व्याकरणस्य प्रयोजनानि महत्त्वं च–
उच्यते – प्रयोजनमनुद्दिश्य मन्दोपि न प्रवर्तते।
अत: व्याकरणे अध्ययनप्रवृत्तिजननाय प्रयोजनानि वक्तव्यानि। भाष्यकार: वदति– ‘ब्राह्मणेन निष्कारणो धर्म: षडङ्गो वेदोध्येय: ज्ञेयश्च।’ निष्कारणम् इत्युक्ते लाभालाभौ अविगणय्य व्याकरणादिषडङ्गसहितं वेदाध्ययनं करणीयम्। तेन धर्ममोक्षौ पुरुषार्थौ सिध्यत:।
पुनश्च भाष्यकार: वदति – ‘एक: शब्द: सम्यग्ज्ञात: सुप्रयुक्त: लोके वेदे च कामधुक् भवति।’ एतेन दृश्यते यत् सुशब्दपरिज्ञानात् प्रयोगाच्च लोके अर्थकामावपि पुरुषार्थौ सफलीभवत:।
व्याकरणाध्ययनस्य मुख्यानि पञ्च प्रयोजनानि पतञ्जलिना उक्तानि– ‘रक्षोहागमलघ्वसन्देहा: प्रयोजनम्’ इति। वेदरक्षणार्थं वैदिकशब्दानां ज्ञानमावश्यकं तत् व्याकरणं विना न भवेत्।
व्याकरणेन लौकिकशब्दानामपि ज्ञानं भवति यै: विना लोकव्यवहार: नैव सिध्येत्। शब्दमयमिदं व्यवहारजगत्। उक्तं च दण्डिना–
इदमन्धं तम: कृत्स्नं जायेत भुवनत्रयम्।
यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते।।
एवं भगवान् भर्तृहरि: अपि–
न सोस्ति प्रत्ययो लोके य: शब्दानुगमादृते।
अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते।।
अपशब्दप्रयोगेन अधर्म: भवति तेन च पुरुषार्थाणां हानि: भवति। अत: अपशब्दान् ज्ञातुं निवारयितुं च व्याकरणाध्ययनम् आवश्यकम्। व्याकरणेन साधुशब्दज्ञानं भवति तथा च उच्चारणशुद्धिरपि भवति। तेन प्रमादयुक्तोच्चारणात् जायमान: अनर्थ: नश्यति। अत एव पिता पुत्रं वदति–
यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम्।
स्वजनो श्वजनो मा भूत् सकलं शकलं सकृत् शकृत्।।
व्याकरणशास्त्रस्य इतिहास:–
वेदसंहितासु एव व्याकरणस्य विशिष्टविषयरूपेण विचार: करणीय: इति प्रथमभानं दृश्यते। वेदानां सङ्कलनानन्तरं व्याकरणस्य वैज्ञानिकविचारः प्रारब्धः स्यात्। यास्कात् पूर्वं प्रातिशाख्येषु एषः विचारः दृश्यते । शाकल्यस्य पदपाठः अस्यां दिशि प्रथमः पदक्षेपः।
गोपथब्राह्मणे अपि व्याकरणसम्बद्धानाम् नैकासां पारिभाषिकसंज्ञानां प्रयोग: कृत: अस्ति– ‘ओङ्कारं पृच्छाम:। को धातु: किं प्रातिपदिकं, किं नामाख्यातं किं लिङ्गं किं वचनम् ….इत्यादि:। मैत्रायणीसंहितायाम् ऐतरेयब्राह्मणे च प्रप्रथमं विभक्तिशब्दस्य उपयोग: दृश्यते। निरुक्ते यास्काचार्येण व्याकरणस्य प्रगतेः त्रीणि सोपानानि दर्शितानि।
१) साक्षात्कृतधर्माणः ऋषयः बभूवुः।– यैः धर्मः साक्षात्कृतः ते वेदप्रकाशकाः ऋषयः अभवन्।
२) तेsवरेभ्योsसाक्षात्कृतधर्मभ्य उपदेशेन मन्त्रान्सम्प्रादुः।– वेदस्य द्रष्टार: ऋषय: पश्चात् जातेभ्यः, यै: वेदमन्त्रा: न साक्षात्कृता: आसन् तादृशेभ्य: ऋषिभ्य: वेदमन्त्रोपदेशं दत्तवन्त:।
३) अध्ययनाय ग्लायन्तोsवरे बिल्मग्रहणायेमं ग्रन्थं सामाम्नासिषुः वेदं च वेदाङ्गानि च।– तथापि ते शिष्याः वेदस्याध्ययने काठिन्यम् अनुभूय अध्ययनाय अनुत्सुकाः अभवन्। अतः स्वेषां ज्ञानाप्राप्तये सौकर्यं जनयितुं ते निघण्टुनामककोषं तथा वेदाङ्गानि अपि निर्मितवन्तः। यास्क: एतमेव निघण्टुनाकं कोषं उपरिनिर्दिष्टवाक्ये ‘इमं ग्रन्थं’ इत्यादिभि: शब्दै: निर्दिशन् अस्ति।
यास्क: निरुक्तनामकं यद्वेदाङ्गं तत्सम्बद्ध: आचार्य:। निघण्टुकोषस्य व्याख्याने निरुक्तं प्रयतते। एतत् मूलत: अर्थनिर्वचनशास्त्रम् अस्ति। एतत् शब्दानां लौकिकव्युत्पत्तिपरकं शास्त्रम्। यास्काचार्येण निरुक्तस्य लक्षणं कथयता एवमुच्यते–
वर्णागमो वर्णविपर्ययश्चैव द्वौ चापरौ वर्णविकारनाशौ।
धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्।।
यास्काचार्येण नामाख्यातोपसर्गनिपातेषु शब्दानां विभाजनं,नामानि तथा विभक्तिप्रत्ययाः,धातवः तथा च कालार्थप्रत्ययाः एतेषां विषये कथितं तथा च सर्वे शब्दाः क्रियामूलाः इति सिद्धान्तः प्रतिपादितः। पाणिनीयव्याकरणं तथा च आधुनिकव्याकरणान्यपि एनमेव सिद्धान्तम् आधारीकृत्य प्रवृत्तानि सन्ति।
पाणिनिपूर्वकाले बहव: वैयाकरणा: बभूवु:। पाणिनिपूर्वाणाम् आहत्य ८५ वैयाकरणानाम् उल्लेख: प्राप्यते। स्वयं पाणिनिना अष्टाध्याय्यां दशानां पूर्ववर्तिवैयाकरणानां नामानि परिगणितानि सन्ति। अष्टानां प्रसिद्धव्याकरणानाम् अपि उल्लेख: प्राप्यते–
ब्राह्ममैशानमैन्द्रं च प्राजापत्यं बृहस्पतिम्।
त्वाष्ट्रमापिशलं चैव पाणिनीयमथाष्टमम्।।
तथापि एतेषु पाणिनिकृतं व्याकरणं तस्य समग्रत्वात् वैज्ञानिकस्वरूपत्वात् च सर्वप्रसिद्धिं प्राप्नोत्। अन्यानि व्याकरणानि लुप्तप्रायाणि अभवन्।