कृष्णहनुमतादीनां जयन्ती सम्माननीया उत जन्मोत्सव: आचरणीय: इत्यस्मिन्विषये विवाद: उत्पन्न: दृश्यते। केचन जयन्तीशब्दं जयन्ति: इति लिखन्त: आलोकिता:। तद्विषये विचारणीयम्।
जयं पुण्यं च कुरुते जयन्तीमिति तां विदु:।
--- स्कन्दपुराणम्।
रोहिणीसहिता कृष्णा मासे च श्रावणेऽष्टमी।
जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशिनी।।
१) अनेन उल्लेखेन एतत् स्पष्टीभवति यत् 'जयन्ती' एष एवोचित: शब्द:, न जयन्ति: इति। जयन्ति: इति प्रामादिकं रूपं न लेख्यं कुत्रापि।
२) जयन्तीशब्दस्य जन्मदिनेन सह साक्षात् अर्थसम्बन्ध: नास्ति। जयन्तीशब्दस्य केवलं रूढ्या प्राप्त: अर्थ: जन्मन: दिनम्।
३) महापुरुषाणां जन्मदिनं कदाचित् तेषु जीवत्सु तथा नियतं तेषां मृत्यो: पश्चात् 'जयन्ती' इति नाम्ना सम्मान्यते यत: तेन जयलाभ: पुण्यं च भवतीति धारणा। अत: रामकृष्णरमणविवेकान्दादीनां 'जयन्ती' भवेत्।
४) तेषामेव 'जन्मोत्सव:' अपि। जन्मोत्सव: जयन्ती च एतयो: अर्थभेद: अस्ति चेदपि महापुरुषाणां जन्मदिनसमारोहस्य उल्लेखार्थम् उभयो: शब्दयो: उपयोग: निर्बाध:।
५) अस्मादृशानां सामान्यानां जीवतां प्रतिवर्षं जन्मदिनं , वर्धापनदिनम् वा। नवजातानां जन्मोत्सव:।
६) महापुरुषाणां मरणदिनं अस्माकमपि च 'पुण्यतिथि:' स्यात्।
७) कृष्णजन्मविषये रोहिणीयुक्ता कृष्णाष्टमी 'जयन्ती' इति विशेषतया ख्याता। तदितरा न। अत: सामान्यतया 'श्रीकृष्णजन्माष्टमी' इत्येव कथनं योग्यम्। रोहिणीयुक्ता तु 'श्रीकृष्णजयन्ती'। तथापि उपयोग एष: केवलं कृष्णविषयक:।