गीतोक्त-अहिंसाया: स्वरूपम्।

  

भगवद्गीताया: दैवासुरसम्पद्विभागयोग: इत्यस्मिन् षोडशेऽध्याये श्रीकृष्ण: अहिंसा इति दैवीगुणसम्पत्सु मुख्य: गुण: इति कथयति।

अहिंसा सत्यमक्रोध-
स्त्याग: शान्तिरपैशुनम्।
दया भूतेष्वलोलुप्त्वं
मार्दवं ह्रीरचापलम्।।

तदनन्तरं अर्जुन: जन्मना दैवीसम्पद्युक्त: अस्तीति उक्त्वा स: अर्जुनं प्रशंसति च।

दैवी सम्पद्विमोक्षाय
निबन्धायासुरी मता।
मा शुच: सम्पदं दैवी-
मभिजातोऽसि पाण्डव।।

परं प्रतिदिनं मानवानां शतान् सहस्रान् वा मारयन् अर्जुन: दैवीगुणयुत: तथा च अहिंसक: कथं स्यात् इति प्रश्न:।

अहिंसाशब्दस्य रूढार्थ: "जीवहत्याया: त्याग:" इति अस्ति। स: अर्थ: स्वीकृतश्चेत् कालत्रयेऽपि अर्जुन: अहिंसक: भवितुं नार्हति। अरिमर्दनं क्षत्रियस्य धर्म: एव श्रुतिस्मृतिभि: कथित:। तं धर्मं स: निग्रहेण पालयति स्म। महाभारतयुद्धे तादृशमेव एव आप्तजनानां धर्म्यं हननं सम्प्राप्तं तदा मोहवशात् स: आत्मानम् अहिसकं दर्शयितुम् आरेभे। तदा श्रीकृष्णेन "त्वं क्लैब्यं मा गम:" इति कठोरशब्दै: तस्य निर्भर्त्सना कृता। तथा च एतत् जीवहननं धर्म्यम् अस्ति प्रतिपाद्य तत् कर्तुम् स: आदिष्ट: एव।

एकत्र श्रीकृष्ण: अहिसां दैवीगुणं मत्वा प्रशंसति। अपरत्र जीवहननात् ग्लायते ,तत् च निवारयितुम् प्रयतमानाय अर्जुनाय तदेव कर्तुं भृशं प्रेरयित्वा युद्धसन्नद्धं करोति। एतस्य परस्परविरोधस्य सङ्गति: कथं सम्पादयितव्या?

एतस्यैव अर्थ: अयं यत् भगवत: श्रीकृष्णस्य अभिमत: अहिंसाया: अर्थ: "जीवहननात् निवृत्ति:" इति कदापि नास्ति।

श्रीकृष्ण: तथा च अर्जुन: उभौ मिलित्वा पूर्णं खाण्डववनं ज्वालितवन्तौ तत्स्थाने च मयासुरेण मयसभाया: निर्माणं कारितवन्तौ।

"जीवहननस्य त्याग:" एतावदेव अहिंसाशब्दस्य अर्थ: स्वीक्रियते चेत् तेन निकषेण कृष्णार्जुनौ कदापि अहिंसकौ न तिष्ठेताम्।

जात: कोऽपि जन्तु: जीवहत्याम् अकृत्वा प्राणधारणां कर्तुम् अक्षम:। अस्माकं प्रत्येकं ग्रास: अन्यजीवस्य मुखात् प्रसह्य निष्कास्य स्वायत्तीकृत: भवति। अस्माकं केवलं श्वासप्रश्वासेनैव लक्षश: सूक्ष्मजन्तव: मरणं प्राप्नुवन्ति। अत: "जीवहत्याया: पूर्णत्याग:" एवं व्याख्याता अहिंसा सत्यमेव शतं प्रतिशतं पालनीया चेत् जीवनमेव पूर्णतया स्थगनीयं भवेत्।

अत: श्रीकृष्णस्य अभिप्रेता अहिंसा कीदृशी एतत् गवेषणीयम्। तस्योत्तरं तत्रैव गीतायां प्राप्यते। अष्टादशेऽध्याये भगवान् कथयति --

यस्य नाहङ्कृतो भावो
बुद्धिर्यस्य न लिप्यते।
हत्वापि स इमाँल्लोकान्
न हन्ति न निबध्यते।।

यस्य "अहं कर्ता" इति अहङ्कार: नास्ति, यस्य च मति: तया भावनया आवृता न भवति तेन जनेन एतत् सर्वं जीवजातं व्यापादितं चेदपि स: कमपि न हन्ति तथा च तज्जन्यपापेन न निबद्ध: भवति।

भगवत: मतेन किमपि कर्म हिंसात्मिकं अथवा अहिंसकं एतत् निश्चेतुं "तेन कस्यापि जीवस्य प्राणात्यय: भवति उत न" एतत् तत्त्वं नैव निकषायते। तां कृतिम् अनुतिष्ठन् मनुष्य: स्वविषये "अहमेव कर्ता" इति अनुभवन् तिष्ठति उत न एतत् तत्त्वमेवात्र निकषीभवति।

बाह्यत: कृते: स्वरूपं किमपि स्यात् नाम, अहंभावरहितं तस्या: अनुष्ठानम् अहिंसा अहंभावयुक्तं च हिंसेति निगद्यते।

अत: समत्वबुद्धिं समाश्रित्य अहंभावं त्यक्त्वा , लाभहानी समाने कृत्वा अधर्मिणाम् आप्तानां नाशार्थं त्वं सिद्ध: भवेति भगवता स: स्पष्टवाचा नि:सन्दिग्धम् आदिष्ट:।

सुखदु:खे समे कृत्वा
लाभालाभौ जयाजयौ।
ततो युद्धाय युज्यस्व
नैवं पापमवाप्स्यसि।।

जयलाभयो: लालसा पराजयहान्यो: अनीहा इत्येषा अहंभावसम्बद्धा मन:स्थिति:। समत्वं प्राप्तुम् अहंभाव: त्यक्तव्य:। स: त्यक्तश्चेत् आपातत: हिंसात्मिका भासमाना कृतिरपि तथास्वरूपा न तिष्ठति।

अत: श्रीकृष्णस्याभिमता अहिंसा पूर्णतया आन्तरिकी भावना अथवा गुण:। बाह्यजगति विद्यमानया जीवहत्यया तस्या: अभावेन वा सा निरतिशयम् असम्बद्धा। एष एव अहिंसातत्त्वस्य जगद्व्यवहारसङ्गतोऽर्थ: हितकारक:।

इति शम्।