@ आधुनिकपद्धतयः।
१) भाण्डारकरविधिः / व्याकरणानुवादपद्धतिः(Grammar-Translation Method)---
एषा पद्वतिः यूरप्-मध्ये षोडशतमात् शतकात् अनन्तरं लॅटिनाग्रीकभाषयोः अध्यापनार्थं प्रचलिता अभवत्। लॅटिनाभाषा षष्ठशतकात् व्यवहारात् दूरं गता आसीत्। तस्याः स्थानम् आङ्ग्ला-फ्रेञ्चा-इटालियनादिभिः भाषाभिः अधिगृहीतम् आसीत्। तथापि रोमनसाम्राज्यस्य वैभवं प्रति गर्विताः केचन एतां भाषां पठितुम् इच्छन्ति स्म। तथापि लॅटिना इदानीं व्यवहारे नासीत्। मृतवत् तस्याः स्थितिः आसीत्। अतः आङ्ग्लादिमातृभाषमाध्यमेन तस्याः पठनार्थं व्याकरणानुवादपद्धतेः विकासः अभवत्।
भारते आङ्ग्लकाले सर रामकृष्ण-गोपाल- भाण्डारकरः एनां पद्धतिं संस्कृतशिक्षणं प्रति आनीतवान्। अतः एषा पद्धतिः संस्कृतक्षेत्रे ' भाण्डारकरपद्धति' इति नाम्ना ख्याता अभवत्।
एतस्याः पद्धतेः वैशिष्ट्यानि नाम--
१) संस्कृतं मातृभाषामाध्यमेन, आङ्ग्लमाध्यमेन वा पाठ्यते।
२) तत्रापि व्याकरणस्य एकं कञ्चित् पृथग्विषयं मत्वा पाठनं भवति।
३) मातृभाषायाम् अनूदिताः व्याकरणनियमाः पठितव्याः स्मर्तव्याश्च भवन्ति।
४) अनुवादकरणार्थम् आवश्यकी अनूदितसंस्कृतशब्दावलिः अपि पाठ्यते। एतेषां शब्दानां स्मृतौ धारणम् अत्यावश्यकम्।
५) व्याकरणनियमानां रटनात् अनन्तरं तेषां नियमानां तथा च संस्कृतशब्दावल्याः उपयोगं कृत्वा संस्कृतस्य मातृभाषया अथवा आङ्ग्लभाषया अनुवादः करणीयः। तद्विपरीतं वा आङ्ग्लायाः संस्कृते अनुवादः करणीयः।
६) अस्यां पद्धतौ पाठ्यपुस्तकं अत्यन्तं महत्त्वपूर्णम्। पाठ्यपुस्तके आवश्यकव्याकरणनियमाः , उपयुक्तशब्दावलिः, अनुवादार्थम् गद्यपद्यांशाः च दत्ताः सन्ति। एतदर्थं भाण्डारकरमहोदयेन निर्मितं मार्गोपदेशिका, संस्कृतमन्दिरान्तःप्रवेशिका इति पुस्तकद्वयं, वामन-शिवराम-आप्टेवर्यस्य अ स्टूडन्ट्स् गाईड टू संस्कृत काम्पोझिशन्, मोरेश्वर-रामचंद्र-कालेमहाभागस्य हायर्-संस्कृत- ग्रामर् , पं.श्रीपाद-सातवलेकरस्य संस्कृत-स्वयंशिक्षक-प्रभा इत्यादीनि पुस्तकानि द्रष्टव्यानि।
एतया पद्धत्या उभयविधभाषयोः तौलनिकशब्दावल्याः , वाक्यविन्यासस्य व्याकरणस्य च सम्यक् अभ्यासः भवति। व्याकरणनियमानां केवलं कण्ठस्थीकरणापेक्षया तेषाम् अर्थावबोधं प्रति छात्रः यथायोग्यम् अवधानं ददाति।
एषा पद्धतिः संस्कृतं पठितुकामानाम् आङ्ग्लजनानां कृते उपयुक्ता आसीत्। यतः यावत्ते संस्कृते निहितं ज्ञानम् अवगन्तुम् इच्छन्ति स्म तावत् संस्कृतं भाषारूपेण पठितुं नेच्छन्ति स्म ।
एतस्यां पद्धतौ सर्वः भरः व्याकरणे तथा च अनुवादकरणे अस्ति। भाषायाः मुख्योपयोगः भाषणसम्भाषणे। या भाष्यते सा भाषा। परन्तु अस्यां पद्धतौ उच्चारणश्रवणभाषणादीनि कौशलानि महत्त्वं नावहन्ति। सर्वं महत्त्वं वाचनाय लेखनाय च दीयते। लेखनमपि अनुवादरूपम् अतः स्वस्य विचाराभिव्यक्तये अपि अवसरः नास्ति। तेन एतया पद्धत्या वयं संस्कृते निहितान् विषयान् पठामः तथापि साक्षात् संस्कृतं न पठामः।
व्याकरणमपि निगमनपद्धत्या पाठ्यते। प्रथमं नियमम् उक्त्वा अनन्तरम् उदाहरणानि दीयन्ते। एषा पद्धतिः नितराम् अमनोवैज्ञानिकी। व्याकरणपाठनाय अवगमनपद्धत्याः एव उपयोगः हिताय। तस्यां प्रथमम् उदाहरणानि उपस्थाप्यन्ते तदाधारेण छात्राः स्वयमेव नियमम् अवगच्छन्ति च।
एवमेषा पद्धतिः भाषाविद्भिः नितरां निन्दिता। तथापि भाषाक्षेत्रे इदानीमपि प्रभूतमात्रया एषा पद्धतिः एव उपयुज्यमाना दृश्यते।
२) पाठ्यपुस्तक-पद्धतिः (Texbook Method)
भाण्डारकरपद्धत्यां पाठ्यपुस्तकम् अतीव महत्त्वम् आवहति। सर्वोपि विषयः पाठ्यपुस्तकमाध्यमेनैव पाठनीयः इति एतस्याः पद्धतेः मुख्यं तत्त्वम्। छात्रां कृते पाठ्यपुस्तकं नाम तादृशं पुस्तकं यस्मिन् पाठ्यविषयस्य संज्ञापनं स्तरितमाध्यमेन प्रदत्तम् अस्ति। शिक्षकेभ्यः अपि तत् किं ,कदा, कथं च पाठनीयम् इत्येतस्य मार्गं दर्शयति।
भारते डॉ.वेस्टः अस्याः पद्धतेः प्रमुखः समर्थकः आसीत्। संस्कृतक्षेत्रे अपि पाठनाय पाठ्यपुस्तकानां निर्मितिः अभवत्। उदाहरणार्थं पं.ईश्वरचन्द्रविद्यासागरेण लिखितम् 'संस्कृत-पाठ्यपुस्तकम्'।
पाठ्यपुस्तकम् अद्यतनशालाशिक्षणे विद्यापीठशिक्षणे च अतीव महत्त्वपूर्णं वर्तते।
पाठ्यपुस्तकेन छात्राणां शब्दभाण्डारं वर्धते। विविसाहित्यप्रकाराणां परिचयः भवति। वाचनकौशलं विकसति।
तथापि पाठ्यपुस्तकमेव अध्ययनाध्यापनसर्वस्वं इति छात्राः शिक्षकाः च मन्यन्ते। तेन पाठ्यपुस्तकात् बहिः न गन्तव्यं, यावत् पुस्तके लिखितं तावदेव पर्याप्तम् इति भावः छात्राणां शिक्षकाणां चापि मनःसु उत्पद्यते। अतः विषयस्य समग्रतया अध्ययनाध्यापनं न भवति।
छात्राणां वैयक्तिक्यः अध्ययनावश्यकताः अपि एतस्यां पद्धतौ दुर्लक्षिताः भवन्ति। पाठ्यपुस्तकम् अस्माकं हस्ते विद्यमानं विषयपाठनस्य केवलम् एकं साधनमस्ति तथापि तदन्तिमं ध्येयं भूत्वा तिष्ठति।
एतस्यां पद्धतौ यद्यपि वाचनलेखनक्षमते विकसतः तथापि श्रवणभाषणे अल्पे एव स्तः।अतः तयोः विकासः न भवति।
पाठ्यपुस्तकपद्धतौ सामान्यतया हर्बार्टमहोदयस्य पञ्चपाद्याः उपयोगः भवति--
१) प्रस्तावना/प्रेरणादानम्-- (पूर्वज्ञानजागरणम्, उचितकथाश्लोकादीनां कथनं, पाठस्य लेखकस्य वा परिचयः)
२) विषयोपस्थापनम् (पाठ्यबिन्दोः नाम्नः उच्चारणम्, प्रत्यक्षानुभवद्वारा विषयस्य ज्ञानदानम्)
३) तुलना तथा सहसम्बन्धस्थापनम्। (अधीतस्य अन्याधीतेन सह तुलना अथवा सहसम्बन्धस्य दृढीकरणम्)
४) सामान्यीकरणम् (सारांशकथनम्)
५) उपयोजनम् (स्वाध्यायः)
संस्कृतगद्यस्य पाठने एते बिन्दवः एवंरूपाः भवन्ति--
१) आदर्शवाचनम्
२) अनुवाचनम्
३) काठिन्यनिवारणम्
४) सारांशकथनम्
५) गृहकार्यम्।
३) प्रत्यक्षपद्धतिः (Direct Method)
मानसशास्त्रज्ञानां मतेन भाषाशिक्षणे ४५% श्रवणं ३५% भाषणम् २०% पठनं लेखनं च एतेषां समावेशः अस्ति। अतः बालाः श्रवणं भाषणं च कृत्वा अधिकं भाषाज्ञानं प्राप्नुवन्ति।
वयं मातृभाषायाः ज्ञानं मातुः सकाशात् श्रवणेन तथा च तस्याः अनुकरणं कृत्वा एव प्राप्तवन्तः। तदनन्तरं वयं साक्षात् भाषणे अधीतस्य उपयोजनमेव आरब्धवन्तः। अनन्तरं यदा शालाप्रवेशः अभवत् तदैव वाचनलेखनं प्रारब्धम्। अतः श्रवणं भाषणं वाचनं लेखनम् इत्येव भाषाशिक्षणस्य नैसर्गिकः क्रमः अस्ति।
एतमेव सिद्धान्तं स्वीकृत्य वॉल्टर-एनफील्डमहाभागेन 'मातृपद्धतिः' नामिका भाषाशिक्षणपद्धतिः आविष्कृता। इदानीम् उपयुज्यमाना प्रत्यक्षपद्धतिः एतस्या मातृपद्धतेः एव परिष्कृतं रूपम् अस्ति।
एतस्या पद्धतेः भारते प्रथमवारम् उपयोगः वी.पी.बोकीलमहाभागेन मुम्बयीस्थिते एलफिन्स्टन-महाविद्यालये कृतः। तदर्थं तेन 'अ न्यू अप्रोच टू संस्कृत' नामकम् एकं पुस्तकमपि लिखितमस्ति।
अस्यां पद्धतौ साक्षात् वाक्यानां प्रयोगेनैव संस्कृतशिक्षणस्य आरम्भः भवति। अत्र वाक्यमेव भाषायाः एककमिति मत्वा कार्यं प्रचलति। सर्वं पठनपाठनकार्यं मौखिकम् अस्ति। सततं भाषणेन छात्राणां स्वाभिव्यक्तिकौशलं वर्धते। छात्राः सक्रियतया पठने सहभागिनः भवन्ति।
एतस्याः पद्धतेः वैशिष्ट्यानि--
१) भाषाशिक्षणं या भाषा पाठनीया तामेव भाषां माध्यमरूपेण उपयुज्य दीयते।
२) मातृभाषाप्रयोगः न अनुमन्यते।
३) अस्यां पद्धतौ पद-पदार्थयोः सम्बन्धः साक्षात् छात्राणां मनःसु स्थापयितुं प्रयासः भवति। उदा. लेखनी इति शब्दः साक्षात् लेखनीं दर्शयित्वा पाठ्यते।
४) यावच्छक्यं प्रत्यक्षं वस्तुक्रियादिं दर्शयित्वा एव पाठनं भवति। अतः प्रचुरमात्रया पाठसाह्यकानि दृश्यश्रव्यसाधनानि उपयुज्यन्ते।
५) अस्यां पद्धतौ मौखिककार्यं प्राधान्यम् आवहति।
६) एतया पद्धत्या छात्राः अनुकरणं कृत्वा भाषां पठन्ति। अतः एषा नैसर्गिकी तथा च छात्राणां कृते रुचिकरा पद्धतिः।
प्रत्यक्षपद्धतेः मर्यादाः--
१) पाठनस्य कृते बहुकालः आवश्यकः भवति।
२) प्रत्यक्षपद्धतिद्वारा अमूर्तकल्पनाः पाठयितुं न शक्याः। अतः लघुबालकानां कृते एषा पद्धतिः उत्तमा तथापि उच्चकक्षासु एतस्याः प्रयोगः कठिनः।
३) ये बुद्धिमन्तः छात्राः ते एव पदपदार्थसम्बधं सत्वरम् अवगन्तुक्षमाः। तथापि सामान्यच्छात्राणां कृते क्लेशः।
४) यत्र कक्ष्यासु छात्रसङ्ख्या पुष्कला तत्र प्रत्येकं छात्रं प्रति अवधानदानं शक्यं न भवति।
५) पठनलेखनकौशल्ये न विकसतः।
संस्कृतभारत्याः प्रत्यक्षपद्धतिः--
संस्कृतभारत्याः सम्भाषणशिक्षणे प्रामुख्येन प्रत्यक्षपद्धत्याः एव उपयोगः क्रियते। स्फोरकपत्राणि, वस्तूनि, कोष्टकानि उपयुज्य संस्कृतं संस्कृतमाध्यमेनैव पाठ्यते।
पाठने --१) उपस्थापनम् २) अभ्यासः ३) प्रयोगः एवं बिन्दुत्रयम्। उपस्थापने पाठ्यबिन्दुः सम्यक्तया स्पष्टीक्रियते। अनन्तरं छात्रैः तस्य बिन्दोः अभ्यासः कार्यते। पर्याप्ताभ्यासात् अनन्तरं छात्राः पाठितस्य स्वयमेव प्रयोगं कुर्वन्ति।
@ काव्यशिक्षणपद्धतयः–
काव्यशिक्षणस्य कृते संस्कृते मुख्यतः दण्डान्वयः तथा च खण्डान्वयः एवं पद्धतिद्वयं उपयुज्यते।
१) दण्डान्वयः –अत्र दण्डशब्दस्य अर्थः वाक्यम्। श्लोकस्थं मुख्यं क्रियापदं प्रथमम् अन्विष्यते। तदनन्तरं कर्तृकर्मादिवाचकान् शब्दान् चित्वा ते शब्दाः वाक्ये क्रमवारं निवेश्य सम्पूर्णवाक्यं सम्पाद्यते।
अस्यां पद्धतौ 'अस्याः क्रियायाः कर्ता कः?' 'कर्म किम् ?' इत्यादयः व्याकरणविषयकाः प्रश्नाः पृच्छ्यन्ते। अतः एतया पद्धत्या पाठनं नीरसं जामितिकरं च भवति।
उदाहरणार्थम् अग्रिमं श्लोकं पश्यन्तु–
जयन्ति ते सुकृतिनः रससिद्धाः कवीश्वराः।
नास्ति येषां यशःकाये जरामरणजं भयम्।।
१) क्रियापदम् --जयन्ति
२) 'जयन्ति' इति क्रियापदस्य कर्ता कः?-- कवीश्वराः
३) 'कवीश्वराः' इति शब्दस्य विशेषणे-- ते, सुकृतिनः, रससिद्धाः
४) क्रियापदम्–न अस्ति
५) 'नास्ति' इति क्रियापदस्य कर्ता–भयम्
६) 'भयम्' इति पदस्य विशेषणम् –जरामरणजम्
७) 'नास्ति' इति क्रियाया अधिकरणम्– यशःकाये
८) सम्बन्धवाचक-सार्वनामिक विशेषणम्–येषाम्
अन्वयः –येषां यशःकाये जरामरणजं भयं नास्ति ते सुकृतिनः रससिद्धाः कवीश्वराः जयन्ति।
२) खण्डान्वयपद्धतिः –
एतस्यां पद्धतौ अपि प्रथमं क्रियापदम् अन्विष्य अनन्तरं भावार्थानुकारिणाः प्रश्नाः पृच्छ्यन्ते। किम् इति सर्वनाम्नः रूपाणि प्रश्नार्थकाः अन्ये ककाराः वा अत्र प्रश्नवाचकशब्दाः भवन्ति। प्रश्नाः व्याकरणदृष्ट्या न पृष्टाः भवन्ति अपि तु ते श्लोकस्थशब्दानाम् अर्थान् भावान् च प्रकाशयन्ति। अतः काव्यस्य पाठनं छात्राणां कृते ऋचिकरं ज्ञानवर्धकं च भवति। छात्राः सक्रियतया पाठने सहभागिनः भवन्ति। अतः एषा पद्धतिः अधिकं मानसशास्त्रानुकारिणी वर्तते।
उपरितनमेव उदाहरणं पुनः पश्यन्तु–
जयन्ति ते सुकृतिनः रससिद्धाः कवीश्वराः।
नास्ति येषां यशःकाये जरामरणजं भयम्।।
१) क्रियापदम् – जयन्ति
२) के जयन्ति? –कवीश्वराः
३) कवीश्वराः कीदृशाः?– ते, सुकृतिनः, रससिद्धाः
४) क्रियापदम्–नास्ति
५) किं नास्ति?--भयम्
६) कीदृशं भयम् –जरामरणजम्
७) भयं कुत्र नास्ति? – यशःकाये
८) येषाम् इति कस्य निर्देशः? –कवीश्वराणाम्
अन्वयः– येषां यशःकाये जरामरणजं भयं नास्ति ते सुकृतिनः रससिद्धाः कवीश्वराः जयन्ति।
एते पद्धती विहाय काव्यपाठनार्थं गीतगायनपद्धतिः , अभिनयपद्धतिः , व्याख्यापद्धतिः, तुलनापद्धतिः , समीक्षापद्धतिः एताः पद्धतयः अपि उपयुज्यन्ते। गीतगायनं विशेषतया लघुबालानां कृते उपयोगि। अभिनयपद्धतौ गीतस्य भावः नाट्याभिनयमाध्यमेन सन्दर्श्यते। व्याख्यापद्धतौ काव्यगतं व्याकरणं, शब्दव्युत्पत्तयः, भावः, अलङ्कारवृत्तविशेषाः इत्यादीनाम् अंशानां समग्रतया पाठनं भवति। समीक्षापद्धतौ काव्यस्य गुणदोषाः परीक्ष्यन्ते। व्याख्यापद्धतिः समीक्षापद्धतिश्च उच्चस्तरीयच्छात्राणां कृते विशेषतया उपयोगिन्यौ।
@ व्याकरणशिक्षणम्–
व्याकरणशिक्षणार्थं मुख्यतया अवगमन-निगमनपद्धत्याः पाठनं भवति। वस्तुतः एषा पद्धतिः द्वयोः पाठनप्रणाल्योः मेलनम्।
अवगमनपद्धतौ विशिष्टानि उदाहरणानि प्रथमं छात्राणां पुरतः उपस्थाप्यन्ते, तेभ्यः छात्राः विशिष्टनियमम् तर्कयन्ति।
उदाहरणार्थं –
देव +आज्ञा – देवाज्ञा।
माता + आगच्छति– मातागच्छति।
तत्र + अस्ति– तत्रास्ति।
पिता + अत्र – पितात्र।
एवं एकप्रकारकेषु एव उदाहरणेषु छात्राणां पुरतः संस्थापितेषु सत्सु छात्राः ह्रस्वदीर्घयोः अवर्णयोः संयोगेन आकारः उत्पद्यते इति नियमं अनुमीयन्ते। एषा पद्धतिः 'ज्ञातात् अज्ञातं प्रति', 'विशिष्टात् सामान्यं प्रति' एतयोः मानसशास्त्रीयनियमयोः अनुसरणं करोति अतः उत्तमा पाठनपद्धतिः।
निगमनपद्धतौ सामान्यनियमं प्रथमम् उक्त्वा अनन्तरं तस्य उदाहरणानि प्रस्तूयन्ते। अष्टाध्याय्यादिग्रन्थानाम् अध्ययनं एतयैव पद्धत्या भवति।
तथापि व्याकरणपाठने उभयविधपद्धतीनां मेलनं कृत्वा पाठनं वरम्। तत्रापि निगमनपद्धतिः मानसशास्त्रानुसारिणी नास्ति अतः न्यूनमात्रयैव तस्याः प्रयोगः भवतु इति शिक्षणशास्त्रिणः वदन्ति।