पस्पशाह्निकम्--६

 

पस्पशाह्निक-प्रारम्भ:।

व्याकरणाध्ययनस्य प्रयोजनानि

महाभाष्यस्य आरम्भे यत् प्रथमम् आह्निकं तस्य नाम पस्पशाह्निकम्। पस्पशशब्द: प्रारम्भार्थ: उपोद्घातार्थ: वा। अस्मिन् महाभाष्यस्य उपोद्घाते व्याकरणाध्ययनस्य प्रयोजनानि, शब्दस्वरूपम् इत्यादीनां बहूनां महत्त्वपूर्णविषयाणां चर्चा अस्ति। शिशुपालवधे माघ: यथा पस्पशाह्निकं विना शब्दविद्या न राजते तथा पस्पशान् (चारान्) विना राजनीति: न राजते इति उपमामुखेन पस्पशाह्निकं स्तौति। (शब्दविद्येव नो भाति राजनीतिरपस्पशा।) 

पस्पशाह्निकं प्रशंसन् कवि: वदति–
शास्त्रेष्वाद्यं व्याकरणं मुख्यं तत्रापि पाणिने:।
रम्यं तत्र महाभाष्यं हृद्या तत्रापि पस्पशा।।

# व्याकरणाध्ययनस्य साक्षात् प्रयोजनम्

‘अथ शब्दानुशासनम्।’ इति पस्पशाह्निकस्य प्रारम्भवाक्यम्। ‘मङ्गलानन्तरारम्भप्रश्नकात्स्न्येष्वथोऽथ’ इति अमरकोषनिर्देशात् अथशब्दस्य मङ्गलादय: बहव: अर्था: लक्ष्यन्ते। तथापि अत्रत्य: अथशब्द: प्रारम्भार्थ: इति भाष्यकार: वदति। ‘अर्थान्तरप्रयुक्तो ह्यथशब्द: श्रुत्या मङ्गलप्रयोजनो भवति’ इति शङ्काराचार्य:। अत: प्रारम्भार्थे प्रयुक्तेपि अथशब्दोच्चारणेन मङ्गलप्रयोजनं सिध्यति। 

अथशब्देनात्र शब्दानुशासनमिति शास्त्रम् अधिकृतं प्रारब्धम् इति वेदितव्यम्। ते शब्दा: के? लौकिका: वैदिकाश्च च उभयेषां शब्दानाम् उपदेशोत्र कृत: अस्ति। लौकिका: यथा गौरश्व: पुरुषो हस्ती शकुनिर्मृगो ब्राह्मण:। वैदिका: यथा– ‘अग्न आयाहि वीतये’ , ‘इषे त्वोर्जे त्वा वायव:’ , ‘अग्निमीळे पुरोहितम्’ , ‘शन्नो देवीरभिष्टये।’ वैदिकशब्दानां स्वरादय: शब्दक्रमश्च अपरिवर्तनीय: इत्यत: वैदिकशब्दानां यथावत् मन्त्रत्वेनोपदेश:। 
एतेषां शब्दानाम् अनुशासनम् नाम याथार्थ्येन ज्ञापनम् इति एतस्य शास्त्रस्य साक्षात् प्रयोजनम्।

येषाम् अनुशासनं व्याकरणेन विधीयते तेषां शब्दानां स्वरूपविषये बोद्धव्यम्। लोके शब्द: अर्थश्च अनयो: अभेदेन व्यवहार: दृश्यते। शब्द: नाम सार्थक: ध्वनि:। शब्देन बोधित: अर्थ: चतुर्विध: जाति:, गुण:, क्रिया, द्रव्यं च। तर्हि शब्द: नाम जाति:, गुण:, क्रिया, द्रव्यं वा? 

‘इयं गौ:’ इत्युक्ते सास्नालाङ्गूलककुदखुरविषाणयुक्त: प्राणी एवं बोध: भवति तत्र इयम् इति उद्देश्यं गौ: इति विधेयं च। गौ: इत्युक्ते अग्रे स्थितस्य सास्नादियुक्तद्रव्यस्य बोध: भवति तेन तद्द्रव्यमेव शब्द: इति प्रतीयते। एष: अभेद: लोके स्वीकृत: अस्ति।

शब्दस्य जातिगुणक्रियाभि: यद्यपि लोके साक्षात् अभेद: न दृश्यते तथापि जात्यादीनां द्रव्याश्रयत्वात् परम्परया अभेद: दृश्यते एव।
अत: भाष्यकारेण गौ: इत्यस्य शब्दस्य किं स्वरूपम् एष: प्रश्न: उपस्थापित: अस्ति।

स: वदति–
१) ‘इयं गौ:’ इत्युक्ते पुरत: स्थितं सास्ना (गलकम्बल:) लाङ्गूलम् ,ककुद्, खुरा:, विषाणे एतै: अवयवै: युक्तं द्रव्यं प्रतीयते। तथापि द्रव्यं न शब्द:।

२) गौरिति पदार्थे यत् अक्षिनिमेषणं अन्यानि चेष्टितानि इङ्गितानि वा लक्ष्यन्ते स: शब्द: वा? सा तु क्रिया अस्ति । क्रिया अपि शब्द: न। 

३) पुनश्च गौरिति पदार्थे शुक्लकपिलादय: गुणा: प्रतीयन्ते। तथापि गुण: अपि शब्द: न।

४) गौरित्यस्मिन् पदार्थे गोरूपा आकृति: (जाति:) प्रतीता भवति। तथापि सा जातिरपि शब्द: न।

येनोच्चारितेन सास्नालाङ्गूलादियुक्त: गोरूपपदार्थ: बोधित: भवति स: एव शब्द:। वर्णा: उच्चारितप्रध्वंसिन: सन्ति नाम तेषु उच्चारितेषु सत्सु अनुक्षणमेव तेषां ध्वंस: भवति। अत: श्रव्यध्वनि: अर्थस्य बोधक: न भवेत्। वैयाकरणानां मतेन शब्द: नित्य: उच्चारितध्वनिना केवलं स: अभिव्यक्त: भवति। शब्दस्य अभिव्यञ्जनं स्फोट: इति नाम्ना ज्ञायते। स: स्फोट: एव शब्द:।

अथवा लोके प्रतीतपदार्थको ध्वनि: एव शब्द:। यथा ‘मा शब्द कार्षी:’ , ‘शब्दं कुरु’, ‘शब्दकारी अयं माणवक:’ एवं ध्वनिं कुर्वाण: एव निर्दिश्यते। अत: ध्वनिरेव शब्द:। एतत् लक्षणं न्यायमतानुसारं लोकानुसारि च। उच्चारित: ध्वनिरेव शब्द: इति नैयायिका: आमनन्ति। लोकेपि तथैव प्रसिद्धि:।

# व्याकरणाध्ययनस्य मुख्यानि प्रयोजनानि
‘प्रयोजनमनुद्दिश्य मन्दोपि न प्रवर्तते’ इति न्यायेन साधुशब्दनिरूपणरूपस्य व्याकरणशास्त्रस्य अध्ययनस्य प्रयोजनानि वक्तव्यानीति क्रमप्राप्तमेव। तत्र वैदिकलौकिकशब्दानां ज्ञापनम् इति साधारणं साक्षात् प्रयोजनं पूर्वमेवोक्तम्। अधुना विशिष्टानि पञ्च प्रयोजनानि उच्यन्ते भाष्यकारेण– ‘रक्षोहागमलघ्वसन्देहा: प्रयोजनम्’ इति। एतेषां भाष्यकारेण दत्तं स्पष्टीकरणम् एवमस्ति–
 
१) रक्षा– वेदानां रक्षणम् इति व्याकरणाध्ययनस्य प्रथमं प्रयोजनम्। ‘लोपागमवर्णविकारज्ञो हि सम्यक् वेदान् परिपालयिष्यति’ इति भाष्यकार:। उदाहरणार्थं दुह् धातो: लङ्लकारस्य प्रथमपुरुषैकवचनम् अदुहत इति। तथापि वेदे ‘लोपस्त आत्मनेपदेषु’ इत्यनेन तकारस्य लोप: , ‘बहुलं छन्दसि’ इति सूत्रेण रुट् (र्) आगमश्च भूत्वा अदह्र इति रूपं भवति। सञ्जहार शब्दे हकारस्थाने भकारस्य आदेशेन सञ्जभार इति रूपं श्रूयते। निग्राह, उद्ग्राह इत्यनयो: निग्राभ उद्ग्राभ इति श्रुति:। एवमेव लौकिकवैदिकशब्दययो: मध्ये लोपागमवर्णवविकारै: अन्तरं दृश्यते। एतस्य ज्ञानं ववयाकरणाध्ययनात् ऋते न शक्यम्।

२) ऊह:-- यस्मिन् यागे इतिकर्तव्यता (कथं यागकर्म करणीयम् इति) पूर्णतया उक्ता स: प्रकृतियाग: यत्र च सा प्रकृतियागात् अनुमेया स: विकृतियाग: यत: ‘प्रकृतिवत् विकृति: कर्तव्या’ इति नियम:। 

प्रकृतियागस्य इतिकर्तव्यतायां मन्त्रेषु यानि देवतादिवाचकानि पदानि तेषां विकृतियागस्य देवतादिबोधनार्थं विपरिणाम: ऊह: इति कथ्यते।

उदाहरणार्थं सर्वेषामिष्टिनां दर्शपूर्णमास: प्रकृति: सोमयागानाम् अग्निष्टोम: च।  
प्रकृतियागे ‘अग्नये त्वा जुष्टं निर्वपामि’ इत्येष: मन्त्र:। पुनश्च ‘सौरं चरुं निर्वपेत् ब्रह्मवर्चसकाम:’ इति एनं वचनम् अनुसृत्य विकृतिरूपे सौरचरुयागे अग्निशब्दस्य चतुर्थीविभक्ति: सूर्यशब्दात् अपि प्रयुज्य ‘सूर्याय त्वा जुष्टं निर्वपामि’ इति मन्त्र: पठ्यते। 

अग्नये इत्यत्र अग्नि इति प्रकृति: तस्या: विपरिणामेन तस्या: स्थाने सूर्यशब्द: स्वीक्रियते। एष: न विभक्ते: विपरिणाम: यत: विभक्ति: न परिवर्तिता अत्र। एतादृश: विपरिणाम: न अवैयाकरणस्य सामर्थ्ये तिष्ठति।

उक्तं च भाष्यकारेण– सर्वै: लिङ्गै: सर्वाभि: विभक्तिभिश्च वेदे मन्त्रा: न निगदिता:। अत: यज्ञगतेन पुरुषेण ते मन्त्रा: कार्यानुसारं यथायथं विपरिणमितव्या:। एतदर्थं केवलं वैयाकरणस्यैव सामर्थ्यं भवति अवैयाकरण: तान् यथायथं विपरिणमयितुं न शक्नोति। 

३) आगम:-- आगम: नाम वेद:। ‘ब्राह्मणेन निष्कारणो धर्म: षडङ्गो वेदोऽध्येय: ज्ञेयश्च।’ इति भाष्यवचनम्। ब्राह्मणेन लाभालाभौ अविगणय्य शिक्षा, कल्प:, व्याकरणं, निरुक्तं, छन्द:, ज्योतिषम् इत्येतै: वेदाङ्गै: सह वेदाध्ययनं कर्तव्यम्। षट्सु वेदाङ्गेषु व्याकरणं प्रधानम् अङ्गम्। ‘प्रधाने हि कृतो यत्न: फलवान् भवति’ अत: व्याकरणम् अध्येयम्। 

४) लघुता– ‘अनन्तपारं शब्दशास्त्रम्’ इति उच्यते। महत: शब्दराशे: अधिगमनाय व्याकरणात् ऋते किमपि लघुसाधनं नास्ति। व्याकरणेन अल्पश्रमेणैव शब्देषु अधिकार: भवति अत: व्याकरणस्य अध्ययनम् अनिवार्यम्।
 
५) असन्देह: – यज्ञे मन्त्रपठने कुत्रचित् शब्दानां स्वरूपविषये अर्थविषये वा सन्देह: भवति। यथा ‘स्थूलपृषती’ इत्येष: शब्द: बहुधा सन्दिह्यते। यदि पूर्वप्रकृतिस्वरम् एतं पठाम: तर्हि बहुव्रीहि: भवति-स्थूलानि पृषन्ति यस्यां सा इति। यदि अन्तोदात्तं पठाम: तर्हि तत्पुरुष:-- स्थूला चासौ पृषती च। एतस्य स्वरादिनिर्णये यथा वैयाकरण: प्रभवेत् न तथा अवैयाकरण:।