पस्पशाह्निकम्--९

 

प्रयोजनोपदेश: केषां कृते?

किमेतानि सर्वाणि प्रयोजनानि केवलं व्याकरणम् अध्येतुकामानां कृते उक्तानि उत वेदाध्येतॄणां कृते अपि इति प्रश्न:। वेदानाम् अध्येतार: गुरुभि: ‘अधीष्व भो:’ इत्युक्ते ओङ्कारोच्चारणं कृत्वा अध्ययनारम्भं कुर्वन्ति। अनन्तरं प्रपाठकात् प्रपाठकं यावत् क्रमश: अध्ययनं कृत्वा अन्ते ‘शम्’ इत्युच्चार्य अध्ययनं स्थगयन्ति। एतेषां कृते व्याकरणाध्ययनस्य प्रयोजनानि उक्तानि सन्ति अथवा न?

पूर्वतनकाले उपनयनसंस्कारात् अनन्तरं बाला: प्रथमं व्याकरणं पठन्ति स्म। आरम्भे बालेभ्य: कण्ठादीनाम् वर्णोच्चारणस्थानानां, जिह्वाग्रोपाग्रादिकरणानाम् , आभ्यन्तरप्रयत्नानां बाह्यप्रयत्नानानां तेषु च श्वासानुप्रदाननादानुप्रदानयोश्च सम्यक् परिचय: कार्यते स्म।  अनन्तरं तेभ्य: वैदिकशब्दा: उपदिश्यन्ते स्म। अधुना बाला: साक्षादेव वेदं पठन्ति व्याकरणाध्ययनं विना। एवं त्वरिताध्ययनं कृत्वा ते वदन्ति,’वयं तु वैदिकशब्दान् जानीम: यत: ते वेदात् सिद्धा:। वयं लौकिकं शब्दराशिम् अपि जानीम: लोकव्यवहारात्। तर्हि कुत: व्याकरणाध्ययनस्य आवश्यकता?’ इति। ‘वेदमधीत्य त्वरिता वक्तारो भवन्ति।’ एतया विपरीतबुद्ध्या  तेषाम् अध्ययने अनवस्था उत्पन्ना। सा न भवेत् इत्यर्थं तान् व्याकरणाध्ययने प्रेरयितुं तेषां सुहृद् भूत्वा आचार्य: पतञ्जलि: इमानि प्रयोजनानि उक्तवान्। 

एतेन विवेचनेन ग्रन्थारम्भस्यास्य विषयअनुबन्धचतुष्टयम् उक्तम्। लौकिका: वैदिकाश्च शब्दा अस्य विषय:। तस्य मुख्यानि पञ्च त्रयोदश गौणानि प्रयोजनान्यपि कथितानि। ग्रन्थविषययो: प्रतिपाद्य-प्रतिपादकभाव: सम्बन्ध:। य: शब्दशास्त्रे जिज्ञासु: स: अत्र अधिकारी। 

अनुशासनं केषां शब्दानाम् ?--

व्याकरणशास्त्रे उपदेष्टव्ये सति प्रश्न: उदेति –साधुशब्दानाम् उपदेश: कर्तव्य: उत असाधुशब्दानाम् उत उभयविधानाम् ? 

केचन वदन्ति एतयो: अन्यतरस्योपदेश: पर्याप्त:। यथा शशक: शल्यकी गोधा खङ्गी, कूर्मश्च इत्येते पञ्च पञ्चनखा: भक्ष्या: इति भक्ष्यनियमे उक्ते ततोऽन्ये अभक्ष्या: इति सिध्यत्येव। ‘पञ्च पञ्चनखा भक्ष्या:’ इत्यत्र परिसङ्ख्या अस्ति। उक्तं च–

विधिरत्यन्तमप्राप्तौ नियम: पाक्षिके सति।

तत्र चान्यत्र च प्राप्तौ परिसङ्ख्येति गीयते।।

यत् पूर्वं अत्यन्तम् अज्ञातं तस्य विधानं विधिरिति उच्यते। यथा दर्शपूर्णमासेष्ट्यां  ‘व्रीहीन् प्रोक्षस्व’ इति विधानम्।  व्रीहीनां प्रोक्षणं करणीयम् इति एतेन वचनेन विना व्रीहिप्रोक्षणरूपं यज्ञाङ्गम् अस्माभि: ज्ञातुं नैव शक्येत। 

यत्र नैके पर्याया: उपलब्धा: तत्र तेषु एकस्य विधानं नियम:। यथा व्रीहीन् निस्तुषान् कर्तुं तेषां अवहननम् , मर्दनं, नखविदलनं एते त्रय: पर्याया: उपलब्धा: तथापि तत्र ‘व्रीहीनवहन्ति’ इति वाक्येन अवहननमेव आदिष्टम्। क्षुधित: मनुष्य: यत्किमपि भक्षयितुं प्रवृत्त: अत: ‘पञ्च पञ्चनखा भक्ष्या:’ इत्यनेन अपूर्वविधि: न कृत:। तथापि भोक्तुकामस्य केवलं पञ्चानामेव एव पञ्चनखानां भक्षणम् अनुमतम्। अन्येषां भक्षणस्य निषेध:। 

एवमेव ग्राम्यकुक्कुट: ग्राम्यसूकरो वा अभक्ष्य: इत्युक्ते वन्यक्कुक्कुटसूकरौ भक्ष्यौ इति आनुषङ्गिकतया प्राप्यते । एवं तर्हि साधुशब्दोपदेश: अथवा असाधुशब्दोपदेश: एतयो: एक: पर्याप्त: स्यात्। 

तथापि एकस्यैव शब्दस्य नैके अपभ्रंशा: विद्यन्ते यथा–गौ: इति साधुशब्दस्य गोपा, गावी, गोणी, गोपोतलिका इत्यादीनि असाधुरूपाणि। अत: लघुतां विचार्य असाधुशब्दापेक्षया साधुशब्दकथमेव योग्यमिति प्राप्यते।

इदानीं द्वितीय: प्रश्न: उदीयात्। साधुशब्दोपदेशे कर्तव्ये किं मन्त्राणां पदपाठे दृष्टानां सर्वेषां साधुशब्दानां गौ: अश्व: पुरुष: हस्ती शकुनि: मृग: इत्यादीनाम् उपदेश: देय: ?

एतन्न शक्यम्। कुत:? ‘अनन्तपारं किल शब्दशास्त्रम्’ इति उक्तम्। ‘बृहस्पतिश्च प्रवक्ता इन्द्रश्चाध्येता, दिव्यं वर्षसहस्रमध्ययनकाल: ततोपि न चान्तं जगाम। किं पुनरद्यत्वे य: चिरं जीवति वर्षशतं जीवति।’ बृहस्पतिरिन्द्राय शब्दोपदेशं दत्तवान्। तथापि एतदध्ययन-अध्यापनम् दिव्यवर्षसहस्रं यावत् प्राचलत् तथापि शब्दशास्त्रस्य अन्त: न अभवत्। इदानींतनकाले तु मर्त्यानामायु: केवलं शतं वर्षाणि। 

अध्ययनं चतुर्षु भागेषु विभज्यते–आगम: (गुरुमुखात् श्रवणम्), स्वाध्याय: (स्वकृतम् अध्ययनम्) प्रवचनम् (पठितस्य व्याख्यानादि) व्यवहारे उपयोजनं च। तथापि शब्दशास्त्रस्य अपारत्वात् केवलं गुरुमुखात् श्रवणे एव मनुष्यस्य आयु: गच्छेत्। अत: प्रतिपदपाठं शब्दोपदेश: न शक्य:।

शास्त्रनिर्माणरीति: --

तर्हि एषाम् अनन्तशब्दानाम् अनुशासनार्थं क: उपाय:? लघुप्रयत्नेनैव बहूनां शब्दानां ज्ञानं स्यात् एवमुपायो विधातव्य:। तन्नाम लक्षणं (सूत्रं) करणीयम्। तच्च सामान्यविशेषवत् स्यात्। सामान्यलक्षणम् उत्सर्ग: इति कथ्यते। उदाहरणार्थं ‘कर्मण्यण्।’ समासविधौ कर्म यस्य उपपदरूपेण उपस्थितं तस्मात् धातो: अण् प्रत्यय: भवति। उदाहरणार्थं कुम्भकार: इत्यत्र कृधातो: कुम्भ: इति कर्म अत: समासे करणीये कृधातो: अण् कृत्वा कार: इति पदं सिध्यति। 

तत्रैव कश्चन विशेष: कथ्यते तर्हि तत् अपवादसूत्रम्। यथा ‘आतोऽनुपसर्गे क:।’ समासविधौ कर्म यस्य उपपदरूपेण उपस्थितं तस्मात् उपसर्गरहितात् आकारान्तात् धातो: अण् प्रत्ययस्य स्थाने क (अ) इति प्रत्यय: भवति। जलद: इत्यत्र दानक्रियाया: कर्म जलम्। दाधातु: आकारान्त: उपसर्गरहित: च। अतस्तस्मात् अण् इत्यस्य स्थाने क प्रत्यय: भूत्वा जलद: इति समास: सिध्यति।