एतत् वर्गीकरणं द्विविधम् – अ) कालपरकं आ) पद्धतिपरकं च।
√ कालपरकं वर्गीकरणम्– एतस्मिन् वर्गीकरणे पाणिनीयव्याकरणस्य विकासस्य कालखण्ड: त्रिधा विभक्त: भवति।
१) कालदृष्ट्या पश्यामश्चेत् ख्रिस्तपूर्वम् अष्टमशतकात् आरभ्य ख्रिस्तपूर्वं द्वितीयं शतकम् यावत् य: मुनित्रयस्य काल: स: एव पाणिनीयव्याकरणस्य प्रथम: कालखण्ड: इति मन्यते। एतस्मिन् कालखण्डे व्याकरणदर्शनस्य मूलसिद्धान्तानां प्रणयनं पाणिनि: कात्यायन: पतञ्जलि: एतै: त्रिभि: मुनिभि: कृतम्।
२) पाणिनीयव्याकरणस्य द्वितीय: कालखण्डे त्रिमुनिव्याकरणस्य स्पष्टीकरणानि प्रारब्धानि। लुप्तप्रायस्य महाभाष्यस्य उद्धार: चन्द्राचार्येण कृत:। एष: स्वयं त्रिमुनिव्याकरणस्य सूक्ष्माध्येता आसीत्। स: स्वस्य पृथग्व्याकरणग्रन्थस्यापि प्रणयनं कृतवान्। एतस्य काल: ख्रिस्तस्य पञ्चमं शतकम्।
तदनन्तरं सप्तमे शतके जयादित्यवामनाख्यौ द्वौ काश्मीरपण्डितौ अभवताम्। एताभ्यां काशिकानाम्नी अष्टाध्याय्या: वृत्ति: लिखिता। अष्टाध्यायीसूत्राणां क्रमानुसारं तस्याम् सूत्रस्पष्टीकरणं दत्तम् आसीत्। एतस्य ग्रन्थस्य आद्या: पञ्च अध्याया: जयादित्येन अवशिष्टाध्यायत्रयं च वामनेन लिखितमिति मन्यते।
एतस्मिन्नेव काले भर्तृहरिणा व्याकरणदर्शनम् अधिकृत्य वाक्यपदीयनामक: प्रसिद्ध: ग्रन्थ: रचित:। भर्तृहरिणा महाभाष्यस्य महाभाष्यदीपिका इत्येषा व्याख्या अपि लिखिता आसीत्।
काशिकावृत्ते: अधिकविवरणार्थं जिनेन्द्रबुद्धिना इसवीये अष्टमे शतके काशिकाविवरणपञ्जिका अथवा न्यास: इत्येषा टीका रचिता। पुनश्च एकादशे शतके हरदत्तपण्डितेन पदमञ्जरीनाम्नी काशिकाटीका लिखिता।एकादशे शतके एव कैयटेन महाभाष्यस्य प्रदीपनामिका व्याख्या लिखिता। कैयट: पाणिनीयव्याकरणस्य द्वितीयकालखण्डस्य अन्तिम: लेखक: अस्ति।
३) पाणिनीयव्याकरणस्य तृतीये तथा अन्तिमे कालखण्डे प्रक्रियाक्रमेण लिखितानां ग्रन्थानां रचना अभवत्। पाणिनीयक्रमेण सूत्राध्ययने क्लेशम् अनुभवतां अध्येतॄणां कृते व्याकरणविद्भि: शब्दसिद्धे: प्रक्रियानुसारं पाणिनिसूत्राणां क्रम: परिवर्तित:। अत: एते प्रक्रियाग्रन्था: अथवा प्रकरणग्रन्था: इति नाम्ना ज्ञायन्ते।
द्वादशे शतके धर्मकीर्तिनाम्ना जैनपण्डितेन रचित: रूपावतार: प्रथम: प्रक्रियाग्रन्थ:। तदनन्तरं चतुर्दशे शतके विमलसरस्वतीमहाभाग: रूपमाला इत्येनं ग्रन्थं रचितवान्। पञ्चदशे शतके रामचन्द्रेण प्रक्रियाकौमुदी रचिता। एष: ग्रन्थ: भट्टोजिदीक्षितस्य कृते सिद्धान्तकौमुद्या: रचनायां प्रारूपवत् अभवत्।
सप्तदशे शतके जात: भट्टोजिदीक्षित: प्राय: तैलङ्गब्राह्मण: आसीत्। तथापि तस्य वास्तव्यं काश्याम् अभवत्। लक्ष्मीधर: तस्य पिता। प्रक्रियाकौमुद्या: रचयितु: रामचन्द्रस्य भ्रातृव्य: शेषकृष्ण: तस्य गुरु:। अप्पयदीक्षितमपि स: गुरुं मन्यते। अमरकोषस्य रामाश्रमीटीकाया: लेखक: भानुजि: तस्य पुत्र: बृहच्छब्दरत्नकार: हरिदीक्षित: पौत्रश्च। हरिदीक्षित: वैयाकरणसिद्धान्तमञ्जूषाया:, प्रदीपोद्योतस्य, परिभाषेन्दुशेखरस्य च रचयितु: नागेशस्य गुरु: आसीत्। भट्टोजे: भ्रातृव्य: वैयाकरणभूषणस्य कर्ता कौण्डभट्ट: आसीत्।
भट्टोजिना प्रक्रियाक्रमम् आदृत्य सिद्धान्तकौमुदी रचिता। प्रक्रियाग्रन्थेषु एष: ग्रन्थ: मूर्ध्यन्यं स्थानं भजते। पाणिने: ३९६५ सूत्राणि प्रक्रियार्थं क्रमपरिवर्तनं कृत्वा भट्टोजिना व्याख्यातानि सन्ति। प्रक्रियाकौमुद्यां केवलं रूपसिद्धिदृष्ट्या परमावश्यकानि सूत्राण्येव समावेशितानि आसन्। तथापि सिद्धान्तकौमुद्यां प्राय: सर्वेषामेव पाणिनिसूत्राणां प्रक्रियाक्रमेण समावेशनात् एष: पाणिनिव्याकरणस्य अभिनव: सर्वमान्यश्च ग्रन्थ: अभवत्। तस्य महत्त्वं एतावद्वर्धितं यत् –
कौमुदी यदि कण्ठस्था वृथा भाष्ये परिश्रम:।
कौमुदी यद्यकण्ठस्था वृथा भाष्ये परिश्रम:।।
एषा उक्ति: प्रचलिता। कौमुद्या: अध्ययनं कृतं चेत् महाभाष्यस्य अध्ययनस्य आवश्यकता न स्यात्। तस्या: अध्ययनं नैव कृतं चेत् महाभाष्यस्य आकलनमपि नैव भवेत् अत: तदध्ययनं निष्फलम् एवं प्रवाद: समजायत।
एषा अतिशयोक्ति: अस्ति इति तु ज्ञायते एव। महाभाष्यस्य मौलिकता अध्ययनावश्यकता च अद्यापि अबाधिता एव वर्तते।
सर्वेषां पाणिनिसूत्राणां समावेशात् बृहत्या: सिद्धान्तकौमुद्या: अध्ययनमपि यदा छात्राणां कृते दुष्करम् अभवत् तदा भट्टोजे: शिष्य: वरदराज: तस्य त्रीणि लघुरूपान्तराणि निर्मितवान्। एष: वरदराज: दाक्षिणात्य: आसीत्। तस्य पितु: नाम दुर्गातनय: इति।
वरदराजेन सिद्धान्तकौमुदीत: २३१५ सूत्राणि स्वीकृत्य मध्यसिद्धान्तकौमुदी रचिता। पुनश्च तत: १२७६ सूत्राणि स्वीकृत्य लघुसिद्धान्तकौमुदी तथा ७२३ सूत्राणि स्वीकृत्य सारसिद्धान्तकौमुदी एतद्ग्रन्थद्वयं तेन निर्मितम्। एतेषु सङ्क्षेपग्रन्थेषु लघुसिद्धान्तकौमुदी अत्यधिकं प्रसिद्धिं प्राप्तवती। तस्या: मङ्गलाचरणश्लोके बालानां पाणिनीये प्रवेशाय एष: ग्रन्थ: रचितोस्ति इति तेन उच्यते।
नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहम्।
पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्।।
√ पद्धतिपरकं वर्गीकरणम्–
व्याख्यानपद्धतिम् आधृत्य यत् पाणिनीयव्याकरणस्य वर्गीकरणं तत् पक्षद्वयम् आश्रित्य प्रवर्तते–
१) यथोद्देशपक्ष: २) कार्यकालपक्षश्च।
१) पाणिनिसूत्राणां क्रमम् अपरिवर्त्य कृतं सूत्रव्याख्यानं यथोद्देशपक्ष:। पाणिनिव्याकरणस्य द्वितीये कालखण्डे काशिकात: आरभ्य एकादशे शतके कैयटस्य प्रदीपटीकां यावत् सर्वाणि पाणिनीयव्याख्यानानि अष्टाध्यायीसूत्रक्रमम् अनुल्लङ्घ्य एव प्रवृत्तानि। अत: एते सर्वे ग्रन्था: यथोद्देशपक्षम् आश्रयन्ति। एतदेव प्राचीनव्याकरणम् इति नाम्ना ज्ञायते।
२) द्वादशात् शतकात् आरभ्य रचितेषु प्रक्रियाग्रन्थेषु प्रक्रियामाधृत्य सूत्रक्रमस्य यत् परिवर्तनं कृतं स: कार्यकालपक्ष:। धर्मकीर्ते: रूपावतारात् नागेशस्य परिभाषेन्दुशेखरं यावत् सर्वे ग्रन्था: कार्यकालपक्षधरा:। एतदेव नव्यव्याकरणम् इति उच्यते। एतस्यां परम्परायाम् अग्रे सरसरीत्या व्याकरणं शिक्षयितुं कारिकाग्रन्था: व्याकरणकाव्यग्रन्थाश्च रचिता: अभवन्। यथा हलधरकारिका, वैजलकारिका, भट्टिकवे: भट्टिकाव्यम् नारायणकवे: धातुकाव्यम् इत्यादय:।