@ मूल्यामपनस्य साधनम् -- नैदानिक-परीक्षा (Diagnostic Test)--
# नैदानिकपरीक्षायाः आवश्यकता–
ज्वररोगी यदि वैद्यं प्रति गच्छति तर्हि वैद्यः तस्य चिकित्सां कृत्वा तस्मै औषधं दद्यात्। तापमापके सर्वेषां रोगिणां ज्वरः यद्यपि समानतया दृग्गोचरः भवति तथापि प्रत्येकं रुग्णस्य ज्वरकारणानि अथवा ज्वरजनकाः विकृतयः भिन्नाः भवितुं शक्यन्ते। कस्यचित् ज्वरस्य कारणम् अपचनम्, कस्यचित् रक्तदोषः, कस्यचित् आतपे चलनम्। अतः सर्वेभ्यः रुग्णेभ्यः एकमेव औषधं वैद्यः न दद्यात्। सः प्रत्येकं रुग्णस्य विकृतेः चिकित्सां कृत्वा तस्य विकृत्यनुसारं औषधं ददाति।
एवमेव विद्यार्थिनः अध्ययने ये दोषाः आपाततः दृग्गोचराः भवन्ति तेषां कारणानि प्रतिच्छात्रं भिन्नानि भवितुम् अर्हन्ति। एतेषां दोषाणां सम्यक् परिशीलनं कृत्वा दोषाणां मूलकारणम् अन्वेष्टव्यं भवेत्। एतान् अध्ययनदोषान् निश्चेतुं यत्साधनं शिक्षकाः उपयुज्यन्ते तस्य नाम नैदानिकपरिक्षा इति।
घटकपरीक्षायाः वार्षिकपरीक्षायाः वा नैदानिकपरीक्षा पूर्णतया भिन्ना। घटकवार्षिक्यादिषु परीक्षासु विद्यार्थिना अधिगतं विषयप्रावीण्यं परीक्षामहे। नैदानिकपरीक्षायां वयं छात्रस्य विषयप्रावीण्यप्रापणे के प्रत्यवायाः विद्यन्ते तेषां निदानं कुर्मः।
उदाहरणार्थं 'गद्यांशं पठित्वा उत्तराणि लिखत' इत्यस्मिन् प्रश्ने द्वौ छात्रौ ७ तः केवलं ३ अङ्कान् लब्धवन्तौ। यद्यपि अङ्काः समानाः तथापि एतस्य प्रश्नस्य उत्तरलेखने ताभ्यां कृताः दोषाः भिन्नाः स्युः। उदाहरणार्थं प्रथमच्छात्रस्य विषये गद्यांशस्य आकलनमेव सम्यक् न आसीत् इत्यतः सः सत्यासत्यविधानानि, एकवाक्यात्मकोत्तराणि लेखितुं न शक्तवान्। द्वितीयः यद्यपि गद्यांशं सम्यक् अवगतवान् तथापि तस्य लेखने बहवः दोषाः आसन्। एवं यद्यपि प्राप्ताङ्काः समानाः तथापि तयोः अध्ययने विद्यमानाः न्यूनताः भिन्नाः।
यावत्पर्यन्तं प्रत्येकं छात्रस्य अध्ययनदोषाणां नैश्चित्येन अवगमनं न भवति यावच्च ते दोषाः सम्यक्तया अङ्गुलिनिर्दिष्टाः न भवन्ति तेषां परिष्कारः अपि न भवति।
संस्कृतविषये छात्रस्य अध्ययने ये दोषाः तेषाम् अवगमनं निरीक्षणेन भवितुं शक्येत। छात्राणां शुद्धलेखनविषयकाः केचन प्रमादाः अत्र परिगणिताः–
१) शब्दानां मध्यगतम् अनुस्वारं परसवर्णरूपेण छात्रः लेखितुं न शक्नोति। यथा–संतापः उत सन्तापः?
२) शब्दस्य अन्ते विद्यमानः अनुस्वारः मकाररूपेण बिन्दुरूपेण वा कदा लेखनीयः एतस्य ज्ञानं नास्ति। यथा – देवानाम् आगमनम् उत देवानां आगमनम्?
३) सः हलन्तशब्दान् स्वरान्तान् इव लिखति। यथा– मरुत् उत मरुत?
४) कांश्चन शब्दान् वर्णव्यत्यासं कृत्वा लिखति यथा– तल्पः उत तप्लः?
५) ह्रस्वदीर्घविषये तस्य ज्ञानं सम्यक् नास्ति। यथा– कश्चीत् उत कश्चित् ? , सुचनाः उत सूचनाः ? शरिरम् उत शरीरम् ?
६) नकारणकारलेखने कृताः प्रमादाः। यथा– वज्रेण उत वज्रेन ? शिक्षकानाम् उत शिक्षकाणाम्?
वाक्यविन्यासे बहवः छात्राः कर्त्रनुसारं क्रियापदस्य योजनं कर्तुं न शक्नुवन्ति। यथा– अहं पठति उत पठामि? केचन विशेष्यानुसारं विशेषणयोजने न समर्थाः उदा– सुन्दरी महिला उत सुन्दरा महिला ? केषाञ्चनच्छात्राणां लेखनवेगः मन्दः भवति। केषाञ्चन वाचनं न शुद्धम्।
एवं छात्राणां बहुविधाः दोषाः यद्यपि निरीक्षणेन अवगम्यन्ते तथापि तेषां निर्दुष्टतया अवगमनाय नैदानिकपरीक्षा आवश्यकी। भाषाविषयेषु श्रवणं भाषणम् (सम्भाषणम्) वाचनं लेखनम् इत्येतानि मूलभूतकौशलानि। एतेषु बहवः छात्राः अप्रगताः अतः एतेषु प्रत्येकं कौशलस्य कृते स्वतन्त्रा नैदानिकपरीक्षा भवितुं योग्या।
उदाहरणार्थं श्रवणकौशले याः न्यूनताः तासाम् अवगमार्थं कांश्चन शब्दान् श्रावयित्वा छात्रः तान् शब्दान् सम्यक् लेखितुं शक्नोति उत न एतत् परीक्षितुं शक्यते। भाषणकौशले याः न्यूनताः ताः छात्रैः सह सम्भाषणेन वयम् अवगन्तुं शक्नुमः। सरलसंस्कृतेन लिखितानां कथानिबन्धानां वाचनं छात्रैः कारयित्वा तेषां वाचनकौशलस्य स्तरः निर्धारयितुं शक्यते। दत्तशब्दवाक्यानां लेखनं कारयित्वा च लेखनदोषान् वयं परीक्षितुं शक्नुमः।
नैदानिकपरीक्षायाः सज्जीकरणे सोपानद्वयम्–१) सम्बन्धितस्य कौशलस्य पृथक्करणम् २) पृथक्करणानन्तरं प्रत्येकम् घटकांशानुरूपं योग्यप्रश्नानां निर्माणम्।
नकारणकारलेखने, परसवर्णलेखने वा ये प्रमादाः भवन्ति तान् परीक्षितुं सज्जीकृताम् एनां लघुपरीक्षामत्र उदाहरणरूपेण प्रस्तौमि–
प्र.१ – शब्दे यदि ----- वर्णः भवति तर्हि प्रत्ययस्थनकारस्य णकारः भवेत्। (म्, ष्, ट् , ज्)
प्र.२— प्रत्ययस्थः नकारः अन्तिमव्यञ्जनरूपेण (न् इत्येवं) तिष्ठति चेत् सः नकारः णमध्ये परिवर्तितः भवति – सत्यम् उत असत्यम्?
प्र.३ — अधोदत्तेषु शब्दयुग्मेषु शुद्धं शब्दं चिनुत–
अ) छात्रेण , छात्रेन
आ) वृक्षानाम् , वृक्षाणाम्
इ) प्रतीकेन, प्रतीकेण
ई) दुष्टाणाम् , दुष्टानाम्
प्र.३ – अधोदत्तेषु शब्दयुग्मेषु शुद्धं शब्दं चिनुत–
अ) जङ्गमः, जन्गमः
आ) चम्चलः, चञ्चलः
इ) घण्टा, घन्टा
ई) संसारः, सन्सारः
# उपचारात्मकम् अध्यापनम् (Remedial Teaching)---
रोगस्य निदानात् अनन्तरं यथा वैद्यः तत्रैव अस्थित्वा रुग्णाय योग्योपचारान् कथयति एवमेव न्यूनतानाम् अवगमनात् अनन्तरं शिक्षकः ताः दूरीकर्तुं प्रयत्नान् कुर्यादेव। अन्यथा नैदानिकपरीक्षाणां चालनस्योद्देशाः न सफलीभवेयुः। उदाहरणार्थं नकारणकारलेखने ये दोषाः तेषामपनयनार्थं शिक्षकः तद्विषयकान् नियमान् पुनः पाठयित्वा शुद्धलेखनार्थं पुनः पुनः छात्रेभ्यः नैकाः शब्दावलीः दद्यात्।
# उपचारात्मकाध्यापनस्य सूत्राणि–
१) छात्रस्य आर्थिकपरिस्थितिः, प्रामादिक्यः स्वाध्यायपद्धतयः, अभिरुचेः अभावः, शिक्षकस्य अध्यापनदोषाः, छात्रस्य सीमितबुद्धिमत्ता एतान्यपि छात्रकृतदोषाणां कारणानि भवितुं शक्यन्ते। अतः एतेषां सर्वेषां दोषकारकाणां ज्ञानं तथा च छात्रेण सह सहानुभूतियुक्तः व्यवहारः शिक्षकस्य कृते आवश्यकः। मानसिकदौर्बल्यमपि कुत्रचित् छात्रस्य अप्रगतेः कारणं भवितुं शक्यते। तदा येन छात्रः भावनात्मकसुरक्षितताम् अनुभवेत् , तस्मिन् आत्मविश्वासः वर्धेत तादृशं शिक्षकस्य वर्तनं स्यात्।
२) छात्राणां कौशलस्तरानुसारं गणान् कृत्वा पाठनं कृतं चेत् उपचारात्मकम् अध्यापनम् अधिकं सफलतां गच्छेत्। बुद्धिमतां तथापि संस्कृते अप्रगतानां छात्राणां गणः, सामान्यबुद्धीनां छात्रानां गणः, अल्पमतीनां छात्राणां गणः एवं गणनिर्माणं कृत्वा प्रत्येकं गणाय भिन्नपद्धत्या पाठनम् आवश्यकम्।
३) उपचारात्मकाध्यापनस्य कृते विशेषपाठसामग्र्याः निर्माणम् करणीयम्। अल्पबुद्धीनां कृते मन्दगत्या पाठनार्थं तथा च प्रगतच्छात्राणां कृते तेषां क्षमतायै आह्वात्मकसामग्र्याः निर्माणं योग्यम्।
४) उपचारात्मकाध्यापानात् पूर्वं न्यूनतायाः निदानं यथायोग्यम् अभवत् वा इत्यस्य निश्चयः आवश्यकः।
५) उपचारात्मकम् अध्यापनं कथं करणीयम् इत्यस्य प्रशिक्षणं शिक्षकेभ्यः दातव्यम्।
# सावधानम् –
१) यस्य उपचारत्मकाध्यापनस्य आवश्यकता विद्यते सः छात्रः अल्पमतिः एव अस्ति इति न।
२) बुद्धिमतां छात्राणां कृते उपचारात्मकम् अध्यापनम् आवश्यकं नास्ति इति न।
३) सम्यक्तया दोषनिदानात् अनन्तरमेव उपचारात्मकम् अध्यापनम् आरभणीयम्।
४) उपचारात्मकाध्यापने ये छात्राः अध्याप्यन्ते तेषां विषये प्रकटतया जल्पनं न करणीयम्।