महाकविकालिदास:।

  

पुरा कवीनां गणनाप्रसङ्गे
कनिष्ठिकाधिष्ठितकालिदासः।
अद्यापि तत्तुल्यकवेरभावा-
दनामिका सार्थवती बभूव।।

महाकविकालिदासस्य विषये प्रसिद्धोयं श्लोकः  संस्कृतकाव्यक्षेत्रे कालिदासस्य अनन्यसाधारणत्वं दर्शयति।

कालिदासस्य प्रदेशकालयोः  विषये न किमपि निश्चितं ज्ञायते। सर्वे संस्कृतग्रन्थकाराः स्वस्य विषये कमपि उल्लेखम् आत्मश्लाघाम् इव मन्यन्ते स्म अतः बुद्ध्या आत्मानं सर्वेभ्यः गोपायितुं प्रयतन्ते स्म। कालिदासः अपि तथा। 

अतः कालिदासस्य वाङ्मये तेन स्वस्य विषये किञ्चिदपि संज्ञापनं न दत्तम्। अतः किंवदन्त्यः लोकमान्यताः एव अस्मिन्विषये शरणम्।

कालिदासः भोजराजस्य सभायाम् आसीदिति केषाञ्चन तर्कः। भोजस्य कालः एकादशं ख्रैस्तशतकम्। बल्लालदेवस्य  भोजप्रबन्धे प्राप्तः कालिदासविषयकः एषः उल्लेखः न ऐतिहासिकदृष्ट्या समीचीनः।  चन्द्रगुप्त-विक्रमादित्यः मौर्यशासकः येन विक्रमसंवतः आरम्भः कृतः। तस्य कालः एव कालिदासस्य कालः इति केचन। अतः कालिदासः इ.स. पूर्वं प्रथमे शतके अभवदिति तेषाम् ऊहा। बहूनां मतेन विक्रमादित्यः इति न राजनाम अपि तु एका पदवी। गुप्तशासकः चन्द्रगुप्तः द्वितीयः अपि एनां पदवीं बिभर्ति स्म। एतस्य कालः चतुर्थं ख्रैस्तशतकम्। ऐतिहासिकलेखेषु कालिदासस्य  प्रथमः उल्लेखः मन्दसौरम्  इत्यत्र सूर्यमन्दिरे विद्यमाने शिलालेखे (ख्रैस्तवर्षम् ४७३) प्राप्यते। अतः बहवः पाश्चात्त्याः ऐतद्देशीयाश्च विद्वांसः  तस्य कालं ख्रैस्तशतकस्य चतुर्थं पञ्चमं वा शतकमिति मन्यन्ते।

उज्जयिनीविषये कालिदासस्य महती आस्था। अतः तदेव तस्य निवासस्थानमासीदिति ऊहा।   लक्ष्मीधर कल्ला-- कश्चन कश्मीरलेखकः --१९२६ तमे वर्षे The Birth Place of Kalidasa इति पुस्तकम् अलिखत्। तस्य मतेन कालिदासः कश्मीरजन्मा। अनन्तरं राजाश्रयार्थं सः उज्जयिनीं गतवान् स्यात्।

कालिदासः अभिजातसंस्कृतलेखकेषु मूर्धन्यस्थानं भजते। राजशेखरबाणभट्टादिभिः सः बहुधा प्रशंसितः। कालिदासं 'कविकुलगुरुः' इति मानाभिधानं दत्तवान् जयदेवकविः। सर विल्यम जोन्सः तं भारतस्य शेक्सपियरः इति सम्बोधयति।

कालिदासस्य सप्त साहित्यकृतयः सर्वमान्याः। 

१) मेघदूतम् -- एतत् खण्डकाव्यं दूतरूपधृतः मेघस्य प्रवासं वर्णयति। कुबेरस्य राजधान्यां अलकानगर्यां वर्तमानः कश्चन कुबेरस्य सेवकः यक्षः सेवाप्रमादात् कुबेरेण शप्तः। तेन सः अलकानगरीं विहाय रामगिरिः इत्यत्र वर्षं यावत् वासं कृतवान्।  पत्नीविरहात् विकलः सः आषाढस्य प्रथमदिवसे मेघं दृष्ट्वा तमेव दूतरूपेण कल्पित्वा तन्माध्यमेन पत्न्यै सन्देशं प्रेषयति इति कल्पना। 

मेघदूते विद्यमाने द्वितीयश्लोके --- 

आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं

वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श।।

इति उल्लेखात् 'आषाढस्य प्रथमदिवसः' कालिदासदिनरूपेण आचर्यते।

मेघदूतस्य विद्वन्मान्यता इयती यत् 'मेघे-माघे गतं वयः' (अस्माकम् आयुः मेघदूतस्य माघकवेश्च कृतीनाम् अभ्यासे एव गतम्) इति उक्तिः विदुषां क्षेत्रे प्रचलिता।

२) ऋतुसंहारम् -- एतत् गीतिकाव्यं कालिदासस्य प्रारम्भिकी रचनैति विद्वांसः। ग्रीष्मादारभ्य वसन्तपर्यन्तं षण्णां ऋतूनां मनोहारि वर्णनम् अत्र प्राप्यते।

३) रघुवंशम् -- एतत् महाकाव्यं रघुवंशे जातानां राज्ञां चरितानि वर्णयति। दिलीपात् आरभ्य अग्निवर्णपर्यन्तं सूर्यवंशीयनृपाः अत्र वर्णिताः।

४) कुमारसम्भवम् -- तारकासुरस्य वधार्थं शिवपार्वत्योः पुत्रः एव क्षमः इत्यतः तयोः विवाहः भवतु इति देवाः ऐच्छन्।  तदनुगुणं शिवपार्वतीपुत्रस्य कार्तिकेयस्य जन्म अभवत्। तेन कृतः तारकसंहारः अस्मिन् काव्ये वर्णितः।

५) मालविकाग्निमित्रम् -- मालविका तथा अग्निमित्रनृपस्य प्रेमकथा अस्मिन्नाटके वर्णिता।

६) विक्रमोर्वशीयम्-- पुरुरवा नाम राजा तथा च उर्वशीनाम्नी अप्सरा एतयोः प्रणयकथा अस्य नाटकस्य कथावस्तु।

७) अभिज्ञानशाकुन्तलम् -- कालिदासनाटकेषु एतत् सर्वश्रेष्ठमिति मान्यता। दुष्यन्तशकुन्तलयोः महाभारतकथा एतस्य नाटकस्य मूलस्रोतः।

काव्येषु नाटकं रम्यं

तत्र रम्या शकुन्तला।

इति उक्तिः सर्वप्रसिद्धा।

पूर्वजीवने कालिदासः मन्दबुद्धिः आसीत्। विद्योत्तमानाम्न्या राजकन्यया सह तस्य छलेन विवाहः अभवत्। तस्य मौर्ख्यं ज्ञात्वा पत्नी तं गृहात् निष्कासितवती। अपमाननम् असहमानः सः कालिमातुः अर्चां कृत्वा तस्याः कृपया बुद्धिमान् कविश्च अभवत्। प्रत्यागते तस्मिन् विद्योत्तमा " अस्ति कश्चित् वाग्विशेषः?" इति पृष्टवती। तदा कालिदासः स्वस्य काव्यशक्तिं दर्शयन् अस्तिशब्देन आरभमाणं कुमारसम्भवम् ( अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः .....) कश्चिच्छब्देन आरब्धं मेघदूतम् ( कश्चित्कान्ताविरहगुरुणा स्वाधिकारात् प्रमत्तः .... ) तथा च वाक्शब्देन प्रारब्धं रघुवंशम् ( वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये.... )  इत्येतानि त्रीणि काव्यानि रचयित्वा तस्याः मानसे बहुमानस्थानं प्राप्तवानिति किंवदन्ती।

उपमालङ्कारयोजने कालिदासः सिद्धहस्तः। अतः 'उपमा कालिदासस्य' इति उक्तिः प्रसिद्धा। मनोभावानां चित्रीकरणे, शब्दयोजने च सिद्धहस्तः एषः महाकविः काव्य-नाट्य-वेद-वेदान्त-छन्द-व्याकरणादि बहुषु शास्त्रेषु पारङ्गतः आसीत्। 

एतादृशस्य अस्य महाकवेः कीर्तिः पृथिव्यां यावच्चन्द्रदिवाकरौ स्थास्यतीति न कोपि सन्देहः।