पस्पशाह्निकम्--११

 

अप्रयुक्तशब्दविचार:।

व्याकरणं प्रयोगमूलं शास्त्रम्। तेन येषां प्रयोग: न भवति तादृशानां शब्दानां व्याकरणे विवेचनं न युज्यते इति आक्षेप:। यदि व्याकरणे तत्क्रियते तर्हि तस्य प्रामाण्यं सन्दिग्धम्।

आक्षेपक: वदति–
केचन अप्रयुक्ता: शब्दा: सन्ति यथा ऊष, तेर , पेच, चक्र एवामादय:। प्रयोगात् हि शब्दानां साधुत्वं वैयाकरणा: अध्यवस्यन्ति। यत: एतेषां प्रयोगा: न दृश्यन्ते अत: एते प्राय: असाधुशब्दा एव स्यु:। तथापि व्याकरणं एतेषामपि अन्वाख्यानं करोति। तेनास्य शास्त्रस्य प्रामाण्यं सन्दिह्यते इति अस्माकम् आक्षेप:।

वैयाकरण:--
अप्रयुक्ता: शब्दा: सन्ति इति यद् भवता उक्तं तस्मिन् परस्परविरोध: अस्ति। प्रयोगेणैव शब्दानाम् अस्तित्वं ज्ञायते। यदि अप्रयुक्ता: तर्हि ते अस्तित्वहीना: स्यु:। तद्वैपरीत्येन यदि ते सन्ति तर्हि तेषां प्रयोग: भवेत् एव। अत: 'शब्दा: सन्ति तथापि न प्रयुज्यन्ते' इति कथनं केवलं वदतो व्याघात: एव। आक्षेपकार: भवान् स्वयमेव एतान् शब्दान् प्रयुज्य पुन: तान् अप्रयुक्तान् कथयिष्यति एतद् उपहासास्पदम्। भवादृश: क: अन्य: पुरुष: एवं शब्दानां प्रयोगे समर्थ: स्यात्? 

आक्षेपक:--
वयं न वदाम: यत् एते अस्माभि: अप्रयुक्ता: इति यत: एतेषां प्रयोगं वयं कुर्वन्त: स्म:। तथापि एते लोके अप्रयुक्ता: सन्ति इति अस्माकम् अभिप्राय: अस्ति। 

वैयाकरण: –
तथापि भवान् तु तस्मिन् लोके एव तिष्ठति खलु यस्मिन् शब्दा: अप्रयुक्ता: सन्तीति भवत: अभिप्राय:?

आक्षेपक:-- वयं लोके स्म: नाम तथापि वयं तु लोक: न।

तस्य आक्षेपस्य निराकरणार्थं वार्त्तिकमिदम् उपस्थापयति पतञ्जलिरिचार्य:--

अस्त्यप्रयुक्त: इति चेन्न अर्थे शब्दप्रयोगात्। (वा २)

अप्रयुक्ता: शब्दा: सन्ति इति भवत: वचनं न योग्यं यत: विशिष्टे अर्थे एव शब्दस्य प्रयोग: भवति। लोके एतादृशानां शब्दानाम् अर्थ: एव न अभविष्यत् चेत् तेषाम् अप्रयुक्तत्वस्य अभ्युपागम: योग्य: अभविष्यत्। तथापि एतेषां शब्दानां अर्था: सन्ति एव। 

आक्षेपक:-- तर्हि लोके एतेषां शब्दानां प्रयोग: कथं न दृश्यते?

वैयाकरण: अप्रयोगस्य कारणानि दर्शयन्नाह–

अप्रयोग: प्रयोगान्यत्वात्। (वा ३)

 एतेषां लोकव्यवहारे प्रयोग: न दृश्यते यत: तेषाम् ये अर्था: तेषु अर्थेषु अन्यविधानां शब्दानां प्रयोग: लोके क्रियते। ऊष चक्र तेर पेच एतानि अनुक्रमेण वस् , कृ, तॄ , पच् एतेषां धतूनां लिट् लकारस्य मध्यमपुरुषबहुवचनानि। तथापि लोके एतेषां स्थाने उषित, कृतवत्, तीर्ण, पक्ववत् एतेषां क्तक्तवतु प्रत्ययान्तानाम् उपयोगं कृत्वा जना: ‘क्व यूयम् उषिता:, कृतवन्त:,तीर्णा:, पक्ववन्त:’ एवं वदन्ति।

अप्रयुक्ते दीर्घसत्रवत् । (वा ४)

एवं जनै: अन्यविधप्रयोगोपादानात् ऊषादय: लोके न प्रयुज्यन्ते तथापि ते व्याकरणशास्त्रे अन्वाख्यायन्ते। यथा पूर्वं वार्षशतिकानि वार्षसाहस्रिकाणि दीर्घाणि यज्ञसत्राणि चाल्यन्ते स्म इति श्रूयते। सामर्थ्याभावात् इदानीं तादृशसत्राणाम् आयोजनं न क: अपि करोति। तथापि तेषाम् अन्वाख्यानेन ऋषिसम्प्रदाय: पालित: भवति तेन च धर्म: भवति इति मत्वा याज्ञिका: एतेषां विषये पठन्ति तथैव अस्मिञ्छास्त्रेपि धर्मार्थमेव एतेषां शब्दानाम् अन्वाख्यानं क्रियते।

सर्वे देशान्तरे। (वा ५)

पुनश्च एते शब्दा: देशान्तरे तु उपयुज्यते एव लोके। यदि भवता नोपलभ्यन्ते तर्हि उपलब्ध्यर्थं प्रयत्ना: विधेया:। शब्दप्रयोगस्य क्षेत्रं महत्तमम्। सप्तद्वीपा इयं वसुन्धरा, त्रयो लोका:, चत्वार: वेदा:, षट् वेदाङ्गानि, बह्व्य: उपनिषद: च सन्ति। पुनश्च अध्वर्युवेदस्य (यजुर्वेदस्य) एकशतम् सामवेदस्य एकसहस्रम्, बाह्वृच्यस्य (ऋग्वेदस्य) एकविंशति:, तथा अथर्ववेदस्य नव शाखा: सन्ति। ततश्च इतिहास:, वाकोवाक्यं (प्रश्नोत्तररूपग्रन्था:), पुराणानि , वैद्यकम् इत्यादीनि अपि शब्दानां क्षेत्राणि। एतस्य समग्रस्य वाङ्मयस्य अध्ययनम् अकृत्वा एव ‘शब्दा: अप्रयुक्ता: सन्ति’ इति वदनं केवलं अस्थाने साहसमात्रमेव।

पुनश्च शब्दप्रयोगस्य क्षेत्रम् एतावत् महत् वर्तते यत् केषाञ्चन शब्दानां प्रयोग: केवलं विशिष्टविशिष्टक्षेत्रे अथवा भौगोलिकस्थाने एव दृश्यते। तथा हि– शव् इत्येष: धातु: कम्बोजदेशे गतौ उपयुज्यते परम् आर्यास्तु मृतदेहस्य कृते शवशब्दम् उपयुज्यन्ते। हम्म् इति धातु: सुराष्ट्रे रंह् इति धातुश्च प्राच्यदेशे तथा मध्यदेशेपि गतौ प्रयुज्यते तथापि आर्या: तु गतिनिदर्शनाय प्रायेण गम् धातो: उपयोगं कुर्वन्ति। दाति इति लवनार्थे प्राच्येषु उपयुज्यते लवनसाधनार्थं दात्रम् इति उदीच्येषु उपयुज्यते। 

अपरं च यान् शब्दान् भवान् अप्रयुक्तान् इति उक्तवान् तेषामपि प्रयोग: वेदे तु दृश्यते एव। यथा– ‘सप्तास्ये रेवती रेवदूष।’