संस्कृतभारती।

 


१९८१ तमे वर्षे बेङ्गलुरूमध्ये चतुर्भिः संस्कृतशिक्षकैः एकस्य संस्कृतान्दोलनस्य आरम्भः कृतः। तस्य आन्दोलनस्य आधारभूत- स्वयंसेविसङ्घटनस्य नाम अस्ति--संस्कृतभारती।

संस्कृतं भारते आधुनिककाले व्याकरण-भाषान्तर-पद्धत्या (Grammar-translation Method) पाठ्यते स्म। तत्र भाषान्तरलेखने एव सर्वः भारः। तया पद्धत्या छात्राः भाषान्तरमेव शिक्षन्ते न तु संस्कृतम्। एतस्यां पद्धतौ व्याकरणस्य दुरूहनियमानाम् अनर्थकरटनेन छात्राः संस्कृताध्ययनं प्रति हतोत्साहाः भूत्वा संस्कृतं त्यजन्ति। तेन संस्कृतपठितृपाठयितृणां सङ्ख्या प्रतिदिनं न्यूना एव भवन्ती अस्ति। एतत्सर्वं पश्यन्तः एते शिक्षकाः संस्कृतोद्धाराय कः उपायः विधेयः इत्येतस्य चिन्तने मग्नाः अभवन्।

वस्तुतः संस्कृतम् एकस्मिन् काले अस्माकं मातृभाषा तथा च ज्ञानभाषा अपि आसीत्। आसेतुहिमाचलं जनाः व्यवहारभाषारूपेण संस्कृतस्य एव उपयोगं कुर्वन्ति स्म। स्थापत्य-खगोल-रसायन-ज्यौतिष-योग-आयुर्वेद-राज्यशास्त्रादीनि नैकानि व्यवहारोपयोगीनि शास्त्राणि संस्कृते एव विकसितान्यासन्। संस्कृते विद्यमानानि काव्यनाटकादीनि अस्माकं संस्कृतेः परिचायकानि सर्वस्मिञ्जगति तेषां साहित्यिकगुणैः प्रशंसितानि अपि।

एतावदेव न अपितु सर्वस्य भारतस्य राष्ट्ररूपेण एकस्मिन् सूत्रे निबन्धनं केवलं संस्कृतेन एव शक्यते। यतः आङ्ग्लभाषा परकीया। हिन्दी अपि न सर्वमान्या। अतः उभेपि राष्ट्रनिर्माणाय तावत् सामर्थ्यं न वहतः यावत् सामर्थ्यं संस्कृतस्य। सम्पूर्णे राष्ट्रे संस्कृतं प्रति अनुरागः,संस्कृतं ज्ञातुं,पठितुं, व्यवहारे उपयोक्तुं च इच्छा वर्तते। तथापि यथा पूर्वोक्तं संस्कृतस्य पाठनपद्धतिः अननुकूला। तेन संस्कृताध्ययनाय प्रवृत्ताः विरला एव। तर्हि किं करणीयम्? कः मार्गः? कः उपायः?

यया भाषते सा भाषा। भाषा यदि जनानां मुखे न भवति तर्हि भाषायाः भाषात्वमेव समाप्तम्। अतः भाषेति संज्ञाम् आवहत् वस्तु प्रप्रथमं जनानां मुखे व्यवहारार्थं वसेत्।

भाषाशिक्षणस्य नैसर्गिकक्रमः कः इति चिन्तनीयं चेत् अस्माकं मराठीकन्नडादिमातृभाषाणाम् शिक्षणक्रमः आबाल्यात् स्मरन्तु। प्रप्रथमं वयं मातृभाषाविषये कथं ज्ञातवन्तः? अस्माकं माता यान् शब्दान् वदति स्म तान् अनूच्चार्यैव वयं मातृभाषां शिक्षितवन्तः। न तत्र व्याकरणमासीत् अथवा भाषान्तरम्। अतः भाषाशिक्षणस्य नैसर्गिकक्रमे प्रथमसोपानः अस्ति श्रवणानुगामि उच्चारणम्। तदनन्तरं वयं साक्षात् सम्भाषणमेव कर्तुम् आरब्धवन्तः। यदा शालागमनस्य वयः प्राप्तं तावत् वयं सम्भाषणे एव प्रभूतम् अभ्यस्ताः जाताः। शालाप्रवेशात् अनन्तरं लिपिज्ञानादिकं लेखन-वाचनादिकं च प्रारब्धम्।

संस्कृतशिक्षणेपि भाषाज्ञानस्य एषः नैसर्गिकः क्रमः अङ्गीकर्तव्यः। तदैव संस्कृतशिक्षणं सुलभं सुकरम् औचित्यपूर्णं रुचिजनकं तथा च सामर्थ्ययुक्तं भवेदिति विचिन्त्य तैः चतुर्भिः शिक्षकैः संस्कृतं सम्भाषणमाध्यमेन पाठयितुं प्रयोगाः आरब्धाः। तेषाम् अविरतप्रयत्नानां फलितमासीत् संस्कृतभारत्याः दशदिनात्मकस्य सम्भाषणवर्गस्य पाठ्यक्रमः। एतस्मिन्वर्गे संस्कृतं साक्षात् सम्भाषणमाध्यमेनैव पाठ्यते। तेन प्रथमदिनादेव जनाः संस्कृतेनैव सम्भाषणं कर्तुम् आरभन्ते।

गतशतकस्य एकाशीतितमे वर्षे प्रारब्धमेतत्कार्यं शनैः शनैः वर्धमानं बीजात् वटवृक्षः इव महद्रूपेण परिवर्तितम्। संस्कृतं जनभाषा भवेदिति संस्कृतभारत्याः चरमं ध्येयम्। तदर्थं गतचत्वारिंशद्वर्षाणि संस्कृतभारती अविरतं प्रयत्नरता अस्ति।

एतेषा प्रयत्नानां फलितं गणयामश्चेत् तदेवम्--

१) इदानीं भारते मिझोराम,कश्मीरादिकेचन राज्यानि विहाय सर्वत्र संस्कृतभारत्याः कार्यकर्तारः सन्ति।सर्वस्मिन्देशे संस्कृतभारत्याः आहत्य ४५०० केन्द्राणि सन्ति।

२)  भारतात् बहिः २१ देशेषु सङ्घटनस्य कार्यविस्तरः जातः अस्ति।

३) अद्ययावत् १ कोटिजनाः संस्कृतभारत्या संस्कृतसम्भाषणे प्रशिक्षिताः। तथा च १ लक्षसंस्कृतशिक्षकाः अपि सम्भाषणमाध्यमेन संस्कृतं पाठयितुं प्रशिक्षिताः।

४) भारते चत्वारः ग्रामाः संस्कृतग्रामरूपेण परिवर्तिताः यत्र आबालवृद्धाः संस्कृतम् मातृभाषारूपेण स्वीकृत्य तेनैव सम्भाषन्ते।

५) आहत्य ६००० कुटुम्बानि संस्कृतकुटुम्बानि जातानि सन्ति यत्र सर्वे गृहसदस्याः संस्कृतेनैव सम्भाषन्ते।

अधुना संस्कृतभारती द्वादशसु कार्यायामेषु संस्कृतप्रचारकार्यं करोति---

१) सम्भाषणवर्गः

२) भाषाबोधनवर्गः

३) सम्भाषणशिबिरचालक-प्रशिक्षणवर्गः

४) संवादशाला

५) गीताकेन्द्रम्

६) बालकेन्द्रम्

७) सरलपरीक्षा

८) पत्राचारद्वारा संस्कृतम्

९) पुस्तकप्रकाशनम्

१०) संस्कृतप्रदर्शिनी

११) संस्कृतपुस्तकमेला

१२) संस्कृतसम्मेलनानि।

वयं तावत्सम्भाषणवर्गस्य विषये किञ्चित् ज्ञातवन्तः। तदनन्तरसोपानम् अस्ति भाषाबोधनवर्गः। एतस्मिन् त्रिदिनात्मके वर्गे सम्भाषणानुकूलं व्याकरणं पाठ्यते। तदनन्तरम् अस्ति शिबिरचालकप्रशिक्षणवर्गः। एषः दशदिनात्मकवर्गः प्रतिवर्षं मेमासे भवति। तत्र सम्भाषणभ्यस्तैः स्वयं सम्भाषणवर्गः कथं चालनीयः एतस्य प्रशिक्षणं दीयते।

ये जनाः सम्भाषणवर्गादिषु सहभागं वोढुं न शक्नुवन्ति ते संवादशालां गत्वा सम्भाषणं शिक्षितुम् अर्हन्ति। स्थानद्वये--देहली तथा वाराणसी इत्यत्र-- आवर्षं नैरन्तर्येण संवादशालाः चाल्यन्ते। प्रत्येकं मासे द्विवारं संवादशाला भवति--१ तः १४  दिनाङ्कपर्यन्तं तथा च १६ तः २९ दिनाङ्कपर्यन्तम्। षोडषवर्षीयात् अधिकवयस्कः कोपि जनः संवादशालायां सहभागी भवितुं शक्नोति।

भगवद्गीताम् अध्येतुकामाः जनाः गीताक्रेन्द्रेषु गीताध्ययनं कुर्वन्ति। तदर्थं गीतासोपानम् इति नाम्ना स्वतन्त्रः अभ्यासक्रमः संस्कृतभारत्या निर्मितः अस्ति।

लघुबालकाः खेलगीतादिमाध्यमेन बालकेन्द्रेषु मनोरञ्जकरूपेण संस्कृतं पठन्ति। यत्र शालासु संस्कृतस्य सामान्य-अध्ययनविषयत्वेन पाठनस्य व्यवस्था नास्ति तत्र शालाच्छात्राः संस्कृतसरलपरीक्षामाध्यमेन संस्कृतं पठितुं शक्नुवन्ति।

ये जनाः कार्यव्यस्ततया सम्भाषणवर्गे संवादशालायां वा सहभागिनः भवितुं न शक्नुवन्ति तेषां कृते गृहे स्थित्वैव पत्राचारद्वारा संस्कृतशिक्षणस्य व्यवस्था कृता अस्ति।

प्राचीनशास्त्राणाम् आधुनिककाले उपयोगितां प्रदर्शयितुं निर्मिताः संस्कृतप्रदर्शिन्यः संस्कृतभारतीद्वारा तदा तदा विविधस्थलेषु आयोज्यन्ते। 'संस्कृते विज्ञानम्' 'कौटिलीयार्थशास्त्रम्' इत्यादयः तासां विषयाः।

संस्कृतपुस्तकानां प्रसारार्थं संस्कृतपुस्तकमेलाः अपि संस्कृतभारती आयोजयति।

संस्कृतं प्रति जनान् आकर्षितुं तदा तदा संस्कृतसम्मेलनानि आयोज्यन्ते।

सम्मेलनानाम् एकं त्रैवार्षिकं चक्रम् अस्ति। प्रथमे वर्षे जनपदसम्मेलनानि भवन्ति। द्वितीयवर्षे प्रान्तकार्यकर्तृसम्मेलनानि भवन्ति। तृतीयवर्षे अखिलभारतीयकार्यकर्तृसम्मेलनं भवति।

एतेषां सर्वेषाम् उपक्रमकार्यक्रमाणाम् आयोजयितारः सन्ति निरपेक्षबुद्ध्या समाजहितधिया कार्यं कुर्वाणाः संस्कृतभारतीकार्यकर्तारः। संस्कृतभारतीकार्यकर्ता कार्यं कुर्वन् स्वस्य कृते किमपि शुल्कं वेतनं वा नैव स्वीकरोति। संस्कृतस्य पाठनं सर्वदा निःशुल्कमेव। यत्र भोजन-निवासादि अन्यव्यवस्था आवश्यकी तत्र तस्याः कृते वयं नाममात्रं धनं स्वीकुर्मः।

संस्कृतभारतीद्वारा कृताय एतस्मै संस्कृतचक्रप्रवर्तनाय साहाय्यं कृत्वा वयं संस्कृतं जनभाषारूपेण परिवर्तयित्वा भारतं विश्वगुरुत्वेन प्रतिष्ठापयेम इति निश्चयम् उद्घोष्य विरमामि साम्प्रतम्।

जयतु संस्कृतम्। जयतु भारतम्।