भारते सर्व्वत्र विशेषतया महाराष्ट्रे देवानाम् आरात्रिकस्य अन्ते मन्त्रपुष्पाञ्जलिः गीयते। महाराष्ट्रे गणेशोत्सवदिनेषु न्यूनातिन्यूनं ध्वनिमुद्रितः मन्त्रपुष्पाञ्जलिः तु वारं वारं श्रुतिपथम् आयाति।
मन्त्रपुष्पाञ्जलिः इत्यस्य अर्थः मन्त्ररूपिणां पुष्पाणाम् अञ्जलिः इति। शुक्लयजुर्वेदस्य 'देवेमन्त्राः' नाम परिशिष्टरूपो भागः। तत्रत्याः मन्त्राः मन्त्रपुष्पाञ्जल्याम् उपयुज्यन्ते। तेषु 'देवाः' इति शब्दस्य पौनपुन्येन श्रवणात् तेषां 'देवेमन्त्राः' इति अभिधानम्। एते आहत्य २३ मन्त्राः तथापि इदानींतनकाले तेषु केवलं चत्वारः एव पठिताः श्रूयन्ते। मन्त्रपुष्पाञ्जल्यां अभिव्यक्तः विचारः अद्यापि कालानुरूपः उपयुक्तश्च। तद्विषये किञ्चित् विविच्यते--
मन्त्रः १--
ॐ यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन्। ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः।।
● अन्वयः– ॐ देवाः यज्ञेन यज्ञम् अयजन्त।तानि प्रथमानि धर्माणि आसन्। ते महिमानः नाकं (च) सचन्त ह यत्र पूर्वे साध्याः देवाः सन्ति।
● अर्थः– ॐ देवैः यज्ञरूपिणा साधनेन एव यज्ञः कृतः। एते यज्ञाः एव देवानां आद्याः धर्माः आसन्। तैः नूनं यज्ञेनैव माहात्म्यं प्राप्तं तथा च यत्र प्राचीनाः साध्याः देवाः सन्ति सः स्वर्गः अपि अधिगतः।
● स्पष्टीकरणम्-- ऋग्वेदस्य प्रथममण्डले १६४ तमे सूक्ते ५० तमी ऋचा एषा। ऋग्वेदस्य दशमे मण्डले तथा च अथर्वेदेऽपि पुनः दृश्यते एषा। एतस्यां ऋचि यज्ञशक्त्या एव देवाः माहात्म्यं स्वर्लोकं च प्राप्तवन्तः इति उक्तम्।
यज्ञः इत्युक्ते ' दैवतम् उद्दिष्य वेदिस्थाग्नौ घृतादीनां समर्पणम् ' इत्येव अर्थः सामान्यतया प्रतीयते। तथापि यज्ञस्य मूलकल्पना ' यस्मात् स्रोतात् वयं जीवनार्थं किमपि स्वीकुर्मः, तस्य स्रोतसः पुनर्भरणम् ' इति। अद्यत्वे तदेव recycling, replenishing इत्यादिभिः नामभिः कथ्यते।
सृष्टिः जीवनस्य चालनार्थं अस्मभ्यं नैकान् पदार्थान् ददाति तेषां मूलस्रोतसां विषये अस्माकं मनःसु कृतज्ञता स्यात्। तां कृतज्ञतां दर्शयितुं लब्धस्य किञ्चित् अंशं तेभ्यः स्रोतोभ्यः प्रत्यर्पयितव्यः। सा प्रत्यर्पणक्रिया नाम यज्ञः। एषा सृष्टिस्था आदान-प्रदानक्रिया चक्राकारा अस्ति। प्रत्नैः एषा एव गतिः यज्ञचक्रम् इति नाम्ना निर्दिष्टा आसीत्।
सृष्ट्यां पदार्थानां मूलस्रोतांसि यद्यपि निर्जीवानि भान्ति तथापि तेषु प्रत्येकं स्रोतस्य पृष्ठतः दिव्यत्वस्य शक्तेः वा अंशः विद्यमानः अस्ति। एते अंशाः नाम देवाः। यज्ञे हर्विर्दानेन वयम् एतान् देवान् सन्तोषयितुं शक्नुमः। सन्तुष्टाः ते देवाः पुनः अस्मभ्यम् इच्छितवस्तूनि ददति एवमेषा वैदिक-आर्यानां श्रद्धा आसीत्। एतस्मिन् एकं वैज्ञानिकं सत्यमपि वर्तते।
अधुना विज्ञानेनापि एतदनुमतं यत् सृष्टेः बलपूर्वकं लुण्ठनं न योग्यम्। सृष्ट्याः सकाशात् आदत्तस्य सृष्टये प्रतिदानमपि आवश्यकम्। अतः एव पर्यावरणरक्षणविचारः आधुनिकविज्ञानेन आरब्धः अस्ति।
भगवद्गीतायां भगवान् कृष्णः वदति--
सहयज्ञाः प्रजाः सृष्ट्वा
पुरोवाच प्रजापतिः।
अनेन प्रसविष्यध्वमेष
वोऽस्त्विष्टकामधुक्।।
पुरा यज्ञेन सहैव ब्रह्मदेवेन प्रजानिर्माणं कृतम्। ततः सः उवाच ,"अनेन यज्ञेन भवन्तः वर्धन्ताम्। एषः यज्ञः भवतां कृते इष्टकामानां दायकः भवतु।"
देवान्भावयतानेन
ते देवा भावयन्तु वः।
परस्परं भावयन्तः
श्रेयः परमवाप्स्यथ।।
"अनेन यज्ञेन भवन्तः देवान् सन्तुष्टान् कुर्वन्तु। ते देवा अपि भवतः सन्तोषयन्तु। एवं परस्परं सन्तोषयन्तः भवन्तः परं कल्याणं प्राप्नुवन्तु।"
एवं प्रवर्तितं चक्रं
नानुवर्तयतीह यः।
अघायुरिन्द्रियारामो
मोघं पार्थ स जीवति।।
कृष्णो वदति, " हे पार्थ, एवं सृष्ट्यां विद्यमानं आदानप्रदानरूपं यज्ञचक्रं यः न प्रवर्तयति सः पापभक्षी, इन्द्रियलोलुपः मनुष्यः वृथा एव जीवति।"
भोगैकसर्वस्ववादिनि अद्यतनजगति एषः उपदेशः कियान् प्रासङ्गिकः एतन्न पृथग्वक्तुम् आवश्यकम्।
एतस्मिन्मन्त्रे साध्यदेवानाम् उल्लेखः अस्ति। एषः द्वादशसङ्ख्याकानां देवानामेकः विशिष्टः गणः।अनुमन्ता, प्राणः, नरः, वीर्य्यः, यानः, चित्तिः, हयः, नयः, हंसः, नारायणः, प्रभवः तथा विभुः एतानि तेषां नामानि।
मंत्र--२
ॐ राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे। स मे कामान् कामकामाय कामेश्वरो वैश्रवणो ददातु। कुबेराय वैश्रवणाय महाराजाय नमः।।
● अन्वयः -- ॐ वयं राजाधिराजाय प्रसह्यसाहिने वैश्रवणाय नमः कुर्महे। सः कामेश्वरः वैश्रवणः कामकामाय मे कामान् ददातु। महाराजाय कुबेराय वैश्ववणाय नमः।
● अर्थः-- ओम्। राज्ञां राजानं, बलशालिनं वैश्रवणं वयं नमामः। सः कामानाम् अधिपतिः वैश्रवणः कामनापूर्णाय मह्यं इच्छितभोगान् दद्यात्। महाराजाय कुबेराय वैश्रवणाय अहं पुनरेकवारं नमस्करोमि।
● स्पष्टीकरणम् -- तैत्तिरीय-आरण्यकस्य प्रथमप्रपाठकस्य ३१ तमे अनुवाके एषः षष्ठः मन्त्रः।
यद्यपि इच्छानां निरासः, वैराग्यं तथा च तद्द्वारा मोक्षाधिगमः इति भारतीयानां सर्वोच्चम् आध्यात्मिकं जीवनध्येयम् अस्ति तथापि अङ्गुलिमेयाः एव तत् साधयितुं क्षमाः।
शुद्धसत्त्वा वासनाहीना स्थितिः तावत् न प्राप्यते यावत् रजोगुणजन्य-क्रियाशीलताम् उल्लङ्घ्य, मनसः बहिर्गामिन्याः शक्तेः लयं वयं न साधयामः। प्राचीनानाम् एतस्य तथ्यस्य कल्पना सुस्पष्टा आसीत्। अतः एव स्वस्य भोगेच्छाः अपि व्यक्तीकर्तुं ते सङ्कोचं नानुभवन्ति स्म।
एताः कामनाः पूरयितुं देवानां कोषाध्यक्षं कुबेरं विहाय कोऽन्यः समर्थः भवेत्? जगति यावन्तः भोगाः ते धनेन विना नैव प्राप्तुं शक्याः।अतः ऋषिः धनाध्यक्षमेव कामनापूर्तये आह्वयति। सः सर्वकामानाम् अधिपतिः अतः सर्वान् कामान् दातुं समर्थः।
विष्णुः--ब्रह्मा--पुलस्त्यः प्रजापतिः-- विश्रवा-- कुबेरः एवं वंशपरम्परा। विश्रवसः पुत्रः अतः एषः वैश्रवणः इति नाम्नापि ज्ञायते।
मन्त्रः--३
ॐ स्वस्ति। साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात् सार्वभौमः सार्वायुष आन्तादापरार्धात् पृथिव्यै समुद्रपर्यन्ताया एकराळिति।।
● अन्वयः-- ॐ स्वस्ति। अयं (यजमानः ) साम्राज्यम् , भौज्यम्, स्वाराज्यम् , वैराज्यम् , पारमेष्ठ्यम् , राज्यम् , महाराज्यम् , आधिपत्यम् (प्राप्नुयात्)। अयं समन्तपर्यायी सार्वभौमः आन्तात् आपरार्धात् सार्वायुषः समुद्रपर्यन्तायै पृथिव्यै एकराट् च स्यात् ।
● अर्थः-- (ऋषिः यज्ञस्य यजमानस्य कृते प्रार्थयते--) ओं कल्याणम् अस्तु। अयं यजमानः साम्राज्यं, भोगसामर्थ्यं, विशिष्टं राज्यं, सर्वोच्चं स्थानं, राज्यं , महाराज्यं, प्रजानाम् आधिपत्यं प्राप्नुयात्। अयं सीमान्तगामी सार्वभौमराजा स्यात्। परार्धस्य अन्तपर्यन्तं सर्वम् आयुः प्राप्नुयात्। समुद्रपर्यन्तं पृथिव्याः एकः एव अधिपतिः स्यात्।
● स्पष्टीकरणम्-- एषः मन्त्रः ऐतरेयब्राह्मणस्य अष्टमपञ्चिकायाः १५ तमात् खण्डात् स्वीकृतः।
अविक्षितनृपस्य पुत्रः आविक्षितः। तस्यैव मरुत्तः इति अपरं नामध्येयम्। एषः महाभारते उक्तेषु पञ्चसु चक्रवर्तिनृपेषु अन्यतमः अस्ति। सः दिग्विजयार्थं प्रस्थितः। ततः पूर्वं पुरोहितद्वारा तस्य महाभिषेकः सम्पन्नः। तदा पुरोहितः नृपस्य कृते एतां कामनां करोति यदेषः समुद्रवलयाङ्कितायाः पृथ्व्याः अधिपतिः भवतु इति।
आसमुद्रं विस्तारितस्य सार्वभौमराज्यस्य एषा प्राचीनकल्पना अस्माकं अखण्डभारतनिर्माणस्य ध्येयस्य अनुगामिनी अतः एव अस्माकं कृते प्रेरणादायिनी वर्तते।
मन्त्रः --४
तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति।।
● अन्वयः-- तदपि एषः श्लोकः अभिगीतः। आविक्षितस्य कामप्रेः गृहे मरुतः परिवेष्टारः (भूत्वा ) अवसन्। विश्वेदेवाः (तस्य) सभासदः (आसन्)।
● अर्थः-- (मरुत्तेन दिग्विजयानन्तरं कृतस्य यज्ञस्य विषये) एषः श्लोकः अपि गीयते-- अविक्षितपुत्रस्य कामप्रस्य वंशजस्य मरुत्तस्य गृहे मरुतः (एतत्संज्ञकाः देवा) अन्नस्य परिवेषकाः भूत्वा अवसन्। विश्वेदेवाः(एषः अपि एकः देवसमूहः) मरुत्तस्य यज्ञसभायां सभासदरूपेण अतिष्ठन्।
● स्पष्टीकरणम्-- ऐतरेयब्राह्मणे एषः मन्त्रः अष्टमपञ्चिकायाः २१ तमे खण्डे वर्तते।
कामप्रराजस्य वंशे भवः सः कामप्रिः। कामप्रेः वंशजस्य मरुत्तस्य मातुः नाम भामिनी इत्यासीत्। तस्य राज्यम् आसीत् वैशाली नाम।
एतस्मिन्सन्दर्भे ऐतरेयब्राह्मणे एका कथा अस्ति। बृहस्पतिः तथा च संवर्तः एतौ बन्धू मरुत्तस्य पुरोहितौ। मरुत्तस्य तथा च देवराजस्य वैरम् आसीत्। अतः तयोः मध्ये नित्यं युद्धं प्रचलति स्म। तथापि इन्द्रः मरुतं पराजेतुं न अशक्नोत्।
दिग्विजयानन्तरं यदा मरुत्तेन यज्ञसङ्कल्पः कृतः तदा इन्द्रेण बृहस्पतये कथितं यत् भवान् मरुत्तस्य यज्ञस्य पुरोहितः मा भवतु इति। तदनुसारं बृहस्पतिना मरुत्ताय नकारः कथितः। नारदस्य उपदेशानुसारं मरुत्तेन संवर्तः पुरोहितरूपेण यज्ञकर्मणि योजितः।
मरुत्तस्य इच्छा आसीत् यत् सर्वेपि देवाः मम यज्ञे हविर्भागं स्वीकुर्युः। संवर्तेन इन्द्रस्य विरोधम् अविगणय्य मन्त्रबलात् सर्वाः देवताः यज्ञम् आनीताः। तदा इन्द्रः अपि आगमनाय विवशः अभवत्। मरुत्तेन सर्वे इन्द्रसहिताः देवाः यथोचितं सत्कृताः। तेन इन्द्रः मरुतं प्रति वैरभावं त्यक्तवान्।
मरुतः (४९ अन्तरिक्षदेवतानां समूहः) तस्य यज्ञकार्ये अन्नस्य परिवेषकाः भूत्वा अतिष्ठन्। विश्वेदेवाः(१० देवतानाम् अन्यः एकः समूहः) तस्य यज्ञशालायां सभासदरूपेण वासं कृतवन्तः। एषः गौरवपूर्णः प्रसङ्गः अत्र वर्णितः।
एतान् चतुरः मन्त्रान् उक्त्वा देवतायै पुष्पाक्षताः समर्प्यन्ते। मन्त्रोल्लेखानुगुणं भारतीयैः दिग्विजयः सम्पादनीयः तथा च जगत्कल्याणाय यज्ञचक्रस्य प्रवर्तनमपि करणीयम् अयं सन्देशः मन्त्रपुष्पाञ्जलिपठनेन प्राप्यते।
