गीता सुगीता कर्तव्या।

 


भगवत: श्रीकृष्णेन अर्जुनाय दत्त: मोक्षशास्त्रोपदेश: नाम भगवद्गीता। महाभारतस्य भीष्मपर्वे कौरवपाण्डवानां सङ्ग्रामस्य आरम्भे भगवान् अर्जुनाय इदं शास्त्रम् उपदिष्टवान्। 

युद्धारम्भे अर्जुन: स्वस्य सारथिं कृष्णम् उक्तवान् यत् मम रथं उभयो: सेनयो: मध्ये स्थापय ; अहं सर्वान् योद्धुकामान् जनान् अवलोकयेयम्। भगवता तथा कृते अर्जुन: सर्वान् योद्धॄन् निरैक्षत्। तत्र युद्धार्थमागतान् स्वस्य बान्धवान् गुरूंश्च दृष्ट्वा एतेषां हननं मया इदानीं कर्तव्यमिति चिन्तयित्वा स: गलितगात्र: बभूव।  

‘एते मम बान्धवा: गुरव: च। एतेषां मारणात् वयं पापमेव विन्देमहि। एतदपेक्षया सर्वं युद्धादिकं त्यक्त्वा अहं भैक्ष्यं चरेयम्। तदेव मम श्रेय:’, इति तेन उक्ते कृष्ण: तस्य हृदयदौर्बल्यं दृढं धिक्कृत्य तस्मै धर्मयुद्धाय प्रैरयत्। तदा एतेषां हननात् अहं पापमेव आप्नुयामिति पार्थेन आक्षेपे उपस्थापिते यया पद्धत्या कर्मकरणेन मनुष्य: पापं न अवाप्नोति प्रत्युत मोक्षं प्रति अग्रेसर: भवति तादृशी कर्मयोगपद्धति: भगवता उपदिष्टा।

कर्मफलविषये अनासक्त: भूत्वा, कर्मफलत्वेन प्राप्यमाणौ लाभालाभौ, जयाजयौ वा समौ कृत्वा यदि मानव: स्वभावत: प्राप्तं कर्म करोति तर्हि तद् बाह्यत: कियदपि घोरं भवतु नाम, स: कर्मकारी पापस्य भागी न भवति मुक्तिं च प्राप्नोति इति भगवद्गीताया: मूलसिद्धान्त:। 

सुखदु:खे समे कृत्वा लाभालाभौ जयाजयौ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि।।

एनं मूलसिद्धान्तम् आश्रित्य ज्ञानध्यानभक्त्यादय: नैके विषया: भगवता गीतायां विस्तरेण चर्चिता:। 

कर्म बन्धनकारि अत: तत् समग्रं त्यक्तव्यम् इति पूर्वसूरीणां मतम् आसीत्। तदनुसृत्य निवृत्तिमार्गानुसारं सर्वं त्यक्त्वा संन्यासं स्वीकृत्य यदि सर्वेऽपि जना: गच्छेयु: तर्हि समाजस्य नाशायैव तद्भवेत्। 

कर्मण: बन्धनकारित्वं स्वयं कर्मणि न विद्यते। तद्विद्यते अस्माकं मनसि या कर्मफलविषयिणी आसक्ति: तस्याम्। सा आसक्ति: त्यक्ता चेत् केवलं कर्मकरणं न बन्धनाय भवति प्रत्युत तदेव मोक्षसाधनत्वेन परिणमते। अत: बाह्यत: कर्मत्याग: करणीय: उत न एष: विषय: गौण:। अस्माभि: कर्मफलासक्ति: त्यक्ता चेत् स: एव कर्मयोग: स: एव यथार्थसंन्यास: अपि। अन्यथा बाह्यत: कर्मत्यागे कृतेऽपि मनसि फलासक्ति: अवशिष्टा चेत् स: कर्मसंन्यास: मिथ्याचार: एव भवति।

प्रवृत्तिनिवृत्तिमार्गयो: एष: अपूर्व: समन्वय: गीतोपदेशस्य अनन्यसाधारणं वैशिष्ट्यम्। उपनिषत्सु य: मोक्षविचार: सुदीर्घं चर्चित: अस्ति तस्य परिपक्वं व्यवहारोपयोगि रूपं गीतायामेव प्राप्यते। अत: एवोक्तम्–

सर्वोनिषदो गावो दोग्धा गोपालनन्दन:।
पार्थो वत्स: सुधीर्भोक्ता दुग्धं गीतामृतं महत्।।

अत: भारतीयाध्यात्मशास्त्रेषु गीता सर्वोच्चं स्थानं भजतेतराम्। 

उपनिषद: ब्रह्मसूत्रं भगवद्गीता च वेदान्तदर्शनस्य प्रस्थानत्रयम् इति उच्यते। उपनिषत्सु ये विषया: आगता: तेषां सङ्कीर्णत्वात् उपनिषद्वाक्येषु य: आपातत: परस्परविरोध: भासते तस्य निराकरणार्थं भगवता व्यासेन ब्रह्मसूत्राणि रचितानि। तदनन्तरं उपनिषदां ब्रह्ममोक्षादिचर्चानां य: सार: स: भगवता कृष्णेन पार्थं निमित्तीकृत्य जगते प्रदत्त:। अत: भगवद्गीता उपनिषदां सर्वोत्तमं भाष्यम्‌ इति वक्तुं शक्यते। 

भारतीयमनसा जीवनस्य विषये य: सर्वग्राही विचार: कृत: स: सर्व: गीतायां ग्रथित: अस्ति। अत: भारतीयविचाराणां प्रातिनिधिक: अयं ग्रन्थ: अस्माकं राष्ट्रियग्रन्थ: इति वक्तुं शक्यते। 

शास्त्राणि तु बहूनि सन्ति। एतावान् सुदीर्घ: शास्त्रविस्तर: मनुष्येण एकस्मिन्नेव जीवने पठितुमपि अशक्य:। अत: सर्वशास्त्राणां सारभूत: केवलं सप्तशतश्लोकात्मक: एष: लघुग्रन्थ: कण्ठस्थीकृत: सम्यग्ज्ञात: अधीतश्चेत् मनुष्य: तावतैव कृतकार्य: भवेत्। अत एव उच्यते–

गीता सुगीता कर्तव्या किमन्यै: शास्त्रविस्तरै:।
या स्वयं पद्मनाभस्य मुखपद्मात् विनिसृता।।