
हिन्दुधर्मे सर्वं जगत् शिवशक्त्योः अभिव्यक्तिरिति मन्यते। निष्कलं निर्गुणं ब्रह्म शिवः तथा च विश्वनिर्मितये उन्मुखं तदेव ब्रह्म शक्तिः। शक्तिः जगतः प्रसवित्री अतः जगन्मातुः शक्तेः पूजनस्य महत्त्वम् अनन्यसाधारणम्।
एकस्मिन् संवत्सरे चतुर्वारं शुक्लप्रतिपदातः नवमीपर्यन्तं नवसु रात्रिषु देव्याः पूजनं भवति। एतत् पूजनपर्व नवरात्रम् इति नाम्ना विख्यातम्।
पौषः, चैत्रः, आषाढः, तथा च आश्विनः एतेषु चतुर्षु मासेषु नवरात्रिपर्व विद्यते। तेषु सर्वेषु आश्विन-नवरात्रस्य अथवा शारद-नवरात्रस्य महत्त्वम् अधिकम्।
महिषासुरनामकः कश्चन असुरः ब्रह्मदेवस्य वरेण महाशक्तिमत्त्वं प्राप्तवान्। ततः सः देवान् पराजयत्। सर्वे देवाः ब्रह्मविष्णुशङ्करान् आराध्यन्त। तदा त्रयः देवाः स्वस्वशक्तिं प्रदाय दुर्गायाः सृजनं कृतवन्तः। अन्येपि देवाः दुर्गायै स्वशक्तिम् स्वायुधानि च दत्तवन्तः।
तदनन्तरं महिषवेषधारिणा असुरेण सह आश्विनशुद्धप्रतिपदातः दशमीपर्यन्तं दश दिनानि यावत् घोरं युद्धं कृत्वा दशमे दिने दुर्गया सः असुरः मारितः। ततः सा 'महिषासुरमर्दिनी' इति नाम्ना विख्याता अभवत्। दुष्टान् सा विजितवती। अतः दशमं दिनं 'विजयादशमी' इति नाम्ना प्रसिद्धम् अभवत्। अतः एतेषु नवसु दिनेषु दुर्गायाः पूजनस्य विधानं शास्त्रेण क्रियते।
ब्रह्मविष्णुशङ्कराणां शक्तीनां संहननेन यद्यपि दुर्गायाः उत्पत्तिः जाता आसीत् तथापि वस्तुतः जगत्कारणस्य निर्गुणशिवस्य शक्तिरेव पार्वती दुर्गारूपेण आविरभूत्। अतः एतासु नवसु रात्रिषु पार्वत्याः नव रूपाणि क्रमशः पूज्यन्ते। तानि एवं सन्ति---
१) शैलपुत्री-- भगवान् शिवः तस्य श्वशुरेण प्रजापतिना दक्षेण यज्ञार्थं न आहूतः। शिवस्य पत्नी सती आमन्त्रणं विनैव स्वस्य पितुः गृहं गतवती। तत्र स्वपित्रा दक्षेण कृतम् शिवस्य अपमाननम् असहमाना सा यज्ञकुण्डे आत्मानं समर्प्य प्राणत्यागम् अकरोत्।
तदनन्तरं सा हिमाचलस्य तथा च मेनायाः पुत्रीरूपेण जन्म प्राप्तवती। सा एव शैलपुत्री अथवा पार्वती। एतत् शक्तेः बाल्यस्वरूपम्।
२) ब्रह्मचारिणी-- जन्मनः आरभ्य शिवस्य विषये सा भक्तिमती आसीत्। प्राप्तवयस्का सा शिवमेव पतिरूपेण ऐच्छत्। शिवं प्राप्तुं सा घोरं तपः आचरत्। अतः एतत् पार्वत्याः तपोनिरतं रूपम्।
३) चन्द्रघण्टा-- तस्याः घोरतपसा शिवः प्रसन्नः अभवत्। शिवपार्वत्योः विवाहात् अनन्तरं भगवती शिवः इव चन्द्रमसम् अलङ्काररूपेण शिरसि अधारयत्। अतः सा चन्द्रघण्टा इति नाम्ना विख्याता अभवत्।
४) कूष्माण्डा-- मानवरूपेण जन्म प्राप्तवती पार्वती अनन्तरं शिवस्य अनुग्रहेण स्वस्य महाशक्तिस्वरूपम् प्रत्यभ्यजानात्। अहं जगतः निर्मात्री महाशक्तिः सम्पूर्णं ब्रह्माण्डं स्वस्य उदरे धारयामि इति सा ज्ञातवती। तेन सा कूष्माण्डा इति नाम्ना प्रथिता।
५) स्कन्दमाता-- शिवस्य रेतसा स्कन्दस्य अथवा कार्तिकेयस्य जन्म अभवत्। एषः गणेशस्य अनुजः। स्कन्दमाता इत्येतत् पार्वत्याः मातृस्वरूपम्।
६) कात्यायनी-- ब्रह्मविष्णुशङ्कराणां शक्तीनां मेलनेन जनिता दुर्गा कात्यायनर्षिद्वारा पूजिता अभवत् अतः सा कात्यायनीनाम्ना प्रसिद्धा। सा महिषासुरस्य वधं कृतवती। एतत् देव्याः घोररूपं युद्धोद्यतम्।
७) कालरात्रिः-- एषा संहारकारिणी देवी। एतत् देव्याः संहारोन्मुखं भयोत्पादकं रूपम्। एषा कालदेवता अथवा मृत्युदेवता इत्यपि वदन्ति।
८) महागौरी-- असुरनाशार्थं धृतं कालीरूपं त्यक्त्वा यदा देवी स्वस्वरूपं प्राप्तवती तदा सा कृष्णवर्णा एव आसीत्। ब्रह्मणः उपदेशेन सा गङ्गायां स्नानं कृत्वा गौरवर्णं पुनः प्राप्तवती। अतः सा महागौरी इति कथ्यते।
९) सिद्धिदात्री-- एतत् पार्वत्याः सिद्धिदायकं मनोकामनापूरकं रूपम्। एतस्याः प्रसादेन अणिमादयः अष्टसिद्धयः करतलामलकवत् प्राप्यन्ते।
एतेषु नवसु दिनेषु देव्याः पूजनं कृत्वा वयमपि अनुग्रहार्थं तां प्रार्थयामहे।