शब्दानां ज्ञाने धर्म: उत प्रयोगे?
व्याकरणशास्त्रेण धर्मार्थ: नियम: क्रियते यत् साधुशब्दा एव प्रयोक्तव्या इति। तर्हि एतेषां शब्दानां ज्ञानेन धर्म: भवति उत प्रयोगेण? उक्तं च – ‘एक: शब्द: सम्यग्ज्ञात: सुप्रयुक्त: लोके वेदे च कामधुग्भवति’ इति। तत्र शब्दज्ञानात् वा तस्य प्रयोगात् वा अथवा उभाभ्यामपि अभ्युदयफलं प्राप्यते इत्यत्र सन्देह:।
ज्ञाने धर्म: इति चेत्तथाऽधर्म:। (वा ६)
साधुशब्दज्ञानेन सह असाधुशब्दानामपि ज्ञानं भवति। साधुशब्देभ्य: असाधुशब्दा: भूयांस:। यथा गौ: इति एक: साधुशब्द: तथापि तस्य गावी, गोणी, गोता, गोपोतलिका इत्यादय: नैके अपभ्रंशा:। यदि शब्दज्ञाने धर्म: इति उच्येत तर्हि साधुशब्दज्ञानात् अपशब्दज्ञानं अधिकं तेन धर्मात् अधिका अधर्मस्य प्राप्तिरेव भवेत्।
आचारे नियम:। (वा ७)
आचारे (प्रयोगे) एव नियम: कृत: अस्ति यत् साधुशब्दा एव प्रयोज्या: इति। ऋषिर्वदति– ‘तेऽसुरा: हेलयो हेलय: इति कुर्वन्त: पराबभूवु:’ इति। यज्ञकर्मणि असुरै: ‘हेऽरय: हेऽरय:’ इत्यस्य स्थाने साधुशब्दज्ञानाभावात् ‘हेलय: हेलय:’ इत्येवं शब्दा: प्रयुक्ता:। अत: अपशब्दप्रयोगात् ते युद्धे देवै: पराजिता: अभवन्। अत: पराभवं मा प्राप्नुम इति साधुशब्दा: प्रयोज्या: असाधुशब्दा: परिहर्तव्या: इति नियमं ऋषि: कथयन् अस्ति। एष: शब्दप्रयोगविषय: नियम:। अत: प्रयोगे धर्म: इति अभ्युपागम: क्रियते चेत्–
प्रयोगे सर्वलोकस्य। (वा ८)
प्रयोगे धर्म: इति वदामश्चेत् व्याकरणज्ञानाय कृत: प्रयत्न: निष्फल: एव भवेत्। यत: केवलं काव्यादीनाम् अध्ययनं कृत्वा तत: प्राप्ता: शब्दा: प्रयुक्ताश्चेत् धर्मप्रापणात् सर्वेषामेव अभ्युदय: निश्चित:। प्रयत्न: नित्यं फलवान् भवेत् तथा तु नात्र दृश्यते?
एवं तर्हि वदाम: यत् ये व्याकरणे कृतप्रयत्ना: त एव साधीय: शब्दान् प्रयोक्ष्यन्ते तेन त एव धर्मप्रापका: भविष्यन्ति, तेषामेवाभ्युदय: निश्चित:।
तथापि व्यवहारे तु विपरीतमेव दृश्यते यत् व्याकरणे कृतप्रयत्ना: बहव: साधुशब्दप्रयोगे अकुशला: अकृतप्रयत्नाश्च कुशला:। अत: अभ्युदयफलस्य विपरीतता अपि भवेत्। अकृतपरिश्रम: अभ्युदयं प्राप्नुयात् कृतप्रयत्नश्च तस्मात् वञ्चित: तिष्ठेत्। अत: व्याकरणाध्ययनाय न कोऽपि प्रयत्न: कुर्यात्।
एवं केवलं साधुशब्दज्ञाने धर्म: अथवा केवलं प्रयोगे धर्म: इति उभयो: पक्षयो: दोषा: दृश्यन्ते। तान् परिहर्तुं वयं वदाम:--
शास्त्रपूर्वके प्रयोगेऽभ्युदयस्तत्तुल्यं वेदशब्देन। (वा ९)
व्याकरणशास्त्रस्य अध्ययनं कृत्वा साधुशब्दानां ज्ञानं भवति तज्ज्ञानपूर्वकं शब्दान् प्रयुञ्जमहे चेत् धर्म: भवति तेन च अभ्युदय:। अत: ज्ञानसहितप्रयोगे धर्म: इति युक्तिसङ्गतम्। एतत् वेदे अपि दृश्यते यथा ‘योऽग्निष्टोमेन यजते य उ चैनमेवं वेद’, ‘योऽग्निं नाचिकेतं चिनुते य उ चैनमेवं वेद।’ एतस्याशय: यत् वैदिकानुष्ठानेषु ज्ञानपूर्वकं कर्माणि कुर्वन् मनुष्य: स्वर्गादिफलं प्राप्नोति। अत्रापि व्याकरणे य: शास्त्रमधीत्य ज्ञानपूर्वकं शब्दान् प्रयुङ्क्ते स: अभ्युदयफलभाक् भवति।
इदानीं वैयाकरण: वदति–तथापि ज्ञानपूर्वकप्रयोगे धर्म: इत्यत्र गौरवदोष: अस्तीति मन्यामहे, यत: एकेन धर्मे साध्ये सति उभयस्य आवश्यकता प्रतिपादिता। ‘शब्दज्ञाने धर्म:’ एवमेव अभ्युपगम: अस्माकम्।
आक्षेपक: —
केवलं ज्ञाने धर्म: इत्यत्र अपशब्दज्ञानात् अधर्मप्राप्तिरूप: दोष: तु दर्शित: एव ननु?
वैयाकरण: — वयं शब्दप्रमाणका: स्म:। वेदादि: आप्तोपदेश: शब्द:। वेदेन उक्तं यत् शब्दज्ञाने धर्म: इति। अपशब्दज्ञाने अधर्म: इति तु नोक्तं क्वचिदपि। यत् न अनुशिष्टं प्रतिषिद्धं वा तस्य ज्ञानेन अधर्म: कथं भवितुं शक्येत? अत: अपशब्दज्ञाने न दोष: नैव चाधर्म: यथा हिक्काहसितकण्डूयनादिभि: सहजक्रियाभि: न दोष: अभ्युदय: वा।
अथवा शब्दानां ज्ञाने अपशब्दज्ञानं साधनभूतम् इति मन्यामहे। कथम्? यथा अङ्गारान् आनय इत्युक्ते कथनं विनापि मनुष्य: पात्रे स्थापयित्वा तान् आनयति हस्ते गृहीत्वा तेषाम् आनयनस्य अशक्यत्वात् , तथैव शब्दानां ज्ञानाय अपशब्दज्ञानमपि पात्रवत् साह्यकारि भवति।
अथवा कूपखानवत् तद्भवति। यथा कूपं खनन् मनुष्य: पङ्केनावलिप्त: भवति पुनश्च जलोद्गमे तेन जलेन शुद्ध: भवति तथैव अपशब्दज्ञानात् प्राप्त: अधर्म: पश्चाज्जनितस्य साधुशब्दस्य ज्ञानेन परिमार्जित: भवति।
‘आचारे नियम:’ इति यदुक्तं तत् वेदकर्मस्वेव साधु। यर्वन् तर्वन् नामका: ऋषय: बभूवु:। तै: धर्म: प्रत्यक्षीकृत: आसीत्। तथापि व्यवहारकाले ते ‘ यद्वा न: तद्वा न:’ (यत्किमपि अस्माकं तदस्माकं भवतु’) एवं वक्तव्ये ‘यर्वाण: तर्वाण:’ एवम् अपशब्दप्रयोगं कुर्वन्ति स्म। यज्ञकर्मणि ते एवं अपशब्दप्रयोगान् न कुर्वन्ति स्म। तेन ते नाधर्मफलभाज: अभवन्।
तथापि यज्ञकर्मणि अपशब्दानां प्रयोक्तार: असुरा: तज्जन्याधर्मात् पराबभूवु:।
एतेन सिद्धं यत् यज्ञकर्मणि एव शब्दप्रयोगे साधुशब्दोपयोजनस्य नियम: लौकिकव्यवहारे न।