शैक्षिकमूयमापनम्--१ (Educational Evaluation--1)

 


प्रस्तावना--मूल्यमापनस्य अर्थः--

दैनन्दिनव्यवहारे सम्भाषणे वयं एतादृशानि वाक्यानि शृण्मः–

१) रमेशः सत्वरम् उत्तरति। कियान् चतुरः सः!

२) हिन्दवः स्वभावतः सहनशीलाः ऋजुस्वभावाः।

३) मम संस्कृताध्यापकः उत्तमं पाठयति।

४) सारः बहु कटुः अस्ति अतः खादितुम् अशक्यम्।

एतादृशवाक्यानि जनैः कृतं व्यक्तेः, वस्तुनः मूल्यमापनमेव दर्शयन्ति। अर्थात् एतत् मूल्यमापनं शास्त्रशुद्धं नास्ति। तस्मिन् व्यक्तेः पूर्वग्रहाः, वैयक्तिकमतानि च एतेषां प्रभावः दृश्यते। शिक्षणक्षेत्रे अपि मूल्यमापनम् अत्यन्तम् आवश्यकम्। यत्पाठितं तत् कियता प्रमाणेन सफलीभूतं ततन्निश्चेतुं मूल्यमापनस्य नितान्तावश्यकता वर्तते। 

मापनं तथा मूल्यमापनम् (Measurement and Evaluation)---

एतयोः द्वयोः संज्ञयोः व्यवहारे उपयोगः भवति तथापि अनयोः मध्ये कः भेदः तत् अवगम्यताम्। 

कस्यापि शारीरभारः ९४ किलो तथा च औन्नत्यं ५ फूट अस्ति। तथापि एतत् भारस्य औन्नत्यस्य केवलं मापनम् अस्ति। एतेन सः व्यक्तिः अन्यैः सह तुलनायां किं स्थानं भजते, एतावतः भारस्य औन्नत्यस्य च परिणामाः के एतत् न अवगम्यते। 

एतत् मापनं कृत्वा यदि वैद्यः वदेत् यत् 'भवतः भारः भवतः औन्नत्यस्य परिप्रेक्ष्ये अधिकः अस्ति; एतन्न भवतः स्वास्थ्याय, अतः व्यायामाहारनियन्त्रणादिभिः उपायैः भारं न्यूनीकर्तुं प्रयतताम्' तर्हि तत् मूल्यमापनं भवेत्।

रमेशः वार्षिक्यां परीक्षायां मराठीविषये ६१ अङ्कान् आङ्ग्लायां ५१ अङ्कान् च प्राप्तवान्। तथापि एतत् केवलं रमेशस्य शैक्षिकप्रगतेः मापनम् अभवत्। एतेन मराठ्यां रमेशस्य गतिः आङ्ग्लापेक्षया अधिका इति आपाततः भाति। अन्यछात्राणां सन्दर्भे रमेशस्य स्थानं किम् एतन्न स्पष्टीभवति।  शिक्षकः रमेशस्य प्राप्ताङ्कानाम् अर्थं स्पष्टीकर्तुं स्वस्य अभिप्रायं वदति चेत् एते अङ्काः सार्थकत्वं प्राप्नुयुः।  उदाहरणार्थं एतान् अङ्कान् अधिकृत्य शिक्षकः अभिप्रायं लिखति –

१) रमेशस्य मराठी लेखनं शुद्धं नास्ति। सः तर्कशुद्धरीत्या सुसङ्गतरीत्या च स्वस्य विचारान् व्यक्तीकर्तुं न क्षमः। यद्यपि तेन ६१अङ्काः अर्जिताः तथापि कक्ष्यायां विद्यमानेषु ५० छात्रेषु २६ छात्राः रमेशस्य अपेक्षया अधिकान् अङ्कान् प्राप्तवन्तः अतः मराठ्यां रमेशस्य गतिः समाधानकारिणी नास्ति।

२) रमेशः उत्तमं प्रकटवाचनं करोति। तस्य अक्षरविन्यासे (spellings) त्रुटयः सन्ति तथापि सः शब्दार्थान् कथयितुं प्रभवति। कक्षाछात्रेषु केवलं १० छात्राः रमेशस्य अपेक्षया अधिकाङ्कान् प्राप्तवन्तः अतः आङ्ग्लायां रमेशस्य गतिः सम्यक् अस्ति।

एतेन स्पष्टीभवेत् यत् आपाततः प्राप्ताङ्काः यां परिस्थितिं दर्शयन्तः आसन् तदपेक्षया सा भिन्ना वर्तते। शिक्षकेन मापनस्य मूल्यं निश्चेतव्यम् एतदेव मूल्यमापनम् इति कथ्यते।

मूल्यमापनं सर्वदा मापनाधारितमेव अस्ति। यतः मापनेन यत्प्राप्यते तस्यैव मूल्यं अत्र निश्चेतव्यम् अस्ति। मापनं कियत् (how much) इत्यस्य उत्तरं ददाति ;  मूल्यमापनं तत् कियत् उत्तमम् (how good) तत् कथयति। 

अध्यापनात् अनन्तरं अध्यापनोद्दिष्टं कियता प्रमाणेन सफलीभूतम् एतस्य निश्चयनार्थं या सूत्रबद्धा पद्धतिः अवलम्ब्यते तस्याः नाम मूल्यमापनम्।

मूल्यमापने एतत् अंशत्रयं विद्यते–

मूल्यमापनम् = सङ्ख्यात्मकमापनम् + गुणात्मकवर्णनम् + शिक्षकस्य अभिप्रायः। 

शैक्षिकध्येयम् उद्दिष्टानि च--

शैक्षणिकक्षेत्रे उद्दिष्टानुगुणं अध्ययनाध्यापनं मूल्यमापनं च प्रचलति। अमुकांशस्य पाठनेन छात्रे यत् परिवर्तनं भवेत् इति अपेक्ष्यते तस्य नाम शैक्षणिकोद्दिष्टम्।

शैक्षणिकोद्दिष्टानि सफलीकर्तुमेव अध्यापनं क्रियते। तां सफलतां मापयितुमेव मूल्यमापनम् उपयुज्यते। अतः तेषाम् उद्दिष्टानां के प्रकाराः तत् पश्यामः। किन्तु ततः पूर्वम् शैक्षिकध्येयं तथा उद्दिष्टम् इत्यनयोः कः भेदः तत् बोद्धव्यम्। 

बालकस्य सर्वाङ्गीणः विकासः इति शिक्षणस्य ध्येयम् इति पूर्वमुक्तम्। एतत् ध्येयं दीर्घकालीनं लक्ष्यम्। तत् बहुधा अमूर्तं सामान्यतया कथितं च वर्तते। 'सर्वाङ्गीणः विकासः' इत्युक्ते किम्? एतत् न स्पष्टम्। अतः तस्य स्पष्टीकरणार्थं दीर्घकालीनध्येयस्य विभाजनं कृत्वा बुद्धिग्राह्यरूपेण तस्य कथनं क्रियते। एतत् विभक्तं ध्येयं नाम उद्दिष्टम्। तद्बहुधा मूर्तं, लघुकाले प्राप्तुं योग्यं स्पष्टं च वर्तते। उदाहरणार्थम् – सर्वाङ्गीणविकासे एतानि उद्दिष्टानि अन्तर्भवन्ति–

१) छात्रस्य भाषाभिव्यक्तेः विकासः।

२) सर्जनशीलता, विचारशक्तेः विकासः।

३) सुदृढं शरीरम्, शारीरिककौशलानां विकासः।

४) व्यवहारज्ञानम्।

५) दायित्ववतः नागरिकस्य गुणानां विकासः।

 एषा सूचिः इतोऽपि वर्धयितुं शक्यते। 

एतानि उद्दिष्टानि अपि मूर्तानि, अमूर्तानि, दीर्घकालीनानि, तात्कालिकानि, सामान्यानि, विशिष्टानि वा भवितुं शक्यन्ते।

उद्दिष्टानां विषये शिक्षकाणां मनःसु स्पष्टता नास्ति चेत् तदनुगुणं पाठनं शिक्षकः कर्तुं न शक्नुयात्। अध्ययनस्य कस्मिन् स्तरे छात्रात् किम् अपेक्षणीयम् इत्यस्य स्पष्टता आवश्यकी। 

बालकस्य विकासः त्रिविधक्षमताक्षेत्रेषु भवति। बोधात्मकः विकासः (Cognitive) भावात्मकः विकासः (Affective) तथा च क्रियात्मकः विकासः (Psychomotor)। एतेषु सर्वेषु क्षेत्रेषु बालकस्य विकासावस्थानुगुणं तस्मात् किम् अपेक्षणीयम् इति निश्चेतुं बेंजामिनब्लूम-महोदयः प्रायतत। तस्य प्रयत्नस्य परिणामः नाम उद्दिष्टानां श्रेणीबद्धं वर्गीकरणम् (Taxonomy of Educational Objectives)। तत्र बोधात्मकक्षेत्रे तेन निश्चिता श्रेणी एवम् अस्ति–

१) ज्ञानम्–एतत् उद्दिष्टम् स्मरणाधारितम् अस्ति। छात्राः प्रथमावस्थायां पाठितस्य सम्यक् स्मरणं कर्तुं शक्नुयुः इति एतस्य अर्थः। पाठ्यांशे विद्यमानानि व्यक्तिनामानि, वर्षोल्लेखाः, शब्दानां व्याकरणिकरूपाणि, समानार्थकशब्दा, विरुद्धार्थकशब्दाः एतादृशं सर्वं स्मरणद्वारा यदि छात्रः कथयितुं क्षमः तर्हि ज्ञानम् इति उद्दिष्टं प्राप्तम्।

२) आकलनम् – छात्रः यदि पाठितस्य सारांशं, मुख्यबिन्दून् वक्तुं शक्नोति, विधानानां सत्यासत्यत्वं, आकलनात्मकप्रश्नानानाम् उत्तराणि कथयति तर्हि एतस्य उद्दिष्टस्य साफल्यम्।

३) उपयोजनम्– पठितस्य उपयोगं यदि छात्रः नूतनायाम् अपरिचितायां परिस्थितौ समस्यायाः समाधानार्थं कर्तुं शक्नोति तर्हि एतत् उद्दिष्टं सिध्यति। उदाहरणार्थं प्रयोगविषये सर्वं पठित्वा छात्रः स्वयमेव वाक्यानां प्रयोगान् परिवर्तयितुं क्षमते तर्हि सः ज्ञानस्य उपयोजनं कर्तुं क्षमः इति वदामः।

४) पृथक्करणम्–छात्रः पाठ्यांशे विद्यमानानां घटनानां, बिन्दूनां वा परस्परसम्बन्धं ज्ञात्वा पाठ्यांशस्य विश्लेषणं कर्तुं शक्नोति।

५) संश्लेषणम् – दत्तबिन्दूनाम् आधारेण कथानिर्मितिः, कल्पनाविस्तारः एतादृशकार्याणि कर्तुं सः समर्थः भवति।

६) मूल्यमापनम्– छात्रः पाठ्यांशस्य समीक्षणं कृत्वा तस्य गुणदोषान् कथयितुं सक्षमः भवति।

एतानि उद्दिष्टानि स्तरितानि। प्रत्येकम्अग्रिमम् उद्दिष्टं पूर्वस्मात् उद्दिष्टात् सङ्कीर्णम् उच्चस्तरीयं चास्ति।

एवमेव ब्लूमः तथा च तस्य सहकारिणः भावात्मकविकासस्य क्रियात्मकविकासस्यापि उद्दिष्टानां स्तरितं वर्गीकरणं कृतवन्तः। तानि प्राप्तुं शनैः शनैः प्रयासः भवति चेत् अन्ते सर्वाङ्गीणविकासस्य ध्येयं सिध्यति।

मूल्यमापनस्य तत्त्वानि --

१) मूल्यमापनम् उद्दिष्टाधारितम् अस्ति अतः मूल्यमापनात् पूर्वम् उद्दिष्टानां विषये अस्माकं मनःसु स्पष्टता आवश्यकी। उदाहरणार्थं बालवर्गे प्रविष्टस्य एकस्य बालकस्य माता षण्मासानन्तरम् उक्तवती ,"मम पुत्रः अद्यापि पठितुं लेखितुं न शक्नोति। भवन्तः शिक्षकाः किं कुर्वन्ति पाठशालायाम् ?" तदा शिक्षकेन स्पष्टीकृतम् यत् बालवर्गे बालकैः लेखनं वाचनं च न अपेक्ष्येते। भवत्याः पुत्रः उत्तमानि बालगीतानि गायति; साभिनयं नृत्यं करोति; फलानां, पक्षिणां चित्राणि सम्यक् आलिख्य तेषु वर्णपूरणमपि करोति।  योग्यरीत्या अङ्गुलिभिः वस्तूनाम् उपयोगं करोति। एतदेव पाठने अपेक्षितम्।

२) उद्दिष्टानुसारं योग्यस्य मूल्यमापनतन्त्रस्य अथवा साधनस्य उपयोगः आवश्यकः। उदाहरणार्थं छात्रस्य भाषाप्रभुत्वं निश्चेतुं लेख्यपरीक्षाः मौखिकपरीक्षाः च उपयुक्ताः। तथापि तस्मिन् आत्मविश्वासः नेतृत्वगुणः सहकार्यशीलत्वं कियत् विकसितम् एतस्य परीक्षणार्थं निरीक्षणादीनि अन्यसाधनानि एव आवश्यकानि। तत्र प्रचलितपरीक्षायाः उपयोगः न भवति।

३) 'छात्रस्य सर्वाङ्गीणः विकासः' इति शैक्षिकप्रक्रियायाः ध्येयम्। तत् कियता प्रमाणेन सफलीभूतं तन्निश्चेतुं,  छात्रस्य सर्वाङ्गीणप्रगतेः चित्रं स्पष्टीकर्तुं च केवलं लेख्यपरीक्षा न पर्याप्ता। लेख्यपरीक्षाः छात्रस्य ग्रान्थिकज्ञानस्य परीक्षाः। तस्य व्यक्तिमत्त्वस्य अन्यान् अंशान् परीक्षितुं अन्यविधानि साधनानि आवश्यकानि। एतानि सर्वाणि साधनानि उपयुज्य यदा छात्रस्य परीक्षणं भवेत् तदैव यथायोग्यं मूल्यमापनं भवेत्।उ

४) मूल्यमापनस्य यानि साधनानि तेषां मर्यादा अपि अवगन्तव्याः। उदाहरणार्थं दीर्घोत्तरप्रश्नाः यद्यपि भाषाक्षमता, अभिव्यक्तिकौशलम्, तार्किकविचारक्षमता एतेषां मापनाय उपयुक्ताः तथापि तेषाम् उत्तराणां मूल्यमापने व्यक्तिनिष्ठता उद्भवति अतः तेषाम् उपयोगः मर्यादितः। 

५) मूल्यमापनम् उद्दिष्टानां साफल्यं कथयति। यदि अध्यापनेन शैक्षिकोद्दिष्टानि न सफलीभूतानि तर्हि अध्यापनप्रक्रियायाः , अध्ययनानुभवानाम् कदाचित् अभ्यासक्रमस्यापि पुनर्विचारः अत्यावश्यकः भवति। एतत् अनुधावनं (follow-up) शैक्षिकप्रक्रियायाः परिष्कारार्थम् अत्यावश्यकम्। यत् मूल्यमापनं कृतं तेन इष्टपरिणामः न प्राप्तः चेत् अध्यापने यथायोग्यपरिवर्तनानि शिक्षकः कुर्यात् एव।