संस्कृतव्याकरणस्य सम्प्रदाया:।

  


ऋग्वेदसंहितायां तथा च तैत्तिरीयसंहितायां व्याकरणस्य विशिष्टविषयरूपेण विचारः करणीयः इति  प्रथमभानं दृश्यते।

ब्राह्मणेषु शब्दानां व्युत्पत्तिः मिथकरूपेण कथारूपेण प्रदर्शिता। व्याकरणदृष्ट्या तासां महत्त्वम् अधिकं नास्ति।

वेदानां सङ्कलनानन्तरं व्याकरणस्य वैज्ञानिकविचारः प्रारब्धः स्यात्। यास्कात् पूर्वं प्रातिशाख्येषु एषः विचारः दृश्यते ।शाकल्यस्य पदपाठः अस्यां दिशि प्रथमः पदक्षेपः।

यास्कात् पूर्वं नामाख्यातोपसर्गनिपातेषु शब्दानां विभाजनं ,व्याकरणसम्बन्धिनीनां संज्ञानां घटनं (याः यास्कः विवरणम् अदत्वा उपयुङ्क्ते) तथा च शब्दानां घटकांशेषु विभाजनार्थं प्रयत्नाः इत्यादीनि कार्याणि प्रारब्धानि।

यास्कः (ख्रिस्तपूर्वं सप्तमं शतकम्)--

निरुक्ते यास्काचार्येण व्याकरणस्य पूर्वप्रगतेः त्रीणि सोपानानि दर्शितानि।

१) साक्षात्कृतधर्माणः ऋषयः बभूवुः। (यैः धर्मः साक्षात्कृतः ते वेदप्रकाशकाः ऋषयः अभवन्।)

२) तेsवरेभ्योsसाक्षात्कृतधर्मभ्य उपदेशेन मन्त्रान्सम्प्रादुः। (ते पश्चात् जातेभ्यः यैः वेदरूपधर्मस्य साक्षात्कारः स्वयं न कृतः, तेभ्यः वेदप्रकाशकऋषयः वेदमन्त्रान् पाठितवन्तः)

३) अध्ययनाय ग्लायन्तोsवरे बिल्मग्रहणायेमं ग्रन्थं सामाम्नासिषुः। वेदं च वेदाङ्गानि च। (तथापि ते शिष्याः वेदस्याभै ध्ययने काठिन्यम् अनुभूय अध्ययनाय अनुत्सुकाः अभवन्। अतः स्वेषां ज्ञानाप्राप्तये सौकर्यं जनयितुं ते पश्चाज्जाताः ऋषयः निघण्टुनामककोषं तथा वेदाङ्गानि अपि निर्मितवन्तः।)

यास्काचार्येण नामाख्यातोपसर्गनिपातेषु शब्दानां विभाजनं,नामानि तथा विभक्तिप्रत्ययाः,धातवः तथा च कालार्थप्रत्ययाः एतेषां विषये कथितं तथा च सर्वे शब्दाः क्रियामूलाः इति सिद्धान्तः प्रतिपादितः। पाणिनीयव्याकरणं तथा च आधुनिकव्याकरणान्यपि एनमेव सिद्धान्तम् आधारीकृत्य प्रवृत्तानि सन्ति।

यास्कात् अनन्तरं तथा च पाणिनेः पूर्वं आपिशलिः तथा च काशकृत्स्नः एतौ द्वौ प्रमुखौ सम्प्रदायप्रतिष्ठापकौ वैयाकरणौ बभूवतुः।

अष्टाध्याय्यां तथा च काशिकायां एतयोः उल्लेखः प्राप्यते।काशिकायाम् आपिशलेः एकं  सूत्रं दत्तम्। तथा च काशकृत्स्नस्य व्याकरणग्रन्थे त्रयः अध्यायाः सन्ति इति उल्लेखः अपि अस्ति। कैय्यटेन महाभाष्यप्रदीपे एतयोः व्याकरणयोः कौश्चन अंशौ अपि उद्धृतौ।तथापि एतयोः पूर्णग्रन्थौ न प्राप्येते कुत्रापि।

व्याकरणसम्प्रदायाः।

१) ऐन्द्रसम्प्रदायः--

पाणिनिः पूर्वदेशीयाः इत्येव नाम्ना ऐन्द्रव्याकरणसम्प्रदायभाजाम् उल्लिखति। कथासरित्सागरे वर्णितं यत् पाणिनेः व्याकरणम् ऐन्द्रसम्प्रदायानुसारि एव।तथा च पाणिनिः,कात्यायनः,व्याडिः,इन्द्रदत्तः च एतस्य सम्प्रदायस्य प्रमुखवैयाकरणाः। तथापि ऐन्द्रव्याकरणस्य स्वतंन्त्रग्रन्थः नैव उपलभ्यते। तोलकप्पियम् नामकं तमिलभाषायाः प्रथमव्याकरणं तथा च पाणिनेः पश्चात् जातं कातन्त्रव्याकरणं , प्रातिशाख्यानि च ऐन्द्रव्याकरणाधारितानि।

२) पाणिनिसम्प्रदायः--

अस्मिन् सम्प्रदाये कालदृष्ट्या भागत्रयं दृश्यते। 

प्रथमकालखण्डः--

अ) पाणिनिः(ख्रि.पू.५००)--

पाणिनिः इदानींतनपाकिस्थानस्य शालातुर- (लाहोर) ग्रामस्य वासी आसीत्। एषः ग्रामः अद्यतनयुसुफजाईकन्धरायां (या ह्यूएनत्सङ्गस्य काले उद्यानम् नाम्ना प्रसिद्धा आसीत् ) अटकसमीपे अस्ति।कथासरित्सागरे वर्णितम् यत् पाणिनिः कात्यायनः व्याडिः तथा इन्द्रदत्तः सहाध्यायिनः आसन्। ते वर्षनामकोपाध्यायस्य समीपे अध्ययनं चक्रिरे। महाभाष्ये पाणिनेः उल्लेखः दाक्षीपुत्रः इति।प्रायः दाक्षी इति तस्य

मातुः नाम। पाणिनेः कालः ख्रिस्तपूर्वं मशतकम्।

तस्य अष्टाध्याय्याम् अष्टसु अध्यायेषु उपचतुःसहस्रम् (~४०००) सूत्राणि।

पाणिनिना धातुपाठः, गणपाठः, उणादिसूत्राण्यपि रचितानि।

लिङ्गानुशासनं,पाणिनीयशिक्षा च न पाणिनिकृती इति विद्वांसः मन्यन्ते। फिट्सूत्राणां कर्ता शान्तनवाचार्यः तथा च परिभाषाणां व्याडिः इति परम्परासम्मतम्।

आ) कात्यायनः/वररुचिः (ख्रि.पू. ३५०)--

पाणिने १५०० सूत्राणि आधारीकृत्य एतेन ४००० वार्त्तिकानि रचयित्वा पाणिनिसूत्रेषु विद्यमानाः न्यूनताः पूरिता।

इ) पतञ्जलिः (ख्रि.पू.१५०)--

महाभाष्ये पतञ्जलिना अष्टाध्याय्याः मण्डनं तथा च कात्यायनमतानां खण्डनं कृतम्।

'इह पुष्पमित्रं याजयामः' इत्युल्लेखात् पुष्पमित्राख्यमौर्यराज्ञः समकालीनः एषः इति ऊह्यते।

एते मुनित्रयम् इति नाम्ना प्रसिद्धाः। एतेषां कालः पाणिनिसम्प्रदायस्य प्रथमकालः। एतस्मिन्काले मुनित्रयेण व्याकरणं दृढायाम् आधारशिलायां स्थापितम्।

द्वितीयकालविभागे व्याकरणस्य विषये अधिकांशतः विवरणानि अभवन्।

द्वितीयकालखण्डः

अ) चन्द्रगोमिन् /चन्द्रः (ई.स.४७०)--

एषः बौद्धः त्रिमुनिव्याकरणस्य सूक्ष्माध्येता आसीत्।तेन चान्द्रसम्प्रदायः आरब्धः। तथापि कालान्तरेण एषः सम्प्रदायः विलुप्तप्रायः जातः।

आ) जयादित्यः वामनः च (ई.स. ६५०)--

कश्मीरराट् जयादित्यःतथा च तस्य राजसभापण्डितः वामनः अष्टाध्याय्याः काशिकानामिकां वृत्तिं लिखितवन्तौ। अष्टाध्याय्याः उत्कृष्टविवरणं तत्र प्राप्यते।आदिमपञ्चाध्यायाः जयादित्यस्य तथा च अन्तिमत्रयः वामनस्य कृतिः इति मन्यते। चान्द्रव्याकरणे समावेशितानां भाषायाः नूतनपरिवर्तनानां समावेशार्थम् एताभ्यां प्रयत्नः कृतः। अष्टाध्याय्यां ५८ नूतनसूत्राणां समावेशः एताभ्यां कृतः।

इ) भर्तृहरिः (ई.स. ६५०)--

एतेन राज्ञा व्याकरणस्य तत्त्वज्ञानं स्पष्टीकुर्वाणः वाक्यपदीयनामकः ग्रन्थः रचितः।

ई) जिनेन्द्रबुद्धिः (ई.स.७५०) --

एषः काशिकायाः न्यासः इत्येताम् अथवा काशिकाविवरणपञ्जिका-नामिकां टीकां लिखितवान्।

उ) हरदत्तः (ई.स. ११००)--

एतेन पदमञ्जरी नामिका काशिकाटीका लिखिता।

ऊ) कैय्यटः ( ११ तमं शतकम् )--

एतेन महाभाष्यस्य प्रदीपनामिका टीका रचिता। कैय्यटः पाणिनिव्याकरणस्य द्वितीयकालखण्डस्य अन्तिमलेखकः।

तृतीयकालखण्डः।

अ) विमलसरस्वती (ई.स.१३५०) --

अष्टाध्याय्याः सूत्राणां प्रक्रियानुसारेण क्रमपरिवर्तनं कृत्वा 'रूपमाला' इत्याख्यं ग्रन्थं निर्मितवान्। कौमुदीग्रन्थानामेतत् प्रारूपम्।

आ) रामचन्द्रः (१५ तमशतकस्य पूर्वार्धः)--

एतेन प्रक्रियाकौमुदी नाम्ना ग्रन्थस्य रचना कृता। एषः ग्रन्थः भट्टोजिदीक्षितस्य सिद्धान्तकौमुदीरचने प्रतिमानवत् आसीत्।  भट्टोजेः गुरुणा शेषकृष्णेन प्रक्रियाप्रकाशः नामिकया टीकया एषः ग्रन्थः उपबृंहितः।

इ) भट्टोजिदीक्षितः(ई.स.१६३०)--

एतेन सर्वप्रसिद्धा सिद्धान्तकौमुदी रचिता। तेन एव कौमुद्याः प्रौढमनोरमा तथा च बालमनोरमा इति टीकाद्वयं रचितम्। तस्य मतं खण्डयितुं जगन्नाथेन मनोरमाकुचमर्दिनी रचिता। सिद्धान्तकौमुद्याः उत्तमासु टीकासु ज्ञानेन्द्रसरस्वतीमहोदयस्य तत्त्वबोधिनी उत्तमा।

भट्टोजेः भ्रातृव्यः कोण्डभट्टः व्याकरणतत्त्वज्ञानविषयकं वैयाकरणसिद्धान्तभूषणनामकं ग्रन्थं रचितवान्। नागोजिभट्टेन कैय्यटग्रन्थस्य प्रदीपोद्योतः इत्येषा टीका लिखिता।

भट्टोजिशिष्येण वरदराजेन कौमुद्याः त्रीणि लघुरूपान्तरणानि--सारसिद्धान्तकौमुदी, मध्यसिद्धान्तकौमुदी तथा च लघुसिद्धान्तकौमुदी ---कृतानि।

$ पाणिनीयधातुपाठः --एतस्य वृत्तिः क्षीरस्वामिना क्षीरतरङ्गिणी नाम्ना  रचिता (इ.स.१०५०)।

गणपाठः --

गणरत्नमहोदधिः नामकः विवरणग्रन्थः वर्धमानाचार्येण रचितः। (इ.स.११४०)

परिभाषाः--

नागोजिभट्टस्य परिभाषेन्दुशेखरः।

पाणिनीतराः सम्प्रदायाः--

१) चान्द्रसम्प्रदायः--

चन्द्रगोमिन् (पञ्चमं शतकम्)  एतेन पाणिनीयव्याकरणस्य त्रुटीः परिशोधितुं सूत्ररचना कृता।

तस्य व्याकरणे षट्सु अध्यायेषु ३१०० सूत्राणि सन्ति। संज्ञानां पृथक् विचारः अत्र न कृतः तथा च संज्ञास्थाने चन्द्रेण नामञ्शब्दः योजितः अतः एतत् असंज्ञिकव्याकरणमिति कथ्यते।

भारतात बौद्धसम्प्रदायस्य निबर्हणात् अधुना एतद्व्याकरणं तिबेटमध्ये तथा च श्रीलङ्कायामेव पठ्यते। काश्यपाचार्येण लङ्कायां बालावबोधः नामकं एतस्य संस्करणं रचितम्।तदेव तत्र पठ्यते,न मूलचान्द्रसूत्राणि।

२) जैनेन्द्रसम्प्रदायः--

जैनमतानुसारेण तीर्थङ्करमहावीरेण इन्द्राय पाठितमेतत्।

तथापि ऐतिहासिकदृष्ट्या एतस्य सूत्ररचना देवानन्दी अथवा पूज्यपादेन कृता।एतस्य सम्प्रदायस्य स्थापना चान्द्रसम्प्रदायेन समकालिका। अत्र सूत्रसङ्ख्या ३७०० वर्तते। दिगम्बरजैनसम्प्रदायम् अधिकृत्यैतत् रचितम्। दक्षिणभारते एतत् कुत्रचित् पठ्यते।

३) शाकटायनसम्प्रदायः--

प्रायः सप्तमे शतके सम्प्रदायोयं प्रादुरभवत्।शाकटायनेन रचितः शाकटायनशब्दानुशासनम् इत्येषः एतस्य सूत्रग्रन्थः।एतस्मिन् ३२०० सूत्राणि सन्ति। श्वेताम्बरजैनसम्प्रदायम् अधिकृत्य रचितः एषः ग्रन्थः  दक्षिणभारते एव सीमितः।

४) हेमचन्द्रसम्प्रदायः--

एकादशशतके जातेन हेमचन्द्रेण स्थापितः एषः सम्प्रदायः।सूत्रग्रन्थः शब्दानुशासनम् इति। सूत्रसङ्ख्या ४५०० येषु १/४ सूत्राणि प्राकृतव्याकरणसम्बद्धानि। हेमचन्द्रेण सूत्रान स्पष्टीकर्तुम् एका बृहद्वृत्तिः अपि लिखिता। जैनसम्प्रदायमधिकृत्य लिखितमेतत् व्याकरणं शनैः शनैः कालबाह्यम् अभवत्।

५) कातन्त्रसम्प्रदायः--

कातन्त्रशब्दस्यार्थः लघुनिबन्धः। एतस्य प्रणेता सर्ववर्मन् सातवाहननृपस्य सभापण्डितः।एकस्याः कथायाः अनुसारेण (नवम्याः पाठ्यपुस्तके एषा कथा अस्ति।) नृपः व्याकरणे अव्युत्पन्नः। राज्ञ्या सह जलकेलिं कुर्वन् सः राज्ञ्याः उपरि जलम् अक्षिपत्। राज्ञ्या उक्तम्,"मोदकं देहि राजन्।" तत् श्रुत्वा व्याकरणे अनभिज्ञेन राज्ञा मोदकानि आनाय्यितानि।अनन्तरं स्वस्य प्रमादं ज्ञात्वा लज्जितेन तेन सभापण्डितेन सर्ववर्मणा सह वार्तासमये व्याकरणस्य शीघ्रपाठनार्थम् अभ्यर्थितम्। तदा तं शीघ्रं पाठयितुं  ८५५ सूत्राणि एव सर्ववर्मणा निर्मितानि।अनन्तरं तेषु अन्यप्रकरणानां समावेशेन सूत्रसङ्ख्या १४०० अभवत्। कश्मीरनिवासी दुर्गसिंहेण (ई.स.अष्टमशतकम्) कातन्त्रसूत्राणां वृत्तिः लिखिता। इदानीं कश्मीरे तथा च पश्चिमबंगालराज्ये कातन्त्रव्याकरणस्य पठनपाठनं प्रचलति।

६) सारस्वतसम्प्रदायः--

एतस्य प्रवर्तकः नरेन्द्राचार्यः येन ७०० सूत्रेषु व्याकरणं ग्रथितम्। तस्य कालः प्रायः त्रयोदशतमं शतककम्।

अनुभूतिस्वरूपाचार्येण सारस्वतप्रक्रियानाम्ना एतस्य वृत्तिः लिखिता।

ब्रिटिशजनानां पठनार्थं प्रथमं संस्कृतव्याकरणं --'विल्किन्स संस्कृत ग्रामर' सारस्वतसूत्राणामाधारेणैव रचितम्।

अधुना एतत् व्याकरणं बिहारप्रान्ते तथा बनारसक्षेत्रे पाठ्यते।

७) मुग्धबोधसम्प्रदायः--

बोपदेवः गोस्वामी यादवराज्ञः महादेवस्य मन्त्रिणः हेमाद्रेः अनुगतः।(ई.स. १३ तमं शतकम्) तस्य ग्रन्थस्य नाम मुग्धबोधः यत्र पाणिनिव्याकरणस्य सरलीकरणार्थं कृतः प्रयासः दृश्यते।

८) जौमारसम्प्रदायः--

क्रमदीश्वरः प्रायः पाणिनिव्याकरणं सङ्क्षेप्तुं एतस्य व्याकरणस्य रचनाम् अकरोत्। तस्य सूत्रसङ्ख्या पाणिनिसूत्रसङ्ख्यायाः त्रिपादमिता।ग्रन्थस्य नाम सङ्क्षिप्तसारः।जुमरानन्दीमहोदयः रसवतीनाम्ना एतस्य ग्रन्थस्य वृत्तिं लिखितवान्।तेन एषः रासवतसम्प्रदायः इत्यपि कथ्यते।

सम्प्रति एतत् व्याकरणं पश्चिमबङ्गालराज्ये सीमितम्।

९) सौपद्मसम्प्रदायः--

१४ तमशतकस्य उत्तरार्धे पद्मनाभदत्तनामकेन मैथिलब्राह्मणेन एषः सम्प्रदायः प्रारब्धः। पद्मनाभेनैव सौपद्मपञ्जिका इत्येषा सूत्रवृत्तिः लिखिता। एषः सम्प्रदायः अधुना बङ्गालप्रान्ते सीमितः दृश्यते।