पस्पशाह्निकम्--७

 


व्याकरणाध्ययनस्य गौणप्रयोजनानि-१

पञ्च मुख्यप्रयोजनानि विहाय पतञ्जलिना अन्यानि त्रयोदश गौणप्रयोजनान्यपि उक्तानि सन्ति। तानीमानि–

१) अपशब्दोच्चारणात् म्लेच्छत्वम् मा प्राप्नुयाम-- ये अपशब्दान् प्रयुज्यन्ते ते म्लेच्छा: सन्ति। यथा असुरा: 'हेऽरय:, हेऽरय:' इति वक्तव्ये सति प्रमादात् 'हेलय:, हेलय:' इति अवदन् सङ्ग्रामे परास्ता: च अभवन्। एवमपशब्दोच्चारणेन म्लेच्छत्वं न प्राप्नुयाम इत्यर्थं व्याकरणाध्यनस्य आवश्यकता।

२) दुष्टशब्दोच्चारणात् विपरीतफलं मा भवेत् --

उक्तं च–
दुष्ट: शब्द: स्वरतो वर्णतो वा मिथ्याप्रयुक्त: न तमर्थमाह।
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रु: स्वरतोऽपराधात्।।

त्वष्टा नाम कश्चन असुर: आसीत्। तस्य पुत्र: इन्द्रेण हत:। अत: वैरप्रत्ययायनाय त्वष्ट्रा अभिचारयागेण इन्द्रं घातयितुं प्रवृत्त:। तस्मिन्यागे ‘स्वाहेन्द्रशत्रुर्वर्धस्व’ इति मन्त्रस्य प्रयोजने इन्द्रशत्रु: इति शब्दे अन्तोदात्ते पठितव्ये तेन प्रमादात् स: आद्युदात्त: पठित:। शत्रुशब्दस्य अत्रत्योर्थ: शातयिता, मारयिता वा। अन्तोदात्तत्वे स: तत्पुरुषसमास: भवति तस्यार्थ: इन्द्रस्य शत्रु: नाम घातयिता। तथापि आद्युदात्ते पठिते बहुव्रीहि: भवति – इन्द्र: यस्य घातयित: तादृश: इति अर्थ:। 

प्रामादिकपठनेन य: यज्ञात् समुत्पन्न: वृत्र: स: इन्द्रेण सङ्ग्रामे हत:। एवं दुष्टशब्दोच्चारणेन विपरीतस्य फलस्य प्राप्ति: मा भवेत् एतदर्थं पठितव्यं व्याकरणम्।

३) अध्ययनं निरर्थकं निष्फलं मा भवेत्–

यदधीतमविज्ञातं निगदेनैव शब्द्यते।
अनाग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित्।।

यद् अधीतं तस्य अर्थविज्ञानं स्यात् चेत् तदध्ययनं सफलं भवति। अर्थम् अविज्ञाय यदि पठितं केवलं मुखेन उच्चार्यते तर्हि तत् अग्ने: अभावात् यथा शुष्काणि काष्ठानि निरुपयोगीनि भवन्ति तथैव निष्फलं भवति। अत: अध्ययनय् निरर्थकं मा भूत् इत्यर्थं व्याकरणं पठनीयम्।

४) अपशब्दप्रयोक्ता अधर्मं प्राप्नोति–

यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान् यथावत् व्यवहारकाले।
सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद् दुष्यति चापशब्दै:।।

एष: कात्यायनेन पठित: भ्राजा नाम श्लोक:। य: कुशल: शब्दवेत्ता व्यवहारे योग्यरीत्या शब्दान् उपयुज्यते स: सर्वत्र जयं प्राप्नोति। तथापि य: अवाग्योगवित् अस्ति, शब्दप्रयोगे निष्णात: न अस्ति स: अपशब्दानां प्रयोगेण अधर्मं प्राप्नोति पापीयान् च भवति।

५) शिष्टाचारप्रयोगे स्त्रीवत् मा भवाम-

अविद्वांस: प्रत्यभिवादे नाम्नो ये न प्लुतिं विदु:।
कामं तेषु तु विप्रोष्य स्त्रीष्विवायमहं वदेत्।।

स्वज्येष्ठानभिवादयन् ‘अभिवादये देवदत्तोऽहं भो:’ इत्यादि उच्चार्यम्। तस्य प्रत्यभिवादने ज्येष्ठेन ‘आयुष्मान् भव देवदत्त३!!’ इत्यादि उच्चार्यते। तत्र देवदत्तादिनाम्नाम् अन्तिमस्वर: प्लुत: उच्चारणीय: इति शिष्टाचार:। एतं शिष्टाचारं स्त्रिय: न जानन्ति इत्यत: तेषां पुरत: स्वनाम्न: उच्चारणं विनैव केवल ‘अयम् अहम्’ एवं ब्रूयात् इति मन्वादय:।

अभिवादात् परं विप्रो ज्यायांसमभिवादयन्।
असौ नामाहमस्मीति स्वं नाम परिकीर्तयेत्।।

नामध्येयस्य ये केचिदभिवादं न जानते।
तान्प्राज्ञोऽहमिति ब्रूयात् स्त्रिय: सर्वास्तथैव च।।

वयमपि स्त्रीसदृशा: शिष्टाचारम् अजानाना: मा भवेम इत्यर्थं व्याकरणम् अध्येतव्यम्। 

६) विभक्तिज्ञानम् –

यज्ञकर्मणि केनचित् कारणेन यदि कर्मविच्छेद: भवति तर्हि पुनराधेयेष्टि: कर्तव्या भवति। तस्या: इष्टे: इतिकर्तव्यताविषये ‘प्रयाजा: सविभक्तिका: कार्या:’ इति वचनं पठितम्। ‘पञ्च प्रयाजा: त्रयोऽनुयाजा: त्वमग्ने प्रयाजानां पुरस्तात् त्वं पश्चात्’ इति वेदवाक्यम्। अस्मिन् वाक्ये य: अग्ने इति शब्द: तस्य प्रकृति: अग्नि इति। सा मन्त्रे यद्यपि सम्बोधनविभक्तौ तिष्ठति तथापि सा पुन: सम्बोधनप्रथमा , सप्तमी तृतीया द्वितीया च इत्येतासु विभक्तिषु परिवर्तितव्या भवति। एतत् विभक्तिकरणं व्याकरणज्ञानेन विना नैव सम्भवेत्।

७) ऋत्विक्कर्मार्हा: भवेम – य: वाचं पदश: स्वरश: अक्षरश: च प्रयुङ्क्ते स: ‘आर्त्विजीन:’ भवतीति उच्यते। ऋत्विजम् अर्हतीति आर्त्विजीन: यजमान:। ऋत्विक्कर्म अर्हतीति आर्त्विजीन: याजक: अपि। अत: यजमान: तथा च याजक: व्याकरणस्य सम्यगज्ञानेनैव यागकर्मणि अधिकृता: समर्था: वा भवन्ति अत: उभाभ्यां व्याकरणम् अध्येतव्यम्।