व्याकरणशब्दस्य व्युत्पत्त्यर्थ:--
‘व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा अनेन’ इति व्याकरणम्। वि-आङ्-उपसर्गपूर्वात् कृधातो: ल्युट् (अन) प्रत्यये विहिते व्याकरणशब्द: सिध्यति। शब्दानुशासनम् इति व्याकरणशास्त्रस्य अपरं प्रसिद्धं नाम। ‘शब्दानाम् अनुशासनं शब्दानुशासनम् ’ इति षष्ठीतत्पुरुष:। अनुशिष्यन्ते निरूप्यन्ते असाधुशब्देभ्य: विविच्य साधुशब्दा: अनेन शास्त्रेण। अत: एवोच्यते वाक्यपदीये भर्तृहरिणा– ‘शब्दसाधुत्वज्ञानविषया सैषा व्याकरणस्मृति:।’
व्याकरणं लौकिकानां वैदिकानां च उभयविधशब्दानाम् अनुशासनं करोति। साधुशब्दबोधकत्वात् धर्म-अर्थ-काम-मोक्षरूपाणां चतुर्विधपुरुषार्थानां सिद्धये तत् साह्यकारि भवति।
व्याकरणस्य स्वरूपम्--
व्याकरणशास्त्रस्य स्वरूपविषये बहूनि मतानि प्रचलितानि। ‘पाणिन्युपज्ञं व्याकरणम्’ इति आचार्य: भैरवमिश्र:। उपज्ञा उपदेशं विना जातं आद्यज्ञानम्। तच्च व्याकरणशास्त्रविषये पाणिने: अभवत् स: च तज्ज्ञानेन स्वस्य व्याकरणं रचितवान्।
‘लक्ष्यलक्षणे व्याकरणमिति’ भाष्यकार:। लक्ष्यं साधुशब्दा: लक्षणं च सूत्रम्। न केवलं शब्दा: अथवा न केवलं सूत्राणि नाम व्याकरणं प्रत्युत व्याकरणे उभयो: समावेश: भवति।
व्याकरणस्य दुरूहता–
व्याकरणशास्त्रस्याध्यनं महत्वपूर्णं तथापि तत्र बह्वी दुरूहता। तदध्ययनार्थं न्यूनातिन्यूनं द्वादशवर्षाणि काल: अपेक्षित: अत: ‘द्वादशवर्षै: व्याकरणं श्रूयते’ इत्युक्ति:। तत्रापि अध्ययनं खण्डितं भवति चेत् ‘पक्षादूर्ध्वम् अवैयाकरण:’ इत्यपि उच्यते। पञ्चदशदिनानि यावत् अध्ययनं खण्डितं भवति चेत् वैयाकरण: अपि अवैयाकरण: भवतीति तात्पर्यम्। एतस्य शास्त्रस्य काठिन्यं मनसि निधायैव जयन्तभट्टेन न्यायमञ्जर्यामुक्तं यत् –
दुष्टग्रहगृहीतो वा भीतो वा राजदण्डत:।
पितृभ्यामभिशप्तो वा कुर्याद्व्याकरणे श्रमम्।।
कश्चन मनुष्य: दुष्टग्रहै: पीडित: मातापितृभ्याम् अभिशप्त: अथवा राजदण्डात् भीत: स्यात् चेदेव स: व्याकरणशास्त्रे दुरवगम्ये अध्ययनाय प्रवृत्त: भवेत्।
‘अनन्तपारं किल शब्दशास्त्रम्’ इत्यपि प्रसिद्धं वचनम्। शब्दानाम् अनन्तत्वात् व्याकरणशास्त्रस्यापि इति न कर्तुं शक्यते। उक्तं च पतञ्जलिना ‘बृहस्पति: प्रवक्ता इन्द्रश्च अध्येता दिव्यं वर्षसहस्रं प्रवचनकाल: तथापि न चान्तं जगाम। किं पुन: अद्यत्वे य: सर्वथा जीवति वर्षशतं जीवति।’ इति।
व्याकरणस्य वेदाङ्गत्वम्--
वेदानां रक्षार्थं ऋषिभि: निर्मितानि षट् शास्त्राणि वेदाङ्गानीति ख्यायन्ते।
शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चय:।
ज्योतिषामयनं चैव वेदाङ्गानि षडेव हि।।
एतेषां शास्त्राणां मनुष्यस्य शरीरावयवै: साधर्म्यं दर्शयता उक्तं पाणिनीयशिक्षियाम्–
छन्द: पादौ तु वेदस्य हस्तौ कल्पोथ पठ्यते।
ज्योतिषामयनं चक्षु: निरुक्तं श्रोत्रमुच्यते।।
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्।
तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते।।
यथा शरीरावयवेषु मुखरूपस्य अवयवस्य प्राधान्यं तथैव षडङ्गेषु व्याकरणमेव प्रधानम्। अत: एव वाक्यपदीयकारेण ‘प्रथमं छन्दसामङ्गं प्राहुर्व्याकरणं बुधा:।’, ‘ तत्त्वावबोध: शब्दानां नास्ति व्याकरणादृते।’, ‘इयं सा मोक्षमाणानाम् अजिह्मा राजपद्धति:’ इत्यादिभि: बहुभि: उक्तिभि: व्याकरणं प्रशंसितम्।
भाष्यकार: अपि वदति, ‘ प्रधानं षट्स्वङ्गेषु व्याकरणम्। प्रधाने हि कृतो यत्न: फलवान् भवति’ इति।