@ अन्तर्गतं मूल्यमापनम् (Internal Assessment)
# अन्तर्गतमूल्यमापनं नाम किम्?
प्रचलितपरीक्षापद्धतौ केचन दोषाः सन्ति। तान् अपाकर्तुं वयं प्रयत्नान् कुर्मः एव तथापि यावत् वार्षिकपरीक्षायै अवास्तविकं महत्त्वं दीयते तावत्पर्यन्तं तस्य दुष्परिणामाः भवेयुरेव। विशेषतः दशमद्वादशकक्ष्ययोः या वार्षिकी परीक्षा सा अस्माकं परीक्षापद्धतौ अत्यधिकं महत्त्वम् आवहति। विद्यार्थी आवर्षं किमपि अध्ययनम् अकृत्वा शालोपक्रमेषु सहभागम् अदत्त्वा अपि केवलं वार्षिकपरिक्षायाः पूर्वं किञ्चित् पठित्वा उत्तीर्णः भवति एषः अस्माकं नित्यानुभवः।
एतस्याः समस्यायाः उपायः नाम विद्यार्थिनः मूल्यमापनं केवलं वार्षिकपरीक्षाधारेण अकृत्वा आवर्षं विद्यार्थी कतिषु शालोपक्रमेषु सहभागी भवति एतस्य कृते विशिष्टान् अङ्कान् दत्त्वा तथा च त्रैमासिकषाण्मासिकपरीक्षयोः तेन ये अङ्काः अर्जिताः तेषामपि समावेशं कृत्वा वार्षिककार्यार्थं तस्मै अङ्कदानं करणीयम्। एतदेव अन्तर्गतं मूल्यमापनमिति उच्यते।
लेख्यपरीक्षया कानिचन विशिष्टानि शैक्षिकोद्दिष्टानि एव परीक्ष्यन्ते। छात्रः अवान्तरवाचनं करोति वा, तस्य स्वाध्यायलेखनम्, अभिरुचिः, वक्तृत्वक्रीडादिस्पर्धासु तस्य सहभागः , तस्य वर्तनम् एते सर्वे बिन्दवः यदि मूल्यमापने समाविष्टाः भवन्ति तर्हि छात्राः आवर्षं जागरिताः स्थित्वा अध्ययनं कुर्युः तथा च शालेयोपक्रमेषु उत्साहेन सहभागिनः भवेयुः। शालासु वार्षिकपरीक्षायाः अवास्तविकाधिकारः न्यूनीभवेत्।
वार्षिकपरीक्षायाः निन्दकाः परीक्षामेव त्यजन्तु , आवर्षं विद्यार्थी यत्कार्यं करोति तदाधारेणैव तस्य मूल्यमापनं भवेदिति प्रतिपादयन्ति। तथापि वार्षिकपरीक्षायाः छात्राणां शिक्षकाणां च कृते या प्रेरणादायिनी शक्तिः सा अपि न विस्मरणीया। अन्तर्गतं मूल्यमापनं वार्षिकपरीक्षायाः विकल्परूपेण न द्रष्टव्यम्। वार्षिकपरीक्षया कृतस्य मूल्यमापनस्य पूरकरूपेणैव तस्य उपयोगः भवेत्।
अन्तर्गतमूल्यमापनस्य निकषाः– छात्रैः आवर्षं कृतस्य कार्यस्य कृते १०० गुणाः रक्षणीयाः। तथापि कश्चन शिक्षकः कस्मैचित् छात्राय अत्यधिकान् गुणान् कस्मैचिच्च अतीव न्यूनान् गुणान् दद्यात्। अतः वैयक्तिकमतस्य प्रभावः अन्तर्गतमूल्यमापने अत्यधिकः भवेत्। अतः तस्य न्यूनीकरणार्थं अन्तर्गतं मूल्यमापनं केषां निकषाणाम् आधारेण करणीयम् इत्यस्मिन् विषये स्पष्टता आवश्यकी।
अन्तर्गतमूल्यमापने के घटकाः समावेशनीयाः तथा च तेभ्यः कियान् भारांशः दातव्यः तन्निश्चितं भवेत्। उदाहरणार्थं अन्तर्गतमूल्यमापने अग्रे उक्ताः घटकाः समावेशम् अर्हन्ति–
१) घटकपरीक्षाः – प्रायः शालासु प्रतिषण्मासं एका/द्वे घटकपरीक्षे भवतः। एवं वर्षे चतस्रः घटकपरीक्षाः भवन्ति। तासु लब्धान् अङ्कान् मेलयित्वा पुनः आवश्यकभारांशानुसारं तेषां परिवर्तनं करणीयम्।
२) मौखिकपरीक्षाः
३) प्रात्यक्षिकपरीक्षाः
४) स्वाध्यायलेखनम्
५) पाठ्येतरवाचनम्
६) सहशालेयोपक्रमेषु सहभागः –स्पर्धा, पर्यटनानि, शिबिराणि, प्रदर्शनानि एतेषु कियता प्रमाणेन छात्रः सहभागं दर्शयति तदाधारेण अङ्कदानं भवतु।
७) व्यक्तिमत्त्वगुणाः– छात्रस्य सहकार्यशीलता, नेतृत्वगुणः, समायोजनक्षमता एतेषां गुणानां परीक्षणमत्र करणीयम्।
एतेषु घटकपरीक्षा, मौखिकपरीक्षा, प्रात्यक्षिकपरीक्षा,स्वाध्यायलेखनम् एते चत्वारः अंशाः विशिष्टपाठ्यविषयसम्बन्धिनः। अतः तत्तद्विषयस्य गुणदानयोजनायां तेषां प्राप्ताङ्काः समावेष्टुं शक्यन्ते। तथापि पाठ्येतरवाचनम्, सहशालेयोपक्रमेषु सहभागः , व्यक्तिमत्त्वगुणाः एते अंशाः विशिष्टविषयसम्बन्धिनः न सन्ति। तेषां सम्बन्धः छात्रस्य व्यक्तित्त्वेन सह विद्यते। एतेषां मूल्यमापनाय प्रचलितपरीक्षाः न उपयुक्ताः। शिक्षकेण कृतं छात्रस्य निरीक्षणम् अत्र उपयुक्तम्।
सङ्कलित-प्रगतिपत्रके एतेषां सर्वेषाम् अंशानां समावेशः करणीयः, येन प्रगतिपत्रकं दृष्ट्वा छात्रस्य सर्वाङ्गीणविकासस्य मानचित्रं नेत्रयोः पुरतः स्पष्टं भवेत्। उदाहरणरूपेण प्रगतिपत्रकस्य एकं प्रारूपम् अत्र दीयते। एवमेव अङ्कदानयोजना स्यादिति न नियमः। प्रतिराज्यं शिक्षणमण्डलानि भिन्नभिन्नरूपेण अङ्कदानयोजनायाः प्रारूपं निश्चिन्वन्ति।
#अन्तर्गतमूल्यमापनस्य यथार्थता–(Validity of Internal Assessment)
यदि मूल्यमापनस्य साधनं मूल्यमापनविषयस्य यथायोग्यं मूल्यमापनं करोति तर्हि तत् साधनं यथार्थं सप्रमाणं वा इति कथ्यते। तथापि अन्तर्गतं मूल्यमापनं द्विधारायुतं शस्त्रम्। अयोग्यस्य हस्ते तत् दीयते चेत् छात्रेषु अन्यायः भवेदिति शक्यता।
रमेशाय शिक्षकेन अ-श्रेणी मनीषायै क-श्रेणी च दत्ता। रमेशः शिक्षकं प्रतिदिनम् अभिवदते, यत् शिक्षकः कथयेत् तस्य शब्दशः अनुपालनं करोति, कक्ष्यायां कोलाहलं न करोति तथापि मनीषा शिक्षकं प्रतिदिनम् अभिवदेत एव इति न, कक्ष्यायां निर्भयतया स्वस्य मतान् प्रतिपादयति, वर्गकक्ष्यायां शिक्षकात् अपि अधिकं प्रभावं जनयति तेन शिक्षकः ताम् असूयते।
व्यक्तिमत्वविकासार्थं ये निकषाः उपरितनकोष्टके दत्ताः तदनुगुणं शिक्षकः रमेशस्य मनीषायाः वा मूल्यमापनं करोति वा? न इति दृश्यते। शिक्षकस्य पुरतः रमेशस्य लाङ्गूलचालनं स्तुतिपठनं वा दृष्ट्वैव रमेशाय अ-श्रेणी दत्ता तथा च व्यक्तिगतासूयाकारणात् मनीषायै क-श्रेणी। अतः एतत् यथार्थं मूल्यमापनं नास्ति। एवं शिक्षकः करोति चेत् व्यक्तित्वविकासापेक्षया शिक्षकस्य मनसः प्रसन्नता एव छात्रस्य ध्येयं भवेत्।
# अन्तर्गतमूल्यमापने दक्षता–
१) केवलं १०० गुणाः अन्तर्गतमूल्यमापनार्थं रक्षिताः एतावदेव कथितं चेत् स्पष्टतायाः अभावात् शिक्षकस्य पूर्वग्रहाः, मनःस्थितिः इत्यादीनां प्रभावः मूलमापने वर्धेत। अतः व्यक्तित्वविकासे के अंशाः अन्तर्भूताः सन्ति एतस्य स्पष्टज्ञानं शिक्षकाय दातव्यम्। तेषामंशानाम् विस्तरेण कथनं तथा च प्रत्येकम् अंशस्य कृते निर्धारिताः अङ्का एवं सर्वापि अङ्कदानयोजना स्पष्टा भवेत्।
२) कक्ष्यां पाठयद्भिः सर्वैः शिक्षकैः द्वित्रेषु मासेषु एकवारं एकत्र उपविश्य छात्राणां वर्तनविषये चर्चा करणीया। एतेन प्रतिकूलमनोग्रहाणां परिणामः न्यूनीभवतिः।
३) कस्यापि छात्रस्य वर्तनस्य वारंवारं निरीक्षणं कृत्वा तस्मै अङ्कदानं कर्तव्यम्। सकृदेव निरीक्षणं कृत्वा तस्य विषये यन्मतं भवेत् तदनुसारेण अङ्कदानं न कर्तव्यम्।
४) मूल्यमापनस्य निकषाणां वारंवारं परिवर्तनं न करणीयम्। अन्यथा मूल्यमापनस्य विश्वसनीयता नश्येत्।
# अन्तर्गतमूल्यमापनस्य लाभाः–
१) शालेयोपक्रमान् प्रति अवधानम् अदत्त्वा, केवलं परीक्षाकाले रटनं कृत्वा अहम् उत्तीर्णः भवेयम् एतादृशी छात्रस्य मनस्थितिः अन्तर्गतमूल्यमापनस्य कारणात् अपगच्छति। आवर्षं मया सातत्येन अध्ययनं करणीयं, शालोपक्रमेषु क्रियाशीलतया सहभागः स्वीकर्तव्यः एतस्य विषये छात्रः सुबुद्धः भवेत्।
२) छात्रस्य दैनन्दिनवर्तनस्य अभ्यासवृत्तेश्च निरीक्षणेन छात्रस्य के अध्ययनप्रत्यूहाः सन्ति तद्विषये शिक्षकस्य उत्तमं ज्ञानं भवति। तदनुगुणम् अध्यापनपद्धतौ सः योग्यानि परिवर्तनानि कर्तुं समर्थः भवति।
३) छात्रे अभ्यासस्य योग्याः उच्चटाः निर्मातुं वयं समर्थाः भवामः।
४) स्वस्य व्यक्तिगुणानां विकासाय छात्रः प्रवृत्तः भवति।
५) मूल्यमापनयोजनायाम् अन्तर्गतमूल्यमापनस्य पूरकसाधनरूपेण समावेशः कृतः चेत् छात्रस्य व्यक्तित्वविकासस्य समग्रं चित्रम् उपलभ्यते।
तथापि वार्षिकपरीक्षायाः विकल्परूपेण अन्तर्गतमूल्यमापनं न स्वीकरणीयम्। लेख्यपरीक्षाभिः यत् मूल्यमापनं भवति तस्य पूरकरूपेण एव तस्य उपयोगः भवेत्।