पस्पशाह्निकम्--४ (पूर्वपीठिका)

 


# कात्यायन:--

पाणिने: पश्चात् कतिपयशतकानाम् अनन्तरं कात्यायन: बभूव। ख्रिस्तपूर्वं २५० वर्षाणि इति तस्य काल:। एष: (साम्प्रतिके प्रयागमण्डले) कौशाम्बीनगरे जात: इति कथासरित्सागरे उक्तम्। भाष्यकारेणापि वाक्यकारस्य (कात्यायनस्य) जन्मभूमित्वेन एषा एव नगरी उल्लिखिता।  कात्यायनस्य अपरं नाम वररुचि: इति। 

पाणिनीये व्याकरणे य: अभाव: आसीत् तेषां पूर्त्यर्थंम् एष: वार्तिकानां रचनम् अकरोत्। 

उक्तानुक्तदुरुक्तानां चिन्ता यत्र प्रवर्तते।

तं ग्रन्थं वार्तिकं प्राहुर्वार्तिकज्ञा मनीषिण:।‌।

पाणिनीयसूत्रेषु यदुक्तं अथवा न उक्तं तथा च उक्तेषु यत् दोषास्पदं तस्य विषये विचारणा यत्र कृतास्ति तद् वार्तिकम्। कात्यायनेन अष्टाध्यायीसूत्रक्रममेव अनुसृत्य आहत्य १५०० सूत्रेषु ४००० वार्तिकानि लिखितानि सन्ति। तानि वाक्यानि इत्यपि उच्यन्ते अत: वाक्यकार: इत्यपि कात्यायनस्य अपरं नाम।

वार्तिकान् विहाय एष: कात्यायनस्मृति: व्यवहारशास्त्रं शालाक्यतन्त्रम् इत्यादीन् ग्रन्थानपि रचितवान् एवं मन्यते परम्परा।

# पतञ्जलि:

कात्यायनस्य अनन्तरं जात: पाणिनीयव्याकरणपरम्पराया: तृतीय: आचार्य:  पतञ्जलि:। एष: भगवत: शेषस्य अवतार: इति मान्यता। तस्य उत्पत्तिविषये एषा किंवदन्ती– गोणिकानाम्नी एका विदुषी  पुत्रप्राप्त्यर्थं भगवन्तं चिदम्बरं प्रार्थयामास। एकदा यदा सा सूर्यम् अर्घ्यं ददती आसीत् तदा तस्या: अञ्जल्याम् एक: सर्प: पतित:। गोणिका तं पृष्टवती ‘कोर्भवान्?’ इति (को भवान् इत्यस्य प्रामादिकोच्चारणम्।)  सर्प: अवदत् , ‘सप्पोहम्’ (सर्पोहम् इत्यस्य ग्राम्यं रूपम्)। तया पृष्टम् , ‘ रेफ: कुत्र गत:’? सर्पेणोक्तं ‘स: त्वया अपहृत:।’ स्वस्य प्रमादं गोणिका ज्ञातवती। तदैव स: सर्प: शिशुरूपेण परिवृत्त: अभवत्। 

गोणिकाया: पुत्र: अत: स: गोणिकापुत्र: इति नाम्ना ज्ञायते। गोनर्ददेशे स: उत्पन्न: अत: गोनर्दीय: इति तस्य अपरं नाम। शेषावतारत्वात् अहिपति:, शेष:, शेषराज:, फणी, फणिभृत् इत्यादिभि: नामभिरपि स: प्रसिद्ध:। 

पाणिनीयसूत्रेषु न्यूनतां पूरयितुं कात्यायनेन वार्तिकानि रचितानि। पतञ्जलिना तेषां वार्तिकानामेव आधारेण पाणिनीयव्याकरणे महाभाष्यं लिखितम्। भाष्यं चूर्णि: इत्यपि उच्यते। अत: ‘चूर्णिकार:’ इत्यपि तस्य नामधेयम्। पदानां कर्ता इत्यर्थेन केचन तं ‘पदकार:’ इत्यपि वदन्ति।

मत्स्यपुराणे गोनर्दप्रदेश: प्राच्यदेशेषु गण्यते। अत: केचन तं प्राच्यदेशीयं मन्वते। तथापि काश्मीरस्थानां गोनर्दनाम्नां त्रयाणां नृपाणामुल्लेखात् एष: गोनर्दजनपद: काश्मीरेषु आसीत् इत्यपि बहव:। स्वयं पतञ्जलि: भाष्ये पाटलिपुत्रम्, साकेतम्, कौशाम्बी मथुरा एतेषां जनपदानाम् उल्लेखं करोति। सम्भवत: काश्मीरे गोनर्ददेशे उत्पन्न: स: विद्याध्ययनार्थं पाटलिपुत्रं जगाम। तदा पाटलिपुत्रे पुष्यमित्रस्य शासनम् आसीत्। ‘इह पुष्यमित्रं याजयाम:’ इत्यादिकथनात् पतञ्जलि: पुष्यमित्रस्य पुरोहितरूपेण कार्यं करोति स्म इति दृश्यते। 

तथापि जन्मभूमे: काश्मीरस्य विषये तस्य महती प्रीति: लक्ष्यते। भाष्ये स: उत्कण्ठापूर्वकं काश्मीरान् स्मरति। ‘काश्मीरान् गमिष्याम: तत्र सक्तून् पास्याम:।’ इत्यादि स: वदति। वस्तुतस्तु काश्मीरादिषु पर्वतदेशेषु सक्तूनां भोजनस्य एव परिपाटी न पानस्य। पानं तु मध्यदेशीया प्रथा।  मध्यदेशीयपाटलिपुत्रप्रभावेण स: ‘पास्याम:’ इति वदति। एतेनापि सिध्यति यत् स: काश्मीरज: आसीत् तथा च पाटलिपुत्रं तस्य कर्मभूमि:। 

शुङ्गवंशीयस्य पुष्यमित्रस्य काल: ख्रिस्तपूर्वं द्वितीयं शतकम्। तस्य एष: पुरोहित: आसीत् इति उक्तम्। तेन पतञ्जले: काल: सामान्यत: ख्रिस्तपूर्वं १५० वर्षाणि इति ज्ञायते। 

पतञ्जले: महानन्दकाव्यम् इत्यपि अन्य: एक: ग्रन्थ: रचित: आसीत् इति समुद्गुप्त: वदति। चरकसंहिताकार: चरक: योगसूत्रकार: पतञ्जलि: तथा भाष्यकार: पतञ्जलि: एक: एव व्यक्ति: आसीत् इति पारम्पारिकी मान्यता। तेन एष: श्लोक: प्रसिद्धिं गत: अस्ति–

योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन।

योपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोस्मि।

# पातञ्जलमहाभाष्यस्य महत्त्वम्।

पतञ्जले: महाभाष्यं पाणिनीयव्याकरणस्य प्रामाणिक: व्याख्याग्रन्थ: अस्ति। पाणिने: अष्टाध्यायी तस्या: वैज्ञानिकत्वात् सर्वसमावेशकत्वात् यदा सर्वत्र प्रसिद्धा अभवत् तदा ताम् अधिकृत्य वृत्तिग्रन्था: वार्तिकग्रन्था: च प्रादुरभवन्। एतादृशं सूत्रव्याख्यानं प्रतिष्ठाजनकं मन्यते स्म अत: वृत्तिवार्तिकग्रन्थानां कश्चन प्रवाह: एव समुद्भूत:। 

 प्रत्येकं वृत्तिकार: यदा स्वमतानुसारं सूत्राणाम् आख्याने प्रवृत्त: तदा सूत्राणां मौलिक: आशय: एव रूपान्तरं गत:। यथा- ‘एङ् प्राचां देशे’ इत्यत्रत्यं प्राचाम् इति पदं पौर्वात्याचार्याणां निदर्शकमिति मत्वा सूत्रस्यार्थं केचन ‘प्राचां मतेन’ इति कृतवन्त:। अपरे प्राचाम् इति देशे इत्यनेन सम्बद्धं पदं मत्वा ‘पौर्वात्यदेशे’ इति व्याख्यातवन्त:। एवम् अव्यवस्थायां जातायां पतञ्जलि: सूत्राणां मौलिकाशयस्य संरक्षणार्थं भाष्यं स्वकीयं रचयामास। 

एष: भाष्यग्रन्थ: आहत्य पञ्चाशीत्यां आह्निकेषु विस्तृत: आसीत् तथापि इदानीं स: पूर्णरूपेण नोपलब्ध: यत: मध्यकाले महाभाष्यं प्रणष्टम् अभवत्। तस्य प्रथमोद्धार: चन्द्राचार्येण कृत:। पुनश्च काश्मीरस्थेन जयापीडराज्ञा क्षीरस्वामिन: साह्येन तदुद्धृतम् इति राजतरङ्गिणीग्रन्थात् ज्ञायते। 

वारंवारं उद्धरणात् एतस्य ग्रन्थस्य मौलिकता कुत्रचित् रूपान्तरमपि प्राप्ता स्यात् तथापि बह्वंशेन एष: ग्रन्थ: अपरिवर्तितरूपेण उपलब्ध: अस्तीति विदुषां मतम्।

भाष्यस्य लक्षणम् एवं वदन्ति–

सूत्रार्थो वर्ण्यते यत्र वाक्यै: सूत्रानुसारिभि:।

स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदु:।।

सूत्रान् अनुसरद्भि: वाक्यै: सूत्रस्य अर्थ: यस्मिन् विशदीकृत: अस्ति तथा च स्वसिद्धान्तानां प्रतिपादनाय नूतनपदान्यपि घटयित्वा तेषामपि स्पष्टीकरणं यस्मिन् कृतं तं ग्रन्थं भाष्यमिति  भाष्यवेत्तार: वदन्ति।

तथापि एतत् भाष्यं मुख्यत: कात्यायनकृतानां वार्तिकानामेव व्याख्यानम् अस्ति। यत्र वार्तिकानि न सन्ति तत्र बहुधा भाष्यमपि नोपलभ्यते। कुत्रचिदेव भाष्यकारेण स्वतन्त्ररीत्या पाणिनिसूत्राणि व्याख्यातानि सन्ति। 

तथापि भाष्यकार: बहुत्र कात्यायनप्रणीतानां वार्त्तिकानां प्रत्याख्यानमेव करोति पाणिनिसूत्रान् च मण्डयति। अत: भाष्यकार: वार्तिककारस्य अपेक्षया पाणिने: समर्थक: इति प्रतीयते। भाष्यमेतत् सूत्रवार्तिकेषु या: न्यूनता: तान् पूरयन्ति। अत: एवोच्यते–

यद्विस्मृतमदृष्टं वा सूत्रकारेण तत् स्फुटम्।

वाक्यकारो ब्रवीत्येव तेनादृष्टं च भाष्यकृत्।।

एतेन ‘यथोत्तरं मुनीनां प्रामाण्यम्’ इति उक्ति: प्रचलिता अभवत्। तथापि नैषा समीचीना भाति। तथा स्याच्चेत् शब्दस्य नित्यत्वं दुष्येत्। स्वयं पाणिनि: स्वसूत्रै: यानि शब्दरूपाणि न सिध्यन्ति तथापि यानि रूढानि सन्ति तादृशानि प्रयुञ्जान: दृश्यते। अत: अस्माकं कृते त्रय: अपि मुनय: प्रमाणभूता:।

व्याकरणं दुरूह: विषय: तथापि तस्य व्याख्याने पतञ्जलिना उपयोजिता शैली संवादात्मिका। तेन अत्यन्तं सरलया भाषया कठिनविषयोयं प्रतिपादित:। वस्तुत: एषा शैली व्याकरणक्षेत्रे अनन्यपूर्विका एव आसीत्।तेन लोकभाषयैव महाभाष्यम् प्रणीतम् एतत् तस्य लोकप्रियताया: गमकम्।

‘चञ्चा’ (तृणमयपुरुष:) ‘काकपेया नदी’ ‘शब्दगडूमात्रम्’ एतादृशानां लोकप्रचलितानां शब्दानां स: उपयोगं करोति। ‘द्विर्बद्धं सुबद्धं भवति’,’समानगुणे एव स्पर्धा भवति’, ‘पर्याप्त: एक: पुलाक: स्थाल्या: निदर्शनाय’, ‘न मृगा: सन्तीति यवा नोप्यन्ते’, ‘आम्रान् पृष्ट: कोविदारान् आचष्टे’ एवं लोकव्यवहारसम्बद्धानां वाक्यानाम् उपयोगेन भाष्यमेतत् प्रभावजनकं जातम्।

व्याख्याने सूत्रानुसरणं ‘प्राप्ति:’ इति उच्यते प्रयोगानुसरणम् च ‘इष्टि:’ इति। भाष्यकार: यद्यपि सूत्रानुसरणं करोति तथापि स: प्रचलितप्रयोगविषयेपि समादरभाक्।  लक्ष्यानुसारं (प्रचलितशब्दानुसारं) स: लक्षणं (सूत्रव्याख्यानं) करोति। तथापि एतेन एवं न चिन्तनीयं यत् सूत्रवार्तिककारयो: विषये पतञ्जलि: न्यूनादरं भजते इति। तेषां मतभेद: इष्टिविषये नाम शब्दप्रयोगे एव न तु प्राप्तिविषयक: । 

महाभाष्येस्मिन् तत्कालीनसमाजस्य सांस्कृतिक-सामाजिक-आर्थिक-राजनैतिकव्यवस्था: यथार्थतया प्रतिबिम्बिता:। राजव्यवहार:, राजशासनम्, दण्डव्यवस्था, शिक्षाव्यवस्था, सदाचार:, धर्म:, दानम्, व्रतानि, वेषभूषा, भक्ष्याभक्ष्यम्, कृषिव्यवस्था एतेषां समग्रं दर्शनं भवति महभाष्ये। अत: न केवलं व्याकरणस्य अपि तु  तत्कालीनसंस्कृते: अपि दर्पणभूत: एष: ग्रन्थ: विश्वकोषवत् तिष्ठति। 

महाभाष्यस्य एतत् महोपदेशकस्वरूपम् अभिलक्ष्य एव ‘महाभाष्यं वा पठनीयं महाराज्यं वा पालनीयम्’ एषा उक्ति: प्रसिद्धा अस्ति। 

पाणिनि: कात्यायन: पतञ्जलि: एते त्रय: मुनय: पाणिनीयव्याकरणपरम्पराया: आधारभूता:। एतै: प्रणीतं व्याकरणं त्रिमुनिव्याकरणम् इति नाम्नापि प्रसिद्धिं गतम्।