व्याकरणाध्ययनस्य गौणप्रयोजनानि--२
८) व्याकरणाध्ययनेन शब्दरूपेण महादेवेन सायुज्यम्–
चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य।
त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यामाविवेश।।
शब्दरूपस्य वृषभस्य वर्णनमिदम्। नामाख्यातोपसर्गनिपातरूपाणि तस्य चत्वारि शृङ्गाणि विद्यन्ते। भूतवर्तमानभविष्यत: त्रय: काला: तस्य त्रय: पादा:। शब्दस्य द्विविधं स्वरूपं– नित्य: स्फोटरूप: अपरश्च कार्य: अथवा अनित्य: ध्वनिरूप: एतस्य वृषभस्य द्वे शीर्षे। सप्त विभक्तय: एतस्य सप्त हस्ता:। शब्दस्य उर: कण्ठ: शिर: एतेषु त्रिषु स्थानेषु उत्पन्नत्वात् त्रिधा बद्ध: इति वर्णनम्। एष: शब्दरूप: वृषभ: महादेव: एव। स: रोरवीति महाध्वनिं करोति। स: च महादेव: मर्त्येषु प्रविष्ट: अस्ति। अत: तेन शब्दरूपेण महादेवेन सायुज्यं प्राप्नुयाम इत्यर्थम् अध्येतव्यं व्याकरणम्।
चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिण:।
गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति।।
नामाख्यातोपसर्गनिपातानि एवं वाक् चतुर्धा भवति। तानि ये बुद्धिमन्त: ब्राह्मणा: ते सम्यक् जानन्ति। एतेषु त्रय: भागा: गुहायामिव निहिता: भवन्ति अत: तेषु चेष्टा न दृश्यते। सामान्या: केवलं चतुर्थं भागमेव वाण्या: जानन्ति वदन्ति च। तथापि ये वैयाकरणा: ते गुहान्धकारं भित्वा वाण्या: स्वरूपं सम्यक् अवगच्छन्ति।
भर्तृहरि: नागेश: वा परापश्यन्तीमध्यमावैखरीरूपा चतुर्धा वाणी अत्र उल्लिखिता इति मत्वा एतस्य मन्त्रस्य व्याख्यानं कुर्वन्ति।
परा वाङ्मूलचक्रस्था पश्यन्ती नाभिसंस्थिता।
हृदिस्था मध्यमा ज्ञेया वैखरी कण्ठदेशगा।।
एतासु परापश्यन्तीमध्यमा: सामान्यमानवा: न जानन्ति अत: गुहानिहितानीव एता: वाच: न चेष्टन्ते। मानवा: केवलं चतुर्थां वैखरीरूपामेव वाणीं जानन्ति वदन्ति च। वैयाकरणास्तु सर्वाणि वाणिरूपाणि सम्यग्विदन्ति।
९) व्याकरणज्ञाय वाणी स्वस्य रूपं सम्यक् दर्शयति–
उत त्व: पश्यन्न ददर्श वाचं उत त्व: शृण्वन्न शृणोत्येनाम्।
उतो त्वस्मै तन्वं विसस्रे जायेव पत्ये उशती सुवासा:।।
केचन वाणीं पश्यन्त: अपि न पश्यन्ति श्रुत्वा अपि न शृण्वन्ति। वाण्या: स्वरूपं सम्यक् न अवगच्छन्ति इति अर्थ:। यथा शोभनवसना पत्नी रतिकाले स्वस्य तनूं पत्ये विवृणोति तथैव वाणी व्याकरणविदे स्वस्य स्वरूपं सरहस्यं दर्शयति अत: अध्येतव्यं व्याकरणम्।
१०) कल्याणमयस्य लक्ष्मीनामकस्य ब्रह्मण: सायुज्यम्--
सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत।
अत्रा सखाय: सख्यानि जानते भद्रैषा लक्ष्मीर्निहिताधि वाचि।।
सक्तुशब्द: सेचनार्थात् शोधनार्थात् वा सच्-धातो: निष्पन्न:। सक्तु: शोधनाय कठिन:। अथवा कस् धातो: आद्यन्तविपर्ययेण सक्तु: इति भवति। विकसितो भवति इत्यर्थ:। तितउ: इति चालनीनाम। पुनन्त: पूतीकुर्वन्त:, शोधयन्त: । यथा जना: चालन्या सक्तून् शोधयन्ति तथैव धीरा: ध्यानवन्त: मनसा प्रज्ञानेन वाणीम् व्याकुर्वन्ति। तेन अत्र शब्दशास्त्रे ते सखाय: समानख्यातय: समज्ञानिन: भवन्ति। एष: वाग्विषय: एकेन व्याकरणेनैव गमनीय: दुर्गमो मार्ग:। लक्ष्मीनामकं कल्याणकारि ब्रह्म तस्यां वाचि निहितम् अस्ति। वैयाकरणा: तस्या: सख्यानि सायुज्यं जानते प्राप्नुवन्ति।
११) प्रायश्चित्तप्रसङ्गस्य निवारणम् – आहिताग्नि: यदि अपशब्दान् प्रयुज्यते तर्हि तज्जनितपापक्षालनाय प्रायश्चित्तात्मिका सारस्वती इष्टि: आदिष्टा। एवं प्रायश्चितीकरणं न आपतेत् इत्यर्थम् अध्येयं व्याकरणम्।
१२) नामकरणादिषु व्याकरणोपयोग: – दशमदिनानन्तरं नवजातस्य नामकरणं भवति। तन्नाम द्व्यक्षरं चतुरक्षरं वा भवेत्, तत् त्रयाणां पूर्वपुरुषाणां स्मारकं स्यात्, तस्य आदावन्ते घोषवर्ण: मध्ये चान्त:स्थवर्ण: स्यात्। तस्मिन् वृद्धिसंज्ञकवर्ण: न भवेत्, तत् शत्रुनाम न भवेत्, तत् कृदन्तं स्यात् न तु तद्धितान्तम्। एवं नामकरणविषये ये बहव: नियमा: तेषां सम्यक् ज्ञानं वैयाकरणस्यैव भवितुम् अर्हति
१३) सत्यदेवा: भवेम –
सुदेवो असि वरुण! यस्य ते सप्त सिन्धव:।
अनुक्षरन्ति काकुदं सूर्म्यं सुषिरामिव।।
हे वरुण त्वं सत्यदेव: असि यत: ते सप्त सिन्धव: सप्त विभक्तय: काकुदं तालुस्थानं प्राप्य अनुक्षरन्ति प्रकाशन्ते, यथा अग्ने: सप्त जिह्वा: ज्वाला: सुषिरां छिद्रयुक्तां सूर्म्यं लोहप्रतिमां प्रविश्य मलानि दग्ध्वा शुद्धताम् उत्पादयन्ति तद्वत्। एवं व्याकरणाभ्यासेन वयमपि वरुणवत् सत्यदेवा भवेम इत्यध्येयं व्याकरणम्।
एवं वेदस्य रक्षणम् , ऊह: नाम मन्त्रप्रयोगे विभक्त्यादीनां विपरिणामस्य ज्ञानम्, आगमज्ञानम्, लघुता,सन्देहनिवारणम् इत्येतानि व्याकरणाध्ययनस्य पञ्च मुख्यप्रयोजनानि तथा च म्लेच्छत्वनिवारणम्, दुष्टशब्दप्रयोगात् विपरीतफलप्राप्ते: निवारणम्, अध्ययनस्य निष्फलत्वनिवारणम्, अवाग्योगविद: अधर्मस्य निवारणम्, शिष्टाचारज्ञानम्, विभक्तिकरणस्य ज्ञानम्, ऋत्विक्कर्मार्हतासम्पादनम्,शब्दरूपस्य महादेवस्य सायुज्यप्राप्ति:, चतुर्धा वाच: सम्पूर्णज्ञानम्, वाणीद्वारा स्वरूपस्य प्रकटनम्, वाणीद्वारा लक्ष्मीरूपपरब्रह्मण: सायुज्यस्य प्राप्ति:, प्रायश्चित्तप्रसङ्गनिवारणम्, नामकरणादिसंस्काराणां ज्ञानम् , सत्यदेवत्वप्राप्ति: एतानि त्रयोदश गौणप्रयोजनानि पतञ्जलिराह।