सर्वमेव परित्यज्य शरीरमनुपालयेत्।
शरीरस्य प्रणष्टस्य सर्वमेव विनश्यति।।१।।
अन्यत्सर्वं विहाय शरीरस्य पालनं करणीयम्। यतः शरीरं यदि नश्यति तर्हि सर्वमेव विनष्टं भवति।
माणसाने बाकी सगळे सोडून शरीराचे रक्षण करावे. शरीर नष्ट झाले तर सगळेच नाहीसे होते. ते नसेल तर मग काहीच नाही.
धर्मार्थकाममोक्षाणां शरीरमाद्यसाधनम्।
शरीरे भस्मसाद्भूते चतुर्वर्गः समाप्यते।।२।।
धर्मः, अर्थः, कामः, मोक्षः च एतेषां चतुर्विधपुरुषार्थानां प्राप्तये शरीरमेव प्रथमं साधनम्। यदा देहः भस्मसात् भवति तदा एषः चतुर्विधः पुरुषार्थः अपि समाप्तिं गच्छति।
धर्म, अर्थ, काम आणि मोक्ष चार या पुरुषार्थांच्या प्राप्तीचे शरीर हेच पहिले साधन आहे. शरीर भस्मसात् झाल्यावर हा चतुर्वर्ग सफल होण्याची शक्यताच संपते.
तेन जन्म पुनः मृत्युः शिष्टभोगस्य प्राप्तये।
अनन्तक्लेशसन्तानः गर्भावासः ध्रुवं पुनः।।३।।
तेन अवशिष्टभोगानां प्राप्त्यर्थं जीवः पुनः जन्म पुनश्च मृत्युः प्राप्नोति। अपि च अनन्तकष्टानां विस्तररूपः गर्भे वासः तेन निश्चितमेव प्राप्तः भवति।
त्यामुळे शिल्लक राहिलेल्या भोगांच्या प्राप्तीसाठी पुन्हा जन्म, पुन्हा मृत्यू आणि अनंत क्लेश वाढवणारा गर्भवास नक्कीच भोगावा लागतो.
अतः देहः तथा कुर्याच्चतुर्वर्गो यतः फलेत्।
देहस्य रक्षणं तस्मात्सदैव काङ्क्ष्यते बुधैः।।४।।
अतः चतुर्वर्गः येन सफलीभवेत् तथा देहस्य रक्षणपालनादिः कर्तव्यम्। एतेन कारणेन बुद्धिमन्तः जनाः देहं सदैव रक्षितुम् इच्छन्ति।
म्हणून देहाची अशी काळजी घ्यावी की ज्यामुळे चार पुरुषार्थांची प्राप्ती होऊ शकेल. या कारणास्तव बुद्धिमान लोक सदैव देहाच्या रक्षणाची इच्छा करत असतात.