शैक्षिकमूल्रमापनम्--२ (Educational Evaluation--2)

  

मूल्यमापनस्य तन्त्राणि (Techniques of Evaluation) – शैक्षिकमूल्यमापनार्थं वयं बहूनां तन्त्राणाम् उपयोगं कर्तुं शक्नुमः। तानि तन्त्राणि द्विविधानि– सङ्ख्यात्मकानि गुणात्मकानि च।

प्रत्येकं तन्त्रे विविधानि मूल्यमापनसाधनानि वर्तन्ते। तेषां विवरणम् अग्रे दीयते–

१) सङ्ख्यात्मकतन्त्राणि –एतेषु  प्रचलितपरीक्षाणां समावेशः भवति। तासां परीक्षाणां फलं यत् प्राप्यते तत् मुख्यतः सङ्ख्यारूपम् अस्ति। तासां सङ्ख्यानाम् अन्वयार्थः शिक्षकेण निश्चेतव्यः। परीक्षाः त्रिविधाः –लेख्याः मौखिक्यः प्रात्यक्षिक्यश्च। तासु लेख्यपरीक्षाः पुनः त्रिविधाः। दीर्घोत्तराः, लघूत्तराः वस्तुनिष्ठाश्च। 

लेख्यपरीक्षा – एतस्याः प्रकाराः यथोक्ताः अग्रे–

अ) दीर्घोत्तरा परीक्षा –एतस्यां परीक्षायां पृष्टानां प्रश्नानां उत्तराणि बहु दीर्घानि लिख्यन्ते। म्कल्पनाविस्तारं कुरुत, चर्चां कुरुत, स्पष्टीकरणं कुरुत, व्याख्या व्याख्यां कुरुत– एतादृशाः एते प्रश्नाः। प्रत्येकम् उत्तरं उपद्विशतशब्दमितम्

आवश्यकम्। विस्तृतलेखनेन छात्रस्य विचारशक्तिः, सूत्रबद्धलेखनम् अभिव्यक्तेः कौशलम् इत्यादयः क्षमताः परीक्ष्यन्ते। प्रायः सर्वेषु पाठ्यविषयेषु दीर्घोत्तरप्रश्नाः प्रष्टुं शक्याः। प्रश्नपत्रनिर्माणमपि बहु सुकरम् अस्ति।  

तथापि एतस्याः परीक्षायाः उपयोगः सर्वदा मा भवेत् यतः तस्याः काश्चन मर्यादाः सन्ति। सम्पूर्णप्रश्नपत्रे काश्चन एव प्रश्नाः पृच्छ्यन्ते। प्रश्नसङ्ख्या अत्यन्तं मर्यादिता। तेन सम्पूर्णाभ्यासक्रमविषयकाः प्रश्नाः न प्रष्टुं शक्याः। तत्रापि १० तःकेवलं ६ प्रश्नाः लेखनीयाः –एतादृशं पर्यायदानं भवति। तेन छात्रा सम्पूर्णपाठ्यक्रमस्य अध्ययनं न कुर्वन्ति। 

द्वितीयं नाम एतस्य उत्तरस्य अङ्कने बह्वी व्यक्तिनिष्ठता अस्ति। परीक्षकस्य छात्रविषयकः पूर्वग्रहः, मतानि एतेषां प्रभावात् कस्मैचित् अधिकं अङ्कदानं भवति अपरस्मै न्यूनम्। प्रतिपरीक्षकमपि अङ्कदानं भिन्नम्। तेन एतस्याः परीक्षायाः विश्वासार्हता नश्यति। 

तृतीयं नाम छात्राः यदि निश्चितोत्तराणि न जानन्ति तर्हि केवलम् उत्तराणि दीर्घीकर्तुं किमपि असम्बद्धं लिखन्ति। उदाहरणार्थं छत्रपतिशिवाजेः योग्यताविषये लिखन् एकेन एवं लिखितम्–

शिवाजिमहाराजस्य माहात्म्यम् –

अहो! कीदृशः सः शिवाजिः! कीदृशं तस्य खड्गम् ! कीदृशी सा भवानी ! कीदृशः महाराजस्य अश्वः ! कीदृशं महाराजस्य शिरस्त्रम् ! कीदृशं तस्य युतकम् !

अहो ! कीदृशाः ते अङ्काः।     ०० / १०

आ) लघूत्तरा परीक्षा – दीर्घोत्तरपरीक्षायाः दोषान् अपाकर्तुं कृतः एषः प्रयत्नः। अत्र प्रत्येकम् उत्तरं ८०/१०० शब्दैः लेख्यम्। अतिदीर्घलेखनं निवारितम्। तेन असम्बद्धलेखनमपि। 

सम्पूर्णं पाठ्यक्रमम् आधारीकृत्य प्रश्नाः प्रष्टुं शक्याः यतः प्रश्नसङ्ख्या अधिका। अङ्कदाने व्यक्तिनिष्ठता न्यूना भवति वस्तुनिष्ठता च वर्धते  यतः उत्तराणि अधिकं निश्चितानि भवन्ति। 

इ) वस्तुनिष्ठपरीक्षा – दीर्घोत्तरप्रश्नानां विषये विद्यमानः व्यक्तिनिष्ठपरीक्षणस्य दोषः अत्र पूर्णतया निवारितो भवति। अत्र एकशब्देन उत्तराणि दातव्यानि। प्रश्नानां सङ्ख्या अधिका अतः सम्पूर्णपाठ्यक्रमविषये प्रश्नाः प्रष्टुं शक्यन्ते। 

वस्तुनिष्ठप्रश्नस्य प्रकारद्वयम् अस्ति। प्रत्यावाहनात्मकः प्रत्यभिज्ञात्मकः च। तत्र पूर्वस्मिन् पठितस्य स्मरणं विशेषतया परीक्ष्यते। रिक्तस्थानपूर्तिः, सानार्थक-विरुद्धार्थकशब्दानां कथनम् एतादृशाः प्रश्नाः प्रत्यावाहनात्मकाः। पठितपूर्वं यदि पुनः पुरतः उपस्थितं भवति तर्हि तस्य अभिज्ञानं द्वितीये प्रकारे आवश्यकम्। योग्यं पर्यायं चिनुत, गद्यांशात् पूर्वकालवाचकाव्ययानि चित्वा लिखत एतादृशाः प्रश्नाः एतस्मिन् द्वितीये प्रकारे अन्तर्भवन्ति।  

दीर्घोत्तर-लघूत्तर-वस्तुनिष्ठाः सर्वप्रकारकाः प्रश्नाः यदि प्रश्नपत्रे समाविष्टाः तर्हि छात्रस्य परीक्षणं अधिकं सम्यक्तया भवेत्। 

मौखिकी परीक्षा – येषां बिन्दूनां परीक्षणं लेख्यपरीक्षया न भवितुं शक्नोति तेषां परीक्षणार्थं मौखिकपरीक्षा स्वीक्रियते। छात्रस्य सम्भाषणकौशलम्, आत्मविश्वासः, भाषाप्रभुत्वं सूत्रबद्धप्रतिपादनस्य क्षमता एतेषां परीक्षणाय मौखिकी परीक्षा उपयुक्ता।  तथापि तस्याः अङ्कदानसमये व्यक्तिनिष्ठत्वदोषः उत्पद्यते।

प्रात्यक्षिकपरीक्षा -– छात्रेण प्राप्तानि हस्तकौशलादीनि, वस्तूनाम् आलभने प्रावीण्यम् इत्यादीनां परीक्षणार्थं प्रात्यक्षिकपरीक्षा उपयुक्ता भवति।

२) गुणात्मकतन्त्राणि – विशिष्टपरिस्थितौ विद्यार्थिनः वर्तनं कीदृशं भवति, तस्मिन् सहकार्यवृत्तेः, परोपकारशीलत्वं, नेतृत्वगुणः इत्यादीनां कियत् विकासः भूतः एतस्य मापनार्थं प्रचलितपरीक्षाणाम् उपयोगः न भवति। अतः तदर्थं गुणात्मकसाधनानि उपयुज्यन्ते। तेषु अग्रिमत्चतुर्णां तन्त्राणां समावेशः भवति–

निरीक्षणतन्त्रम् (Observational Technique) – उपर्युक्तानां गुणानां विकसनं छात्रे भवति उत न एतस्य निश्चयनं शिक्षकः निरीक्षणद्वारा करोति। एतस्मिन् तन्त्रे उपयुज्यमानानि साधनानि–

अ) परीक्षणसूचिः (Checklist)-- निरीक्ष्यमाणस्य कौशलस्य/गुणस्य तादृशलघुबिन्दुषु विभाजनं क्रियते येषां निश्चयनं निरीक्षणद्वारा शिक्षकस्य कृते शक्यं भवेत्। उदाहरणार्थं छात्रे स्वाध्यायस्य योग्या उच्चटा विकसिता अभवत् वा एतस्य परीक्षणार्थं केषाञ्चन निरीक्षणार्हानां बिन्दूनाम् आवलिः निर्मीयते यथा–

● छात्रः गृहं गत्वा पाठशालायां पाठितस्य पुनः वाचनं करोति।

● स्वाध्यायस्य साप्ताहिकसमयसारिणी तेन निर्मिता अस्ति।

● सः सन्दर्भपुस्तकानाम् उपयोगं करोति।

● मार्गदर्शकपुस्तकेभ्यः यथावत् सिद्धानि उत्तराणि अस्वीकृत्य स्वस्य चिन्तनमननादीनाम् आधारेण स्वस्य भाषया उत्तराणि सज्जीकरोति।

● केवलं परीक्षायां सन्निहितायां जागरणं कृत्वा अध्ययनं न करोति प्रत्युत आवर्षं सातत्येन अध्ययनं करोति।

यस्य यस्य बिन्दोः छात्रे विकासः परिलक्ष्यते तस्य तस्य अग्रे अस्तिचिह्नं (√) लिख्यते। एतेन छात्रस्य स्वाध्यायप्रवृत्तेः विकासस्य विषये शिक्षकः सम्यक् ज्ञानं प्राप्नोति।

आ) पदनिश्चयन-श्रेणी (Rating Scale)-- अमुकगुणविषये छात्रस्य का स्थितिः अस्ति तस्य निदर्शनाय गुणस्य न्यूनाधिक्यं दर्शयन्ती काचन श्रेणी निर्मीयते। उदाहरणार्थं छात्रः वर्गे चर्चायां कियत् सहभागं ददाति एतद्विषये पञ्च स्तराः एवं दर्शयितुं शक्याः–

चर्चायां छात्रस्य सहभागः –

● किञ्चिदपि नास्ति

● क्वचित्

● यदा-तदा (√)

● बहुधा

● निरन्तरम्

वर्णनात्मिका पदनिश्चयन-श्रेणी

श्रेणीमध्ये यत् छात्रस्य स्थानं तत्र अस्तिचिह्नं लिख्यते।

उपरिदत्तानां क्वचित्, तदा-तदा इत्यादिशब्दानाम् अर्थं प्रत्येकं परीक्षकः स्वस्वमत्यनुसारं स्वानुभवानुसारं च गृह्णीयात्। अतः पदनिश्चयने व्यक्तिनिष्ठतायाः सम्भवः। उदाहरणार्थं 'क्वचित्' इत्युक्ते कतिवारम् एतस्य निश्चयनं परीक्षकः स्वस्य मतानुसारमेव कुर्यात्।  एतां व्यक्तिनिष्ठतां निवारयितुं क्वचित्, बहुधा, तदा-तदा एवमेतेषाम् सन्देहास्पदनां पदानां प्रयोगं विहाय श्रेण्यां विद्यमानस्य प्रत्येकं बिन्दोः स्तरस्य वा वर्णनं क्रियते।

उदाहरणार्थं छात्रः वर्गचर्चायां कियता प्रमाणेन सहभागं स्वीकरोति—

● सहभागं अस्वीकृत्य केवलं शृणोति।

● प्रेरितः चेदेव सहभागं गृह्णाति।

● इतरैः तुल्यमेव भागं गृह्णाति।

● बहुवारं भागं स्वीकरोति।

● इतरछात्रेभ्यः अधिकं सहभागं दर्शयति।

इ) प्रासङ्गिकलेखा (Anecdotal Records)--विशिष्टप्रसङ्गे छात्रस्य वर्तनं निरीक्ष्य शिक्षकः तद्विषये स्वस्य अभिप्रायं लिखति। उदाहरणार्थं–

१२ मार्च २०२२– दशमकक्ष्यायाः छात्रेषु कलहः उद्भूतः। तत्र रमेशेन नेतृत्वगुणं प्रदर्श्य कलहायमानयोः द्वयोः छात्रगणयोः मनोमेलनं सम्पादितम्। एतेन लक्ष्यते यत् रमेशः उत्तमः नेता।

आत्मकथनम् (Self-report Technique)-- केवलं बहिष्टात् निरीक्षणं कृत्वा छात्रस्य वैयक्तिकसमस्याः, भावनिकविकासः, तस्य इच्छाः एतेषां ज्ञानम् अशक्यम्। अतः तदर्थं आत्मकथनात्मकतन्त्रस्य उपयोगः भवति। एतस्मिन् तन्त्रे पुरोदत्तानि साधनानि उपयुज्यन्ते–

अ) साक्षात्कारः (Interview)-- छात्रेण सह सम्भाषणं कृत्वा , तं व्यक्तिगतप्रश्नान् पृष्ट्वा तस्य विषये वैयक्तिकं संज्ञानं प्राप्तुं शक्यते।

आ) समस्या-सूचिः (Problem-inventory)-- छात्रस्य याः समस्याः सन्ति तासां कथनं सः साक्षात्कारे सञ्कोचात् न कुर्यात्। अतः तस्य सौकर्यार्थं सम्भाव्यसमस्यानाम् एका सूचिः निर्माय छात्राय दीयते। स्वस्य समस्यायाः अग्रे छात्रेण अस्तिचिह्नं लिख्यते। यथा–

● सत्वरं श्रान्तिः अनुभूयते।

● वारंवारं अस्वास्थ्यम् उद्भवति।

● गृहे स्वाध्यायार्थं स्थानं नास्ति। (√)

● परीक्षायाःभीतिः अनुभूयते।(√)

● सहाध्यायिनः उपहासं कुर्वन्ति।

इ) *व्यक्तिमत्त्व-प्रश्नावलिः* (Personality Inventory) – छात्रस्य स्वभाववैशिष्ट्यानि ज्ञातुम् एषा प्रश्नावलिः उपयुक्ता। तदनुगुणं पृष्टानां प्रश्नानाम् आम्/न एवंरूपाणि उत्तराणि छात्रेण लेखनीयानि। यथा–

● भवान् वारंवारं क्रुद्धः भवति– आम्/न

● स्वस्य कृत्यानां विषये वारंवारं पश्चात्तापम् अनुभवति– आम् /न

● भिन्नलिङ्गव्यक्तिना सह सहजतया मैत्री भवति–आम् /न

● कक्ष्यायां सर्वेषां पुरतः स्थित्वा भाषितुं भीतिः अनुभूयते –आम्/न

● मित्राणि मदपेक्षया सुखीनि एवं भाति–आम्/न

आत्माविष्कारः (Projective Technique)-- भीतिसञ्कोचवशात् छात्रः येषां भावनानां मतानां वा शिक्षकस्य पुरतः स्पष्टीकरणं कर्तुं न शक्नोति तेषां ज्ञानार्थम् एतत् तन्त्रम् उपयुक्तम्। अत्र छात्रः स्वस्य कृतिद्वारा अप्रत्यक्षरीत्या स्वस्य भावनाः प्रकटयति। एतदन्तर्गतानि साधनानि–

अ)  वाक्यपूर्तिः/कथापूर्तिः – कश्चित् अपूर्णवाक्यं/कथां दत्त्वा छात्राय तस्य पूर्त्यर्थम् आदिश्यते। यथा–

● मम पिता चिन्तयति यत् शाला नाम………

● मम वर्धापनदिनार्थं मम मित्राणि गृहम् आगच्छन्ति तदा……

● गणितस्य अध्यापकः वर्गं प्रविशति तदा…....

एतेषाम् अपूर्णवाक्यानां पूर्तिकरणसमये छात्रः स्वस्य भावनाः अनुभवाः एतेषाम् अबोधरीत्या आविष्कारं लेखने करोति।

आ) पाञ्चालिका-क्रीडा – छात्राय काश्चन पाञ्चालिकाः क्रीडनार्थं दीयन्ते। ताभिः सह क्रीडने स्वानुभवानुसारं तासां संवादं, प्रसङ्गान् वा रचयित्वा छात्रः अप्रत्यक्षरीत्या स्वस्य आत्मानं प्रकटयति।

इ) चित्रालेखः – यदृच्छया चित्रलेखनार्थम् अवसरः दीयते चेत् छात्रः चित्रद्वारा स्वस्य आन्तरं प्रकाशयति। उदाहरणार्थं यः छात्रः एकाकी तिष्ठति, यस्य मित्राणि न सन्ति सः गृहचित्रालेखे गृहस्य द्वाराणि गवाक्षान्  वा पिहितान् आलिखेत्।

ई)  दैनन्दिनी-–छात्रः दिने किं किम् अभवत् एतस्य लेखनं दैनन्दिन्यां करोति चेत् तस्य लेखने तस्य भावनाः विचाराः वा प्रकटीभवन्ति।

समाजमितिः (Sociometry)---

छात्रविषये अन्ये सामाजिकाः किं चिन्तयन्ति, तैः सह छात्रस्य सम्बन्धः कीदृशः एतस्य ज्ञानार्थमेतत् तन्त्रम् उपयुक्तम्। तदन्तर्गतम् एते साधने उपयुज्येते–

अ) कः एषः? (Guess Who?)--

कानिचनवर्णनानि छात्रस्य पुरतः उपस्थाप्य तद्वर्णनानुगुणं कस्य अन्यछात्रस्य नाम एषः लिखति तदनुसारं छात्राणां परस्पराभिप्रायं वयं ज्ञातुं शक्नुमः। यथा—

● कक्ष्यायां मितभाषी, क्वचिदेव सम्भाषमाण: --------

● सततं कलहं करोति सः --------

आ) नामनिर्देशनम् (Nominating )--- कक्ष्यायां छात्राणां गणाः सन्ति। एते गणाः कीदृशाः कः छात्रः स्वस्य समायोजने असफलः इत्यादिप्रश्नानाम् उत्तराणि ज्ञातुम् एतत्साधनम् उपयुक्तम्। यथा–

● उद्यानकार्ये भवान् एतैः सह कार्यं कार्यं कर्तुम् इच्छति—--,-------,------ एतैः सह कार्यं कर्तुम् इच्छा नास्ति—----, —---, —----।

एतेषु सर्वेषु तन्त्रेषु केचन गुणाः केचन दोषाश्च सन्ति। अतः छात्रस्य यथायोग्यमूल्यमापनाय एतेषां सर्वेषां तन्त्राणाम् साकल्येनउपयोगः आवश्यकः भवति। नवशिक्षानीतौ छात्रस्य ३६०° मूल्यमापनं प्रस्तावितम्। तत् करणीयं चेत् केवलं प्रचलितपरीक्षाधारेण तत्कर्तुं न शक्यम्। तदर्थं गुणात्मकतन्त्राणामपि यथाशक्यम् उपयोगः आवश्यकः। तेन एव छात्रस्य प्रगतिविषये स्थितिविषये वा योग्यं मानचित्रं शिक्षकाणां पालकानां च पुरतः उपस्थितं भवेत्।