पस्पशाह्निकम्--१३

 

व्याकरणपदस्य अर्थ:--

व्याक्रियन्ते असाधुशब्देभ्य: विविच्य साधुशब्दा अनेन इत्यर्थे वि तथा आङ् उपसर्गपूर्वात् कृधातो: ल्युट् (अन) प्रत्यये कृते व्याकरणशब्द: सिध्यति। 

पाणिनि: व्याकरणं सूत्ररूपेण रचितवान्। तेन व्याकरणेन साधुशब्दानां ज्ञानं भवति। शास्त्रेस्मिन् सूत्राणि तथा च उदाहरणप्रत्युदाहरणाध्याहारस्वरूपं तेषां व्याख्यानम् एतस्य सर्वस्य समावेश: भवति। तर्हि व्याकरणपदेन सूत्राणि उत साधुशब्दा: अथवा उभयमपि निर्दिष्टं भवति इत्यत्र सन्देह:।

विषयेस्मिन् त्रय: पक्षा:--
अ) सूत्राणि नाम व्याकरणम्।
आ) साधुशब्दा: व्याकरणम्।
इ) साधुशब्दा: (लक्ष्यं) सूत्राणि (लक्षणं) इति उभयविधं व्याकरणम्। एतेषु त्रिष्वपि ये गुणदोषा: तेऽत्र विविच्यन्ते।–

अ) ‘सूत्राणि एव व्याकरणम्’ इत्यस्मिन् पक्षे दोषद्वयम् उपतिष्ठते–
१) सूत्रे व्याकरणे षष्ठ्यर्थोऽनुपपन्न: (वा १०)-- सूत्रविषये ‘व्याकरणस्य सूत्रम्’ एवं षष्ठीविभक्त्या निर्देशो भवति। षष्ठ्या: अर्थ: सम्बन्धसामान्यम्। तस्य कृते ययो: सम्बन्ध: अस्ति तौ द्वौ भिन्नौ पदार्थौ आवश्यकौ। यथा ‘राज्ञ: पुरुष:’ इत्युक्ते राजा तथा च पुरुष: एतौ द्वौ भिन्नौ स्त: इति भानं भवति। तयो: मध्ये य: स्वामिसेवकभाव: स: षष्ठ्यर्थ:। सूत्रम् एव व्याकरणम् इति वदाम: चेत् उभयो: अभेद: भवति। अत: पुन: अभिन्नस्य विषये ‘व्याकरणस्य सूत्रम्’ एवं षष्ठीनिर्देश: नोपपद्यते। तत्तु ‘मनुष्यस्य पुरुष:’ इति कथनवत् हास्यास्पदं भवेत्।

पतञ्जलिराह–नैष दोष:। अत्रत्य: षष्ठ्यर्थ: व्यपदेशिवद्भावेन तिष्ठतीति अङ्गीक्रियताम्। यथा मस्तकमेव राहु: तथापि ‘राहो: मस्तकम्’ इत्युच्यते षष्ठ्यन्तेन।

२) शब्दाप्रतिपत्ति: (वा ११)-- यदि सूत्राण्येव व्याकरणम् इति वदामश्चेत् शब्दानां प्रतिपत्ति: ज्ञानं तेन न भवेत्। कुत:? ‘वृद्धिरादैच्’ इत्यादिषु सूत्रेषु केवलं ‘वृद्धि:, आत् ,ऐच्’ एवं विग्रहं कृत्वा अर्थज्ञानं न भवति। तदर्थम् उदाहरणानि, प्रत्युदाहरणानि, अध्याहारश्च एतद्रूपं व्याख्यानमेव आवश्यकम्। आकार: दीर्घौ च ऐकार-औकारौ वृद्धिसंज्ञौ इति सूत्रार्थ:। तस्य स्पष्टीकरणार्थं शालीय:, ऐतिकायन: औपगव: इत्यादीनि उदाहरणानि प्रस्तूयन्ते।

भाष्यकार: वदति न अत्रापि दोष:। सूत्रत: एव शब्दान् प्रतिपद्यन्ते। वृद्धि: आत् ऐच् इति पदच्छेदे कृते एतेभ्य: चर्चापदेभ्य: एव बुद्धिमन्त: आकार: दीर्घौ च ऐकार-औकारौ वृद्धिसंज्ञा: इति अवगच्छन्ति। ये मन्दबुद्धय: तेषां कृते उदाहरण-प्रत्युदाहरण-अध्याहाररूपं व्याख्यानम् आवश्यकं भवति।

आ) एवं तर्हि ‘शब्दा: व्याकरणम्’ एवं भवतु। तथापि अत्रापि दोषद्वयम्–
१) शब्दे ल्युडर्थ: (वा १२) --व्याकरणशब्दस्य घटनायां य: ल्युट् (अन) प्रत्यय: तस्यार्थ: करणम् इति। अत: येन साधनभूतेन शास्त्रेण शब्दा: प्रकृति-प्रत्ययविभागं दर्शयित्वा असाधुशब्देभ्य: व्याक्रियन्ते विविच्यन्ते (पृथक् दर्श्यन्ते) तद् व्याकरणम् इति अर्थ: प्राप्यते। शब्द: एतस्य शास्त्रस्य न साधनं यत: तत् व्याकरणस्य कर्म अस्ति। अत: ‘शब्द: एव व्याकरणम्’ इत्यभ्युपगमे कृते व्याकरणशब्दे य: ल्युट् तस्यार्थ: न सङ्गत: भवति। 

एतं दोषं निराकुर्वन् पतञ्जलिराह– ल्युट् प्रत्यय: करणार्थ: एव इति न नियम:। ‘कृतल्युटो बहुलम्’ इत्यत्र बहुलग्रहणात् अन्यान्यपि कारकाणि ल्युट: अर्था: भवितुं शक्यन्ते। यथा प्रस्कद्यते यस्मात् तत् प्रस्कन्दनम् प्रपत्यये यस्मात् तत् प्रपतनम् एतयो: प्रस्कन्दनप्रपतनशब्दयो: य: ल्युट् तस्यार्थ: अपादनम्।

अत: शब्दरूपं कर्म अपि तस्यार्थ: भवेत् इत्यत्र न प्रत्यवाय:।

 शब्दै: अन्ये शब्दा: व्याक्रियन्ते विविच्यन्ते इत्यभ्युगमे करणार्थ: अपि न शब्दविषये अस्थाने भवति। यथा गौ: इत्युच्चारिते नाश्व: न गर्दभ: एवं अश्वगर्दभादय: पदार्था: निवर्तन्ते गौ: इत्यर्थ: सन्देहरहित: प्रतीयते।

२) भवे च तद्धित: (वा १३)--व्याकरणशब्दात् ‘तत्र भव:’ (तस्मिन् भवति स:) इत्यनेन सूत्रेण अण् इति तद्धितप्रत्ययं कृत्वा वैयाकरणशब्द: सिध्यति। य: सूत्राणि वेत्ति अधीते वा स: वैयाकरण: इति उच्यते। शब्दा एव व्याकरणम् इति अभ्युपगमे कृते एष: तत्र भव: इति सूत्रेण कृत: तद्धितप्रत्यय: न सङ्गच्छते। य: साधुशब्दान् जानाति स: वैयाकरण: इति न वदन्ति। 

३) प्रोक्तादयश्च तद्धिता: (वा १४) --‘तेन प्रोक्तम्’ इत्यनेन सूत्रेण ‘छ’ प्रत्ययं कृत्वा पाणिनिना प्रोक्तं पाणिनीयम् , आपिशलिना प्रोक्तम् आपिशलम् , काशकृत्स्निना प्रोक्तं काशकृत्स्नम् इत्यादय: शब्दा: सिध्यन्ति। पाणिनिना सूत्राणि प्रोक्तानि न तु शब्दा:। अत: ‘शब्दा: व्याकरणम्’ इत्यभ्युपगमे कृते ‘तेन प्रोक्तम्’ इत्यर्थ: तद्धितप्रत्यय: न सङ्गच्छते।

४) ‘तत्र भव:’ इत्यनेन अण् इति तद्धितप्रत्यय: विधीयते पुनश्च ‘तेन प्रोक्तम्’ इत्यनेनापि छ इति तद्धितप्रत्यय: एव। वार्त्तिककार: तद्धितप्रत्यय: न सङ्गच्छते इति एव उभयत्र दर्शयितुम् इच्छति। अत: तयोरेकेनैव कार्यम् असेत्स्यत् तर्हि कुत: वृथा अभिहितस्य अभिधानम्? 

एतस्य समाधानमेवम्– तत्र भव: इत्यनेन कृतस्य अण् इति प्रत्ययस्य अर्थ: न सङ्गच्छते इति दर्शयन् आचार्य: ‘भवे च तद्धिते’ एवं वार्त्तिकं कृतवान्। पुनश्च तेन अग्रे ‘तेन प्रोक्तम्’ इत्यनेन क्रियमाण: छ प्रत्यय: अपि न चरितार्थ: भवतीति लक्षितम्। एकवारं कृतं सूत्रं आचार्या: न निवर्तयन्ते अत: अभिहिताभिधानरूपं दोषं स्वीकृत्यापि द्वे वर्त्तिके आचार्येण रचिते।

इ) सूत्रं वा शब्द: वेति व्याकरणपदस्य अर्थ: इति स्वीकरणे दोषा: सन्ति। इदानीं तृतीयं पक्षम् उपस्थापयन् आचार्य: वदति–लक्ष्यलक्षणे व्याकरणम् (वा १५) इति। लक्ष्यं शब्द: लक्षणं सूत्रम्। शब्द: तथा तत्प्रतिपादकं सूत्रम् एतयो: समुदाय: व्याकरणम् इति फलितार्थ:।

अस्मिन्नपि अभ्युपगमे दोष: अस्त्येव। सूत्रशब्दयो: समुदायस्य नाम व्याकरणम्। अत: केवलं सूत्रं वा केवलं शब्द: वा व्याकरणम् इति नाम्ना निर्देशं न अर्हति यत: समुदाये प्रवृत्त: शब्द: तस्य अवयवनिर्देशाय नोपयुज्यते। तथापि य: केवलं सूत्राणि अधीते वेत्ति वा स: वैयाकरण: इत्युच्यते एतदसङ्गतम्।

पतञ्जलि: वदति नैष: दोष:। समुदाये प्रवर्तमान: शब्द: अवयवेपि प्रवर्तते यथा– पञ्चाला: इति जनपदस्य नाम तस्य पूर्वोत्तरावयावानां समूहस्य दर्शकम्। तथापि पूर्वे पञ्चाला: उत्तरे पञ्चाला: एवं पञ्चालजनपदस्य अवयवेपि स: शब्द: प्रवर्तते। तैलं भुक्तम्, घृतं भुक्तम् इत्यादय: शब्दा: औषधमिश्रिततैलार्थं घृतार्थं चोपयुज्यन्ते। अत्र अवयववाचकशब्द: समुदायं दर्शयति। पुनश्च शुक्ल: नील: कपोत: कृष्ण: एते वर्णस्य आधिक्यं दर्शयन्त: अवयववाचका: शब्दा:। ते सम्पूर्णवस्तुन: निर्देशार्थम् उपयुज्यन्ते शुक्ल: मेघ: इत्यादि।

एवं लक्ष्यलक्षणे व्याकरणम् इति स्वीकृते ‘तत्र भव:’, ‘तेन प्रोक्तम्’ इत्यादिभि: सूत्रै: उक्ता: तद्धितप्रत्यया: अपि व्याकरणविषये चरितार्था: भवन्ति इत्यत: ‘लक्ष्यलक्षणे व्याकरणम्’ इत्येव सर्वसमावेशक: अभ्युपगम:।