिमालय आहे त्या मातृभूत भारताला आम्ही आनन्दाने सदैव नमन करतो.

खनिर्मानुष्यरत्नाना-
मेतादृशी न विद्यते।
तुल्यः तस्याः गुणैर्विश्वे
को वद भूमिविस्तरः।।२।।

एतादृशी मनुष्यरूपरत्नानां खनिः अन्या कापि न वर्तते। सम्पूर्णे विश्वे उत्तमगुणैः तस्याः तुल्यः कोपि अन्यः भूमिविस्तरः अस्ति तर्हि कथय।

मनुष्यरूप रत्नांची भारतभूमीसारखी अशी दुसरी खाण नाही. गुणांच्या बाबतीत तिच्याशी तुलना करता येण्यासारखा दुसरा कोणता भूभाग आहे, सांग बरं !!

एकं सदित्ययं घोषो
प्राज्ञैर्यत्र कृतः पुरा।
भूमिरभूदसौ येन
विविधानां पथां स्थलम्।।३।।

विचक्षणैः पुरा भारतभूमौ "एकं सत्…." इति उद्घोषः कृतः आसीत्। तेनेयं भूमिः विविधधर्ममतानां स्थलम् अभवत्।

बुद्धिमंतांनी प्राचीन काळी या भूमीवर "सत्य एकच आहे (त्याची स्पष्टीकरणे फक्त वेगवेगळी असतात) असा उद्घोष केला होता.त्यामुळे ही भूमी विविधधर्मपंथांचे स्थान बनली.

नन्दन्ति ते विनर्दन्ति
विवदन्ति परस्परम्।
तथाप्यन्त्यध्वनिस्तेषां
वन्दे भारतमातरम्।।४।।

तानि धर्ममतानि अत्र मोदन्ते , स्वमतगर्जनामपि कुर्वन्ति, परस्परं विवदन्त्यपि। तथापि तेषामन्तिमध्वनिः "वन्दे भारतमातरम् " इत्यनेनैव रूपेण परिणमते।

हे धर्मपंथ या ठिकाणी आनंदाने राहतात. ते गर्जून स्वतःची मते मांडतात आणि परस्परांशी वादविवादही करतात. पण त्या सर्वांचा अंतिमध्वनी "वन्दे मातरम्" असाच येतो.

ऋणवन्तो वयं पुत्राः
पोषिताः पालितास्तया।
निर्यातनमृणस्यास्य
कुर्याम हि निरन्तरम्।।५।।

वयं भारतमात्रा पोषिताः पालिताः च तस्याः पुत्राः तस्याः ऋणवन्तः स्मः। अस्य ऋणस्य प्रत्यर्पणाय वयं सर्वदा प्रयत्नरताः भवेम।

या भारतमातेने ज्यांचे पालन आणि पोषण केले आहे असे तिचे पुत्र असणारे आपण तिचे ऋणी आहोत. या ऋणाची परतफेड करण्यासाठी आपण निरंतर प्रयत्नरत राहिले पाहिजे.

गीता सुगीता कर्तव्या।

 


भगवत: श्रीकृष्णेन अर्जुनाय दत्त: मोक्षशास्त्रोपदेश: नाम भगवद्गीता। महाभारतस्य भीष्मपर्वे कौरवपाण्डवानां सङ्ग्रामस्य आरम्भे भगवान् अर्जुनाय इदं शास्त्रम् उपदिष्टवान्। 

युद्धारम्भे अर्जुन: स्वस्य सारथिं कृष्णम् उक्तवान् यत् मम रथं उभयो: सेनयो: मध्ये स्थापय ; अहं सर्वान् योद्धुकामान् जनान् अवलोकयेयम्। भगवता तथा कृते अर्जुन: सर्वान् योद्धॄन् निरैक्षत्। तत्र युद्धार्थमागतान् स्वस्य बान्धवान् गुरूंश्च दृष्ट्वा एतेषां हननं मया इदानीं कर्तव्यमिति चिन्तयित्वा स: गलितगात्र: बभूव।  

‘एते मम बान्धवा: गुरव: च। एतेषां मारणात् वयं पापमेव विन्देमहि। एतदपेक्षया सर्वं युद्धादिकं त्यक्त्वा अहं भैक्ष्यं चरेयम्। तदेव मम श्रेय:’, इति तेन उक्ते कृष्ण: तस्य हृदयदौर्बल्यं दृढं धिक्कृत्य तस्मै धर्मयुद्धाय प्रैरयत्। तदा एतेषां हननात् अहं पापमेव आप्नुयामिति पार्थेन आक्षेपे उपस्थापिते यया पद्धत्या कर्मकरणेन मनुष्य: पापं न अवाप्नोति प्रत्युत मोक्षं प्रति अग्रेसर: भवति तादृशी कर्मयोगपद्धति: भगवता उपदिष्टा।

कर्मफलविषये अनासक्त: भूत्वा, कर्मफलत्वेन प्राप्यमाणौ लाभालाभौ, जयाजयौ वा समौ कृत्वा यदि मानव: स्वभावत: प्राप्तं कर्म करोति तर्हि तद् बाह्यत: कियदपि घोरं भवतु नाम, स: कर्मकारी पापस्य भागी न भवति मुक्तिं च प्राप्नोति इति भगवद्गीताया: मूलसिद्धान्त:। 

सुखदु:खे समे कृत्वा लाभालाभौ जयाजयौ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि।।

एनं मूलसिद्धान्तम् आश्रित्य ज्ञानध्यानभक्त्यादय: नैके विषया: भगवता गीतायां विस्तरेण चर्चिता:। 

कर्म बन्धनकारि अत: तत् समग्रं त्यक्तव्यम् इति पूर्वसूरीणां मतम् आसीत्। तदनुसृत्य निवृत्तिमार्गानुसारं सर्वं त्यक्त्वा संन्यासं स्वीकृत्य यदि सर्वेऽपि जना: गच्छेयु: तर्हि समाजस्य नाशायैव तद्भवेत्। 

कर्मण: बन्धनकारित्वं स्वयं कर्मणि न विद्यते। तद्विद्यते अस्माकं मनसि या कर्मफलविषयिणी आसक्ति: तस्याम्। सा आसक्ति: त्यक्ता चेत् केवलं कर्मकरणं न बन्धनाय भवति प्रत्युत तदेव मोक्षसाधनत्वेन परिणमते। अत: बाह्यत: कर्मत्याग: करणीय: उत न एष: विषय: गौण:। अस्माभि: कर्मफलासक्ति: त्यक्ता चेत् स: एव कर्मयोग: स: एव यथार्थसंन्यास: अपि। अन्यथा बाह्यत: कर्मत्यागे कृतेऽपि मनसि फलासक्ति: अवशिष्टा चेत् स: कर्मसंन्यास: मिथ्याचार: एव भवति।

प्रवृत्तिनिवृत्तिमार्गयो: एष: अपूर्व: समन्वय: गीतोपदेशस्य अनन्यसाधारणं वैशिष्ट्यम्। उपनिषत्सु य: मोक्षविचार: सुदीर्घं चर्चित: अस्ति तस्य परिपक्वं व्यवहारोपयोगि रूपं गीतायामेव प्राप्यते। अत: एवोक्तम्–

सर्वोनिषदो गावो दोग्धा गोपालनन्दन:।
पार्थो वत्स: सुधीर्भोक्ता दुग्धं गीतामृतं महत्।।

अत: भारतीयाध्यात्मशास्त्रेषु गीता सर्वोच्चं स्थानं भजतेतराम्। 

उपनिषद: ब्रह्मसूत्रं भगवद्गीता च वेदान्तदर्शनस्य प्रस्थानत्रयम् इति उच्यते। उपनिषत्सु ये विषया: आगता: तेषां सङ्कीर्णत्वात् उपनिषद्वाक्येषु य: आपातत: परस्परविरोध: भासते तस्य निराकरणार्थं भगवता व्यासेन ब्रह्मसूत्राणि रचितानि। तदनन्तरं उपनिषदां ब्रह्ममोक्षादिचर्चानां य: सार: स: भगवता कृष्णेन पार्थं निमित्तीकृत्य जगते प्रदत्त:। अत: भगवद्गीता उपनिषदां सर्वोत्तमं भाष्यम्‌ इति वक्तुं शक्यते। 

भारतीयमनसा जीवनस्य विषये य: सर्वग्राही विचार: कृत: स: सर्व: गीतायां ग्रथित: अस्ति। अत: भारतीयविचाराणां प्रातिनिधिक: अयं ग्रन्थ: अस्माकं राष्ट्रियग्रन्थ: इति वक्तुं शक्यते। 

शास्त्राणि तु बहूनि सन्ति। एतावान् सुदीर्घ: शास्त्रविस्तर: मनुष्येण एकस्मिन्नेव जीवने पठितुमपि अशक्य:। अत: सर्वशास्त्राणां सारभूत: केवलं सप्तशतश्लोकात्मक: एष: लघुग्रन्थ: कण्ठस्थीकृत: सम्यग्ज्ञात: अधीतश्चेत् मनुष्य: तावतैव कृतकार्य: भवेत्। अत एव उच्यते–

गीता सुगीता कर्तव्या किमन्यै: शास्त्रविस्तरै:।
या स्वयं पद्मनाभस्य मुखपद्मात् विनिसृता।।  





 

शरीरस्य महत्त्वम्।

 


सर्वमेव परित्यज्य शरीरमनुपालयेत्।

शरीरस्य प्रणष्टस्य सर्वमेव विनश्यति।।१।।

अन्यत्सर्वं विहाय शरीरस्य पालनं करणीयम्। यतः शरीरं यदि नश्यति तर्हि सर्वमेव विनष्टं भवति।

माणसाने बाकी सगळे सोडून शरीराचे रक्षण करावे. शरीर नष्ट झाले तर सगळेच नाहीसे होते. ते नसेल तर मग काहीच नाही. 

धर्मार्थकाममोक्षाणां शरीरमाद्यसाधनम्।

शरीरे भस्मसाद्भूते चतुर्वर्गः समाप्यते।।२।।

धर्मः, अर्थः, कामः, मोक्षः च एतेषां चतुर्विधपुरुषार्थानां प्राप्तये शरीरमेव प्रथमं साधनम्। यदा देहः भस्मसात् भवति तदा एषः चतुर्विधः पुरुषार्थः अपि समाप्तिं गच्छति।

धर्म, अर्थ, काम आणि मोक्ष चार या पुरुषार्थांच्या प्राप्तीचे शरीर हेच पहिले साधन आहे. शरीर भस्मसात् झाल्यावर हा चतुर्वर्ग सफल होण्याची शक्यताच संपते.

तेन जन्म पुनः मृत्युः शिष्टभोगस्य प्राप्तये।

अनन्तक्लेशसन्तानः गर्भावासः ध्रुवं पुनः।।३।।

तेन अवशिष्टभोगानां प्राप्त्यर्थं जीवः पुनः जन्म पुनश्च मृत्युः प्राप्नोति। अपि च अनन्तकष्टानां विस्तररूपः गर्भे वासः तेन निश्चितमेव प्राप्तः भवति।

त्यामुळे शिल्लक राहिलेल्या भोगांच्या प्राप्तीसाठी पुन्हा जन्म, पुन्हा मृत्यू आणि अनंत क्लेश वाढवणारा गर्भवास नक्कीच भोगावा लागतो.

अतः देहः तथा कुर्याच्चतुर्वर्गो यतः फलेत्।

देहस्य रक्षणं तस्मात्सदैव काङ्क्ष्यते बुधैः।।४।।

अतः चतुर्वर्गः येन सफलीभवेत् तथा देहस्य रक्षणपालनादिः कर्तव्यम्। एतेन कारणेन बुद्धिमन्तः जनाः देहं सदैव रक्षितुम् इच्छन्ति।

म्हणून देहाची अशी काळजी घ्यावी की ज्यामुळे चार पुरुषार्थांची प्राप्ती होऊ शकेल. या कारणास्तव बुद्धिमान लोक सदैव देहाच्या रक्षणाची इच्छा करत असतात.

जयन्ती /जन्मोत्सव:।

  

कृष्णहनुमतादीनां जयन्ती सम्माननीया उत जन्मोत्सव: आचरणीय: इत्यस्मिन्विषये विवाद: उत्पन्न: दृश्यते। केचन जयन्तीशब्दं जयन्ति: इति लिखन्त: आलोकिता:। तद्विषये विचारणीयम्।

जयं पुण्यं च कुरुते जयन्तीमिति तां विदु:।

--- स्कन्दपुराणम्।

रोहिणीसहिता कृष्णा मासे च श्रावणेऽष्टमी।
जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशिनी।।

१) अनेन उल्लेखेन एतत् स्पष्टीभवति यत् 'जयन्ती' एष एवोचित: शब्द:, न जयन्ति: इति। जयन्ति: इति प्रामादिकं रूपं न लेख्यं कुत्रापि।

२) जयन्तीशब्दस्य जन्मदिनेन सह साक्षात् अर्थसम्बन्ध: नास्ति। जयन्तीशब्दस्य केवलं रूढ्या प्राप्त: अर्थ: जन्मन: दिनम्।

३) महापुरुषाणां जन्मदिनं कदाचित् तेषु जीवत्सु तथा नियतं तेषां मृत्यो: पश्चात् 'जयन्ती' इति नाम्ना सम्मान्यते यत: तेन जयलाभ: पुण्यं च भवतीति धारणा। अत: रामकृष्णरमणविवेकान्दादीनां 'जयन्ती' भवेत्।

४) तेषामेव 'जन्मोत्सव:' अपि। जन्मोत्सव: जयन्ती च एतयो: अर्थभेद: अस्ति चेदपि महापुरुषाणां जन्मदिनसमारोहस्य उल्लेखार्थम् उभयो: शब्दयो: उपयोग: निर्बाध:।

५) अस्मादृशानां सामान्यानां जीवतां प्रतिवर्षं जन्मदिनं , वर्धापनदिनम् वा। नवजातानां जन्मोत्सव:।

६) महापुरुषाणां मरणदिनं अस्माकमपि च 'पुण्यतिथि:' स्यात्।

७) कृष्णजन्मविषये रोहिणीयुक्ता कृष्णाष्टमी 'जयन्ती' इति विशेषतया ख्याता। तदितरा न। अत: सामान्यतया 'श्रीकृष्णजन्माष्टमी' इत्येव कथनं योग्यम्। रोहिणीयुक्ता तु 'श्रीकृष्णजयन्ती'। तथापि उपयोग एष: केवलं कृष्णविषयक:।

गीतोक्त-अहिंसाया: स्वरूपम्।

  

भगवद्गीताया: दैवासुरसम्पद्विभागयोग: इत्यस्मिन् षोडशेऽध्याये श्रीकृष्ण: अहिंसा इति दैवीगुणसम्पत्सु मुख्य: गुण: इति कथयति।

अहिंसा सत्यमक्रोध-
स्त्याग: शान्तिरपैशुनम्।
दया भूतेष्वलोलुप्त्वं
मार्दवं ह्रीरचापलम्।।

तदनन्तरं अर्जुन: जन्मना दैवीसम्पद्युक्त: अस्तीति उक्त्वा स: अर्जुनं प्रशंसति च।

दैवी सम्पद्विमोक्षाय
निबन्धायासुरी मता।
मा शुच: सम्पदं दैवी-
मभिजातोऽसि पाण्डव।।

परं प्रतिदिनं मानवानां शतान् सहस्रान् वा मारयन् अर्जुन: दैवीगुणयुत: तथा च अहिंसक: कथं स्यात् इति प्रश्न:।

अहिंसाशब्दस्य रूढार्थ: "जीवहत्याया: त्याग:" इति अस्ति। स: अर्थ: स्वीकृतश्चेत् कालत्रयेऽपि अर्जुन: अहिंसक: भवितुं नार्हति। अरिमर्दनं क्षत्रियस्य धर्म: एव श्रुतिस्मृतिभि: कथित:। तं धर्मं स: निग्रहेण पालयति स्म। महाभारतयुद्धे तादृशमेव एव आप्तजनानां धर्म्यं हननं सम्प्राप्तं तदा मोहवशात् स: आत्मानम् अहिसकं दर्शयितुम् आरेभे। तदा श्रीकृष्णेन "त्वं क्लैब्यं मा गम:" इति कठोरशब्दै: तस्य निर्भर्त्सना कृता। तथा च एतत् जीवहननं धर्म्यम् अस्ति प्रतिपाद्य तत् कर्तुम् स: आदिष्ट: एव।

एकत्र श्रीकृष्ण: अहिसां दैवीगुणं मत्वा प्रशंसति। अपरत्र जीवहननात् ग्लायते ,तत् च निवारयितुम् प्रयतमानाय अर्जुनाय तदेव कर्तुं भृशं प्रेरयित्वा युद्धसन्नद्धं करोति। एतस्य परस्परविरोधस्य सङ्गति: कथं सम्पादयितव्या?

एतस्यैव अर्थ: अयं यत् भगवत: श्रीकृष्णस्य अभिमत: अहिंसाया: अर्थ: "जीवहननात् निवृत्ति:" इति कदापि नास्ति।

श्रीकृष्ण: तथा च अर्जुन: उभौ मिलित्वा पूर्णं खाण्डववनं ज्वालितवन्तौ तत्स्थाने च मयासुरेण मयसभाया: निर्माणं कारितवन्तौ।

"जीवहननस्य त्याग:" एतावदेव अहिंसाशब्दस्य अर्थ: स्वीक्रियते चेत् तेन निकषेण कृष्णार्जुनौ कदापि अहिंसकौ न तिष्ठेताम्।

जात: कोऽपि जन्तु: जीवहत्याम् अकृत्वा प्राणधारणां कर्तुम् अक्षम:। अस्माकं प्रत्येकं ग्रास: अन्यजीवस्य मुखात् प्रसह्य निष्कास्य स्वायत्तीकृत: भवति। अस्माकं केवलं श्वासप्रश्वासेनैव लक्षश: सूक्ष्मजन्तव: मरणं प्राप्नुवन्ति। अत: "जीवहत्याया: पूर्णत्याग:" एवं व्याख्याता अहिंसा सत्यमेव शतं प्रतिशतं पालनीया चेत् जीवनमेव पूर्णतया स्थगनीयं भवेत्।

अत: श्रीकृष्णस्य अभिप्रेता अहिंसा कीदृशी एतत् गवेषणीयम्। तस्योत्तरं तत्रैव गीतायां प्राप्यते। अष्टादशेऽध्याये भगवान् कथयति --

यस्य नाहङ्कृतो भावो
बुद्धिर्यस्य न लिप्यते।
हत्वापि स इमाँल्लोकान्
न हन्ति न निबध्यते।।

यस्य "अहं कर्ता" इति अहङ्कार: नास्ति, यस्य च मति: तया भावनया आवृता न भवति तेन जनेन एतत् सर्वं जीवजातं व्यापादितं चेदपि स: कमपि न हन्ति तथा च तज्जन्यपापेन न निबद्ध: भवति।

भगवत: मतेन किमपि कर्म हिंसात्मिकं अथवा अहिंसकं एतत् निश्चेतुं "तेन कस्यापि जीवस्य प्राणात्यय: भवति उत न" एतत् तत्त्वं नैव निकषायते। तां कृतिम् अनुतिष्ठन् मनुष्य: स्वविषये "अहमेव कर्ता" इति अनुभवन् तिष्ठति उत न एतत् तत्त्वमेवात्र निकषीभवति।

बाह्यत: कृते: स्वरूपं किमपि स्यात् नाम, अहंभावरहितं तस्या: अनुष्ठानम् अहिंसा अहंभावयुक्तं च हिंसेति निगद्यते।

अत: समत्वबुद्धिं समाश्रित्य अहंभावं त्यक्त्वा , लाभहानी समाने कृत्वा अधर्मिणाम् आप्तानां नाशार्थं त्वं सिद्ध: भवेति भगवता स: स्पष्टवाचा नि:सन्दिग्धम् आदिष्ट:।

सुखदु:खे समे कृत्वा
लाभालाभौ जयाजयौ।
ततो युद्धाय युज्यस्व
नैवं पापमवाप्स्यसि।।

जयलाभयो: लालसा पराजयहान्यो: अनीहा इत्येषा अहंभावसम्बद्धा मन:स्थिति:। समत्वं प्राप्तुम् अहंभाव: त्यक्तव्य:। स: त्यक्तश्चेत् आपातत: हिंसात्मिका भासमाना कृतिरपि तथास्वरूपा न तिष्ठति।

अत: श्रीकृष्णस्याभिमता अहिंसा पूर्णतया आन्तरिकी भावना अथवा गुण:। बाह्यजगति विद्यमानया जीवहत्यया तस्या: अभावेन वा सा निरतिशयम् असम्बद्धा। एष एव अहिंसातत्त्वस्य जगद्व्यवहारसङ्गतोऽर्थ: हितकारक:।

इति शम्।

मन्त्रपुष्पाञ्जल्या: अर्थ:।

  



भारते सर्व्वत्र विशेषतया महाराष्ट्रे देवानाम् आरात्रिकस्य अन्ते मन्त्रपुष्पाञ्जलिः गीयते। महाराष्ट्रे गणेशोत्सवदिनेषु न्यूनातिन्यूनं ध्वनिमुद्रितः मन्त्रपुष्पाञ्जलिः तु वारं वारं श्रुतिपथम् आयाति।


मन्त्रपुष्पाञ्जलिः इत्यस्य अर्थः मन्त्ररूपिणां पुष्पाणाम् अञ्जलिः इति। शुक्लयजुर्वेदस्य 'देवेमन्त्राः' नाम परिशिष्टरूपो भागः। तत्रत्याः मन्त्राः मन्त्रपुष्पाञ्जल्याम् उपयुज्यन्ते। तेषु 'देवाः' इति शब्दस्य पौनपुन्येन श्रवणात् तेषां 'देवेमन्त्राः' इति अभिधानम्। एते आहत्य २३ मन्त्राः तथापि इदानींतनकाले तेषु केवलं चत्वारः एव पठिताः श्रूयन्ते। मन्त्रपुष्पाञ्जल्यां अभिव्यक्तः विचारः अद्यापि कालानुरूपः उपयुक्तश्च। तद्विषये किञ्चित् विविच्यते--


मन्त्रः १--


ॐ यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन्। ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः।।


अन्वयः– ॐ देवाः यज्ञेन यज्ञम् अयजन्त।तानि प्रथमानि धर्माणि आसन्। ते महिमानः नाकं (च) सचन्त ह यत्र पूर्वे साध्याः देवाः सन्ति। 


अर्थः– ॐ देवैः यज्ञरूपिणा साधनेन एव यज्ञः कृतः। एते यज्ञाः एव देवानां आद्याः धर्माः आसन्। तैः नूनं यज्ञेनैव माहात्म्यं प्राप्तं तथा च यत्र प्राचीनाः साध्याः देवाः सन्ति सः स्वर्गः अपि अधिगतः। 


स्पष्टीकरणम्-- ऋग्वेदस्य प्रथममण्डले १६४ तमे सूक्ते ५० तमी ऋचा एषा। ऋग्वेदस्य दशमे मण्डले तथा च अथर्वेदेऽपि पुनः दृश्यते एषा। एतस्यां ऋचि यज्ञशक्त्या एव देवाः माहात्म्यं स्वर्लोकं च प्राप्तवन्तः इति उक्तम्।


यज्ञः इत्युक्ते ' दैवतम् उद्दिष्य वेदिस्थाग्नौ घृतादीनां समर्पणम् ' इत्येव अर्थः सामान्यतया प्रतीयते। तथापि यज्ञस्य मूलकल्पना ' यस्मात् स्रोतात् वयं जीवनार्थं किमपि स्वीकुर्मः, तस्य स्रोतसः पुनर्भरणम् ' इति। अद्यत्वे तदेव recycling, replenishing इत्यादिभिः नामभिः कथ्यते।


सृष्टिः जीवनस्य चालनार्थं अस्मभ्यं नैकान् पदार्थान् ददाति तेषां मूलस्रोतसां विषये अस्माकं मनःसु कृतज्ञता स्यात्। तां कृतज्ञतां दर्शयितुं लब्धस्य किञ्चित् अंशं तेभ्यः स्रोतोभ्यः प्रत्यर्पयितव्यः। सा प्रत्यर्पणक्रिया नाम यज्ञः। एषा सृष्टिस्था आदान-प्रदानक्रिया चक्राकारा अस्ति। प्रत्नैः एषा एव गतिः यज्ञचक्रम् इति नाम्ना निर्दिष्टा आसीत्।


सृष्ट्यां पदार्थानां मूलस्रोतांसि यद्यपि निर्जीवानि भान्ति तथापि तेषु प्रत्येकं स्रोतस्य पृष्ठतः दिव्यत्वस्य शक्तेः वा अंशः विद्यमानः अस्ति। एते अंशाः नाम देवाः। यज्ञे हर्विर्दानेन वयम् एतान् देवान् सन्तोषयितुं शक्नुमः। सन्तुष्टाः ते देवाः पुनः अस्मभ्यम् इच्छितवस्तूनि ददति एवमेषा वैदिक-आर्यानां श्रद्धा आसीत्। एतस्मिन् एकं वैज्ञानिकं सत्यमपि वर्तते।


अधुना विज्ञानेनापि एतदनुमतं यत् सृष्टेः बलपूर्वकं लुण्ठनं न योग्यम्। सृष्ट्याः सकाशात् आदत्तस्य सृष्टये प्रतिदानमपि आवश्यकम्। अतः एव पर्यावरणरक्षणविचारः आधुनिकविज्ञानेन आरब्धः अस्ति। 


भगवद्गीतायां भगवान् कृष्णः वदति--


सहयज्ञाः प्रजाः सृष्ट्वा

पुरोवाच प्रजापतिः।

अनेन प्रसविष्यध्वमेष

वोऽस्त्विष्टकामधुक्।।


पुरा यज्ञेन सहैव ब्रह्मदेवेन प्रजानिर्माणं कृतम्। ततः सः उवाच ,"अनेन यज्ञेन भवन्तः वर्धन्ताम्। एषः यज्ञः भवतां कृते इष्टकामानां दायकः भवतु।"


देवान्भावयतानेन

ते देवा भावयन्तु वः।

परस्परं भावयन्तः 

श्रेयः परमवाप्स्यथ।।


"अनेन यज्ञेन भवन्तः देवान् सन्तुष्टान् कुर्वन्तु। ते देवा अपि भवतः सन्तोषयन्तु। एवं परस्परं सन्तोषयन्तः भवन्तः परं कल्याणं प्राप्नुवन्तु।"


एवं प्रवर्तितं चक्रं 

नानुवर्तयतीह यः।

अघायुरिन्द्रियारामो

मोघं पार्थ स जीवति।।


कृष्णो वदति, " हे पार्थ, एवं सृष्ट्यां विद्यमानं आदानप्रदानरूपं यज्ञचक्रं यः न प्रवर्तयति सः पापभक्षी, इन्द्रियलोलुपः  मनुष्यः वृथा एव जीवति।"


भोगैकसर्वस्ववादिनि अद्यतनजगति एषः उपदेशः कियान् प्रासङ्गिकः एतन्न पृथग्वक्तुम् आवश्यकम्।


एतस्मिन्मन्त्रे साध्यदेवानाम् उल्लेखः अस्ति। एषः द्वादशसङ्ख्याकानां देवानामेकः विशिष्टः गणः।अनुमन्ता, प्राणः, नरः, वीर्य्यः, यानः, चित्तिः, हयः, नयः, हंसः, नारायणः, प्रभवः तथा विभुः एतानि तेषां नामानि।


मंत्र--२


ॐ राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे। स मे कामान् कामकामाय कामेश्वरो वैश्रवणो ददातु। कुबेराय वैश्रवणाय महाराजाय नमः।।


● अन्वयः -- वयं राजाधिराजाय प्रसह्यसाहिने वैश्रवणाय नमः कुर्महे। सः कामेश्वरः वैश्रवणः कामकामाय मे कामान् ददातु। महाराजाय कुबेराय वैश्ववणाय नमः। 


अर्थः-- ओम्। राज्ञां राजानं, बलशालिनं वैश्रवणं वयं नमामः। सः कामानाम् अधिपतिः वैश्रवणः कामनापूर्णाय मह्यं इच्छितभोगान् दद्यात्। महाराजाय कुबेराय वैश्रवणाय अहं पुनरेकवारं नमस्करोमि।


स्पष्टीकरणम् -- तैत्तिरीय-आरण्यकस्य प्रथमप्रपाठकस्य ३१ तमे अनुवाके एषः षष्ठः मन्त्रः।


यद्यपि इच्छानां निरासः, वैराग्यं तथा च तद्द्वारा मोक्षाधिगमः इति भारतीयानां सर्वोच्चम् आध्यात्मिकं जीवनध्येयम् अस्ति तथापि अङ्गुलिमेयाः एव तत् साधयितुं क्षमाः।


शुद्धसत्त्वा वासनाहीना स्थितिः तावत् न प्राप्यते यावत् रजोगुणजन्य-क्रियाशीलताम् उल्लङ्घ्य, मनसः बहिर्गामिन्याः शक्तेः लयं वयं न साधयामः। प्राचीनानाम् एतस्य तथ्यस्य कल्पना सुस्पष्टा आसीत्। अतः एव स्वस्य भोगेच्छाः अपि व्यक्तीकर्तुं ते सङ्कोचं नानुभवन्ति स्म। 


एताः कामनाः पूरयितुं देवानां कोषाध्यक्षं कुबेरं विहाय कोऽन्यः समर्थः भवेत्? जगति यावन्तः भोगाः ते धनेन विना नैव प्राप्तुं शक्याः।अतः ऋषिः धनाध्यक्षमेव कामनापूर्तये आह्वयति। सः सर्वकामानाम् अधिपतिः अतः सर्वान् कामान् दातुं समर्थः।


विष्णुः--ब्रह्मा--पुलस्त्यः प्रजापतिः-- विश्रवा-- कुबेरः एवं वंशपरम्परा। विश्रवसः पुत्रः अतः एषः वैश्रवणः इति नाम्नापि ज्ञायते।


मन्त्रः--३


ॐ स्वस्ति। साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात् सार्वभौमः सार्वायुष आन्तादापरार्धात् पृथिव्यै समुद्रपर्यन्ताया एकराळिति।।


● अन्वयः-- ॐ स्वस्ति। अयं (यजमानः ) साम्राज्यम् , भौज्यम्, स्वाराज्यम् , वैराज्यम् , पारमेष्ठ्यम् , राज्यम् , महाराज्यम् , आधिपत्यम् (प्राप्नुयात्)। अयं समन्तपर्यायी सार्वभौमः आन्तात् आपरार्धात् सार्वायुषः समुद्रपर्यन्तायै पृथिव्यै एकराट् च स्यात् ।  


अर्थः-- (ऋषिः यज्ञस्य यजमानस्य कृते प्रार्थयते--) ओं कल्याणम् अस्तु। अयं यजमानः साम्राज्यं, भोगसामर्थ्यं, विशिष्टं राज्यं, सर्वोच्चं स्थानं, राज्यं , महाराज्यं, प्रजानाम् आधिपत्यं  प्राप्नुयात्। अयं सीमान्तगामी सार्वभौमराजा स्यात्। परार्धस्य अन्तपर्यन्तं सर्वम् आयुः प्राप्नुयात्। समुद्रपर्यन्तं पृथिव्याः एकः एव अधिपतिः स्यात्।


स्पष्टीकरणम्-- एषः मन्त्रः ऐतरेयब्राह्मणस्य अष्टमपञ्चिकायाः १५ तमात् खण्डात् स्वीकृतः।


अविक्षितनृपस्य पुत्रः आविक्षितः। तस्यैव मरुत्तः इति अपरं नामध्येयम्। एषः महाभारते उक्तेषु पञ्चसु चक्रवर्तिनृपेषु अन्यतमः अस्ति। सः दिग्विजयार्थं प्रस्थितः। ततः पूर्वं पुरोहितद्वारा तस्य महाभिषेकः सम्पन्नः। तदा पुरोहितः नृपस्य कृते एतां कामनां करोति यदेषः समुद्रवलयाङ्कितायाः पृथ्व्याः अधिपतिः भवतु इति।


आसमुद्रं विस्तारितस्य सार्वभौमराज्यस्य एषा प्राचीनकल्पना अस्माकं अखण्डभारतनिर्माणस्य ध्येयस्य अनुगामिनी अतः एव अस्माकं कृते प्रेरणादायिनी वर्तते।


मन्त्रः --४


तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति।।


● अन्वयः-- तदपि एषः श्लोकः अभिगीतः। आविक्षितस्य कामप्रेः गृहे मरुतः परिवेष्टारः (भूत्वा ) अवसन्। विश्वेदेवाः (तस्य) सभासदः (आसन्)।


अर्थः-- (मरुत्तेन दिग्विजयानन्तरं कृतस्य यज्ञस्य विषये) एषः श्लोकः अपि गीयते-- अविक्षितपुत्रस्य कामप्रस्य वंशजस्य मरुत्तस्य  गृहे मरुतः (एतत्संज्ञकाः देवा) अन्नस्य परिवेषकाः भूत्वा अवसन्। विश्वेदेवाः(एषः अपि एकः देवसमूहः) मरुत्तस्य यज्ञसभायां सभासदरूपेण अतिष्ठन्।


स्पष्टीकरणम्-- ऐतरेयब्राह्मणे एषः मन्त्रः अष्टमपञ्चिकायाः २१ तमे खण्डे वर्तते।


कामप्रराजस्य वंशे भवः सः कामप्रिः। कामप्रेः वंशजस्य मरुत्तस्य मातुः नाम भामिनी इत्यासीत्। तस्य राज्यम् आसीत् वैशाली नाम।


एतस्मिन्सन्दर्भे ऐतरेयब्राह्मणे एका कथा अस्ति। बृहस्पतिः तथा च संवर्तः एतौ बन्धू मरुत्तस्य पुरोहितौ। मरुत्तस्य तथा च देवराजस्य वैरम् आसीत्। अतः तयोः मध्ये नित्यं युद्धं प्रचलति स्म। तथापि इन्द्रः मरुतं पराजेतुं न अशक्नोत्।


दिग्विजयानन्तरं यदा मरुत्तेन यज्ञसङ्कल्पः कृतः तदा इन्द्रेण बृहस्पतये कथितं यत् भवान् मरुत्तस्य यज्ञस्य पुरोहितः मा भवतु इति। तदनुसारं बृहस्पतिना मरुत्ताय नकारः कथितः। नारदस्य उपदेशानुसारं मरुत्तेन संवर्तः पुरोहितरूपेण यज्ञकर्मणि योजितः।


मरुत्तस्य इच्छा आसीत् यत् सर्वेपि देवाः मम यज्ञे हविर्भागं स्वीकुर्युः। संवर्तेन इन्द्रस्य विरोधम् अविगणय्य मन्त्रबलात् सर्वाः देवताः यज्ञम् आनीताः। तदा इन्द्रः अपि आगमनाय विवशः अभवत्। मरुत्तेन सर्वे इन्द्रसहिताः देवाः यथोचितं सत्कृताः। तेन इन्द्रः मरुतं प्रति वैरभावं त्यक्तवान्। 


मरुतः (४९ अन्तरिक्षदेवतानां समूहः) तस्य यज्ञकार्ये अन्नस्य परिवेषकाः भूत्वा अतिष्ठन्। विश्वेदेवाः(१० देवतानाम् अन्यः एकः समूहः) तस्य यज्ञशालायां सभासदरूपेण वासं कृतवन्तः। एषः गौरवपूर्णः प्रसङ्गः अत्र वर्णितः।


एतान् चतुरः मन्त्रान् उक्त्वा देवतायै पुष्पाक्षताः समर्प्यन्ते। मन्त्रोल्लेखानुगुणं भारतीयैः दिग्विजयः सम्पादनीयः तथा च जगत्कल्याणाय यज्ञचक्रस्य प्रवर्तनमपि करणीयम् अयं सन्देशः मन्त्रपुष्पाञ्जलिपठनेन प्राप्यते।