शब्दार्थस्य स्वरूपम्–
शब्दस्यार्थ: क: जाति: उत व्यक्ति: ? उभयथा स: भवितुमर्हति। पाणिनि: ‘जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्’ इति वदति। जाति: नाम सामान्य: अनुगतधर्म:। तस्य एकत्वं सर्वप्रसिद्धम्। अत: जात्या: उल्लेखे एकवचनं पर्याप्तं तथापि विकल्पेन आचार्य: बहुवचनविधानमपि कृतवान्। यथा सम्पन्नो व्रीहि: सम्पन्ना व्रीहय:। शब्दस्य जातिरूपो अर्थ: न स्वीकृत: चेत् एतत्सूत्रं निरर्थकं भवेत्। पुनश्चाचार्य: ‘सरूपाणामेकशेष एकविभक्तौ’ इत्यत्र बहूनां व्यक्तीनाम् उपस्थितौ अपि एकशेषत्वविधानं करोति। अत्रापि व्यक्तिरूप: शब्दार्थ: न स्वीक्रियते चेत् एतदपि सूत्रं निरर्थकं स्यात्। अत: जातिव्यक्तिरूप: द्विविधोपि पदार्थ: इति ज्ञेयम्।
‘ब्राह्मणो न हन्तव्य:’ इत्यादिषु उक्तेषु ब्राह्मणत्वजाते: हननम् अशक्यम्। अत: सा जाति: येषामाश्रयेण तिष्ठति तेषां व्यक्तीनामेव हननं निषिध्यते इति स्पष्टम्। पुनश्च ‘इमा गाव: सुदोहा:’ इत्यत्र व्यक्तिपरकनिर्देशेपि व्यक्त्यनुगताया: गोत्वरूपजाते: भानं भवत्येव। अत: व्याकरणशास्त्रे जातिरूप: व्यक्तिरूपश्चेति द्विविध: पदार्थ: इति सिद्धम्।
शब्दानित्यानित्यत्वविचार:--
शब्दस्य स्वरूपविषये पुन: एष: विचार: क्रियते–शब्द: नित्य: उत कार्य: (अनित्य:) इति।
सङ्ग्रहनामके स्वीये ग्रन्थे व्याडिना एष: विचार: प्रस्तुत:। तत्र द्वयोरपि पक्षयो: गुणदोषा: चर्चिता: अन्ते च शब्द: नित्य: भवतु उत कार्य: शब्दानुशासनं करणीयमेव इति निर्णीतम्।
तथापि पतञ्जलि: पाणिनेरभिमतं शब्दनित्यत्वसिद्धान्तं समर्थयति। तदर्थं स: कात्यायनस्य ‘सिद्धे शब्दार्थसम्बन्धे लोकतोर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियम: यथा लौकिकवैदिकेषु।’ (वा १) इति वार्त्तिकम् उपस्थापयति। अनादिलोकव्यवहारत: शब्द: , तस्यार्थ: तथा च शब्दार्थयो: सम्बन्ध: सिद्ध: (नित्य:) इति ज्ञायते। लोकप्रसिद्धार्थेन शब्दे प्रयुज्यमाने अनेन व्याकरणशास्त्रेण धर्मप्रापक: नियम: क्रियते।’ इति वार्त्तिकार्थ:।
वार्त्तिकोक्त: सिद्धशब्द: नित्यपर्याय: यत: कूटस्थेषु (अविनाशिषु) अविचालिषु (अविपरिणामिषु) भावेषु सिद्धशब्द: प्रयुज्यते यथा सिद्धा द्यौ:, सिद्ध: आकाश:, सिद्धा पृथिवी। तथापि एष: एव शब्द: कार्यवस्तुष्वपि अनित्येषु प्रयुज्यते यथा सिद्ध: सूप:, ओदन:, यवागू: इत्यादि: तर्हि अत्र स: नित्यपर्याय: इति कथं ज्ञायते? तस्य कारणानि चतुर्विधानि–
१) सङ्ग्रहग्रन्थे व्याडिना एष: शब्द: कार्यशब्दस्य प्रतिद्वन्द्विरूपेण उपयोजित: अस्ति। सङ्ग्रहवार्तिकयो: उभयो: विवेचनविषय: समान: अत: समानतन्त्रत्वात् सिद्धशब्द: अत्रापि नित्यस्य पर्यायरूपेणैव योजित: इति निश्चितम्।
२) अपरं च लोके एकपदेनैव अवधारणा भवति। यथा अब्भक्ष: वायुभक्ष: इत्युक्ते आप: एव वायुरेव वा भक्षयतीति अर्थस्य प्रतीति:। तथैव सिद्धशब्दस्योपादानात् सिद्ध: एव न साध्य: इति निश्चयनं भवति।
३) अथवा शब्दस्य एकावयवे उक्ते पूर्णशब्दस्य बोधो लोके दृश्यते यथा देवदत्त: सत्यभामा एतयो: स्थाने केवलं दत्त:, भामा एतयो: प्रयोगेणापि पूर्णशब्दस्य भानं भवति तथैव अत्र पूर्वपदलोप: द्रष्टव्य: अत्यन्तसिद्ध: सिद्ध: इति।
४) ‘व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्’ इति परिभाषा। यदि कुत्रापि शास्त्रार्थविषये सन्देह: जायते तत्र व्याख्यानादेव तस्य अर्थ: अवगन्तव्य:। केवलं सन्देह: उत्पन्न: एतेनैव शास्त्रे लिखितं लक्षणं (सूत्रं) निरर्थकं न भवति। अत: व्याख्याने व्याडिपतञ्जली नित्यार्थे सिद्धशब्दं कथयत: तर्हि स: अर्थ: एव अभ्युपगन्तव्य:।
तथापि पुन: अत्र संशयो भवति यत् सुलभस्य नित्यशब्दस्य संशयरहितस्य मुक्तकण्ठेन उच्चारणं विहाय सन्दिह्यमाण: सिद्धशब्द: एव किमर्थम् अभ्युपगत: आचार्येण? मङ्गलार्थम् इति उत्तरम्। उक्तं च ‘मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्ति आयुष्मत्पुरुषाणि अध्येतारश्च सिद्धार्था: यथा स्यु:।’ येषां शास्त्राणामादौ मङ्गलं क्रियते तानि शास्त्राणि लोके विस्तारं यान्ति तेषामध्येतार: विजयिन: धर्मप्रापणात् आयुष्मन्त: च भवन्ति, तेषामध्ययनरूप: अर्थ: सिद्ध: भवति इत्यर्थ:। अत: येन मङ्गलार्थ: नित्यार्थ: च प्राप्यते तादृशं सिद्धशब्दमेव मङ्गलप्रयोजन: आचार्य: प्रयुङ्क्ते।
तथापि अयं नित्यशब्दोपि विविधार्थ:। स: कूटस्थेषु अविचालिषु भावेषु एव वर्तते इति न। आभीक्ष्ण्यार्थेपि वर्तते यथा नित्यप्रजल्पित: नित्यप्रहसित: इत्यादिषु शब्देषु । तर्हि पुनश्च ‘व्याख्यानतो विशेषप्रतिपत्ति: …’ इति परिभाषामेवाश्रित्य नित्यशब्दस्य कूटस्थादि: अर्थ: अभ्युपेतव्य:।
एवं स्थिते ‘सिद्धे शब्दार्थसम्बन्धे’ एतस्य अंशस्यार्थ: ‘सिद्धे शब्दे अर्थे सम्बन्धे’ एवं करणीय:। शब्द: च अर्थ: च सम्बन्ध: च एतेषां समाहार: शब्दार्थसम्बन्धम् इति समाहारद्वन्द्व:। तस्य शब्दार्थसम्बन्धे इति सप्तमी अत्र भावलक्षणी बोध्या।
‘द्वन्द्वादौ द्वन्द्वान्ते वा श्रूयमाणं पदं द्वन्द्वस्य प्रत्येकं पदेन अभिसम्बध्यते’ एतेन नियमेन सिद्धे इति पदस्य ‘सिद्धे शब्दे सिद्धे अर्थे, सिद्धे सम्बन्धे’ एवम् अन्वय: भवति।
अधुना पुन: प्रश्न: उदेति– केचन शब्द: कार्य:( अनित्य:) इति वदन्ति। तर्हि ‘सिद्धे शब्दे’ इत्यत्र शब्दस्य नित्यत्वं कथम् अभ्युपगन्तव्यम्? कार्यपक्षेऽपि शब्दस्य प्रवाहनित्यता स्वीकृता अस्ति सैव उपात्ता अत्र तर्हि न विरोध:।
पुनश्च वैयाकरणा शब्दस्य जाति: (आकृति:) व्यक्ति: (द्रव्यम्) एवं द्विविधम् अर्थं स्वीकुर्वन्ति। तयो: जाति: नित्या व्यक्ति: अनित्या। तर्हि कम् अर्थम् अधिकृत्य ‘सिद्धे अर्थे’ इति विग्रह: कृत: इति प्रश्न:।
जातिरूपम् अर्थमेव स्वीकृत्य कृत: इति उपादेयम्।
तर्हि द्रव्यरूपस्य अर्थस्य का गति:?
द्रव्यपक्षे ‘सिद्धे शब्दे अर्थसम्बन्धे’ एवं विग्रह: भवतु यत: अर्थवत: शब्दस्य अर्थेन नित्यसम्बन्ध: अस्ति एव।
तथापि अनित्यद्रव्यरूपेण अर्थेन शब्दस्य सम्बन्ध: नित्य: कथं भवितुं शक्नुयात्? यद्यपि द्रव्यं नाशशीलं तथापि शब्दस्य द्रव्यरूपार्थेन सह सम्बन्ध: तादात्म्यरूप: येन द्रव्ये नष्टेपि बुद्धौ नष्टद्रव्यस्य भाविद्रव्यस्य च बोध: न नश्यति।
तथापि पतञ्जलि: वदति ‘सिद्धे शब्दे अर्थे सम्बन्धे’ एवमेव विग्रह: तिष्ठतु यत: द्रव्यमपि नित्यमेव। यथा मृदा एव पिण्ड:, घट:, कुण्डिका इत्यादीनि वस्तूनि क्रियन्ते। तेषु आकृति: रूपान्तरिता भवति मृद्द्रव्यं तु नित्यमेव अविकारितया तिष्ठति। सुवर्णात् पिण्ड:,रुचकम्, कटक: ,कुण्डलम्, स्वस्तिकम् इत्यादीनि क्रियन्ते तत्र सुवर्णद्रव्यं समानमेव आकृतिर्भिन्ना।
तर्हि आकृतिरनित्या वा यत: तस्या: नाश: दृग्गोचर: भवति?
वदाम: आकृतिरपि न तथा। एकत्र तस्या: नाश: अनुद्भूतता वा दृश्यते तथापि द्रव्यान्तरे तु सा उपतिष्ठति एव। एकत्र नाशं गता इत्यत: न सर्वत्र तथैव भवति।
अनित्यता त्रिविधा– संसर्गानित्यता, परिणामानित्यता तथा च प्रध्वंसानित्यता। जपाकुसुमसान्निध्यात् स्फटिक: रक्तवर्ण: दृश्यते। तस्य यत् स्फटिकरूपं तत् कुसुमसंसर्गात् परिवर्तितम् एषा संसर्गानित्यता। बदरीफलं श्यामवर्णं पक्वतां गतं लोहितं जायते। एषा परिणामानित्यता। प्रध्वंसानित्यता तु सर्वात्मना नाश:।
कूटस्थं (एकस्मिन्नेव रूपेण स्थितं) अविचालि (स्वरूपात् अविचलितं) अनपाय- अनुपजन- अनुत्पत्ति - अवृद्धि -अनव्यययुक्तं यत् तदेव नित्यम् इति पारम्पारिकी कल्पना। अत्र कूटस्थशब्देन संसर्गानित्यता, अविचालिशब्देन परिणामानित्यता तथा च अवशिष्टपदै: प्रध्वंसानित्यता निषिध्यते। अपरं च वार्ष्यायणि: आचार्य: निरुक्ते जायते अस्ति वर्धते, विपरिणमते,अपक्षीयते नश्यति एवं षड्विकारान् प्रोक्तवान्। भाष्योक्तनित्यलक्षणेन एतेषां षण्णामपि निरोध: भवति। अनुत्पत्तिशब्देन जायते तथा अस्ति इत्यनयो: निषेध:, अवृद्धिशब्देन वर्धते इत्यस्य अनुपजनशब्देन विपरिणमते इत्यस्य अनपायशब्देन अपक्षयस्य अनव्ययशब्देन च नश्यति इत्यस्य निषेधो भवति।
तथापि एतावती एव नित्यत्वस्य व्याख्या नास्ति। यत् नष्टमपि तत्त्वरूपेण भावरूपेण वा अवशिष्यते तदपि नित्यम्। आकृतिनाशेपि तस्या: अर्थबोध: बुद्धौ तिष्ठति। एवं शशशृङ्गादय: यद्यपि न जगति विद्यन्ते तथापि तेषां कल्पना: बुद्धौ तिष्ठन्त्येव। अत: प्रकृतिरपि नित्या।
एवम् आकृति: द्रव्यम् उभयमपि नित्यम्। अत: ‘सिद्धे शब्दे अर्थे सम्बन्धे’ इति विग्रह: युज्यते।
तथापि भाष्यकार: वदति– किमेतया नित्यानित्यत्वचर्चया? यत् नित्यं तदादृत्यैव ‘सिद्धे शब्दे अर्थे सम्बन्धे’ इति विग्रह: कृत: अस्तीति ज्ञेयम्।
ननु शब्द:, अर्थ: तथा च शब्दस्य अर्थेन सह सम्बन्ध: च एतत्त्रयं नित्यम् इति कथं ज्ञायते? लोकत: (लोकव्यवहारात्)। लोके दृश्यते यत् लोकप्रसिद्धान् अर्थान् उपादाय एव जना: शब्दप्रयोगे प्रवर्तन्ते न तु तान् शब्दान् नूतनतया निर्मान्ति। यत् कार्येण सिध्यति तस्य एव निर्माणाय जना: प्रवर्तन्ते। यथा घटेन कार्यं कर्तुकाम: कुम्भकारं गत्वा वदति, ‘घटं कुरु’ इति। न तु शब्दान् प्रयोक्तुकाम: वैयाकरणगृहं गत्वा नूतनशब्दनिर्माणं कुरु इति तम् आदिशति, प्रत्युत लोकप्रसिद्धार्थान् शब्दानेव प्रयुङ्क्ते।
यदि लोकत: एव सिद्धशब्दा: स्वीक्रियन्ते तर्हि व्याकरणशास्त्रस्य किं कार्यम्?
लोकव्यवहारात् विशिष्टार्थेन शब्दप्रयोग: यदा भवति तदा शास्त्रेण तद्विषये धर्मनियम: क्रियते। ‘धर्माय नियम: धर्मनियम:’ इत्यत्र ताद्यर्था चतुर्थी। नियमस्य पालनेन धर्म: भवति अधर्मपरिहारश्चापि भवति। अथवा ‘धर्मार्थो नियम:।’ अत्र नियम: एव धर्म: इति अर्थ:, ‘तादर्थ्यात् ताच्छब्द्यम्’ इति नियमात्। अथवा प्रभाकरमते धर्मप्रयोजनो नियम:। अस्मिन्मते यागादिकर्मणाम् अनुष्ठानेन उत्पन्नम् अपूर्वं यागादीनां स्वर्गादिप्राप्तिरूपं फलं जनयति। तदेव अपूर्वं स्वसिद्धये वेदवाक्यानां लिङ्निर्देशेन पुरुषं यागादिकर्मणि प्रेरयति तदा तत् ‘नियोग:’ इति नाम्ना कथ्यते। तदपूर्वमेव धर्म:। तेन अपूर्वरूपधर्मेण प्रयोज्य: नियम: इति तृतीया व्युत्पत्ति:।
अग्रे वार्तिककार: वदति– यथा लौकिकवैदिकेषु। यथा लौकिकवैदिकेषु धर्मनियमा: सन्ति तद्वत् लोकत: अर्थप्रयुक्ते शब्दप्रयोगे व्याकरणशास्त्रेण धर्मनियम: क्रियते इत्यन्वय:।
कश्चन आक्षेपं करोति– लौकिकवैदिकेषु इत्यत्र लौकिकवैदिकशब्दौ तद्धितान्तौ। लोके भव: विदित: वा लौकिक: , वेदे भव: विदित: वा वैदिक:। ‘तत्र भव:’ , ‘तत्र विदित:’ इत्यनयो: सूत्रयो: उपादानेन लोकवेदशब्दयो: ठञ् प्रत्ययं कृत्वा आदिस्वरस्य वृद्ध्या लौकिकवैदिकशब्दौ सिध्यत:। तथापि एतयो: अभिप्रेतार्थ: अत्र ‘यथा लोके वेदे च’। लोकवेदशब्दौ समुदायवाचकौ। समुदायार्थे उपयोजिता: शब्दा: अवयवार्थेपि वर्तन्ते। अत: लोके (लोकावयभूते एकदेशे) वेदे (वेदायवभूते एकदेशे) धर्मनियम: क्रियते एतावत्कथनेनापि कार्यम् असेत्स्यत् तथापि वार्त्तिककारेण अनावश्यकरीत्या लौकिकवैदिकेषु एवमयं तद्धितप्रयोग: कृत: अस्ति। वार्त्तिककार: दाक्षिणात्य:। दक्षिणदेशे लोकव्यवहारे तद्धितप्रयोगाणां प्राचुर्यं भवति। तर्हि एषा तद्धितप्रयोगरुचिरेव एतस्य अनावश्यकप्रयोगस्य कारणं स्यात्?
न तथा। अत्र लोके अथवा वेदे भवा: कृतान्ता:( सिद्धान्ता:) एव अपेक्षिता: न लोकस्य वेदस्य वा एकदेश:। लोके य: सिद्धान्त: स: न लोकावयवभूत:। तथैव वेदे य: सिद्धान्त: सोपि न वेदस्यैकदेश:। सिद्धान्तानां लोकवेदयो: च आधेय-आधाररूप: सम्बन्ध:। अत: ‘तत्र भव:’ ‘तत्र विदित:’ एते सूत्रे सिद्धान्तेषु चरितार्थे भवत:। अत: लौकिकवैदिकयो: तद्धितान्तयो: उपादानं न वार्त्तिककारस्य तद्धितप्रियत्वात् प्रत्युत युक्तिसङ्गतकारणात् एव।
१) लौकिके धर्मनियम: अस्ति– ‘ग्राम्यकुक्कुट: ग्राम्यसूकरो वा अभक्ष्य:।’ क्षुधाया: प्रतिघातार्थं (शमनार्थं) बुभुक्षित: श्वमांसादि सर्वमपि खादितुं शक्नोति तथापि तत्र धर्मार्थमेष: नियम:।
२) लोके ‘एषा स्त्री गम्या (समागमयोग्या) एषा अगम्या’ एवंरूप: धर्मनियम: श्रूयते। खेदात् (शरीरासक्ते: कारणात्) पुरुषस्य स्त्रीषु गमनप्रवृत्ति: भवति। पुरुष: कस्यामपि स्त्रियां गमनं कृत्वा तं खेदम् अपनेतुं शक्नोति तथापि तत्र धर्मार्थम् एषा गम्या एषा अगम्या एवं धर्मनियम: क्रियते।
३) वेदे ‘पयोव्रतो ब्राह्मण:, यवागूव्रतो क्षत्रिय:, आमिक्षव्रतो वैश्य:’ एवं नियम:। अत्र व्रतशब्द: अभ्यवहारार्थे (आहारार्थे) अस्ति। तप्तदुग्धस्य दध्ना संयोगेन भेदनं भवति। तदनन्तरं यत् तरलद्रव्यं उपरि आगच्छति तस्य नाम आमिक्षा। आहारार्थं शालिमांसादि सर्वमपि स्वीकर्तुं शक्नुवन्त्येते तथापि तत्र नियम: कृत: एतेनैतत् भक्षणीयमिति।
४) वेदे ‘बैल्व: खादिरो वा यूप: स्यात्’ इति नियम:। यूप: यज्ञे पशुबन्धनाय उपयुज्यते। तदर्थं किमपि काष्ठं स्वीकृत्य तम् उच्छ्रित्य अथवा अनुच्छ्रित्य वा (तक्षणं कृत्वा अकृत्वापि) पशुबन्धनार्थम् उपयोक्तुं शक्यम्। तथापि बिल्वखदिरवृक्षस्य एव काष्ठं स्यात् , तस्य च सन्तक्षणं कृत्वा यूप: निर्मातव्य:, तस्मिन्यूपे एव यज्ञपशो: बन्धनं करणीयम् एवं नियम: कृत:। यागे अग्नौ कपालान् संस्थाप्य ‘भृगूणामङ्गिरसां धर्मस्य तपसा तप्यध्वम्’ इति मन्त्रं पठन्ति। कपालान् तु विना मन्त्रपठनमपि दहनकर्मा अग्नि: सन्तापयितुं प्रभवति। तथापि तत्र धर्मनियमार्थं मन्त्रपठनम्। एवं धर्मनियमानुसारं क्रियमाणं कर्म अभ्युदयकारि भवति।
एवम् अस्मिन् व्याकरणशास्त्रे अपि द्रष्टव्यम्। अर्थस्य अभिधानं तु शब्देन अपशब्देन उभाभ्यामपि समानमेव भवति। तथापि एतस्य अपशब्दस्य प्रयोग: मास्तु साधुशब्देनैव अर्थोभिधेय: एवं व्याकरणे नियमा: भवन्ति। तेषामपि अभ्युदय: एव फलम्।