शैक्षिकमूल्यमापनम्--३ (Educational Evaluation--3)

  

मूल्यमापनसाधनानां गुणधर्माः--

व्यवहारे वयं सर्वस्य वस्तुनः गुणवत्तां सुपरीक्ष्य एव तस्य वस्तुनः स्वीकारं कुर्मः। एतदवधि मूल्यमापनस्य यानि साधनानि वयं चर्चितवन्तः तेषु अपि केचन गुणाः अपेक्ष्यन्ते। ते गुणाः सन्ति चेदेव किमपि मूल्यमापनसाधनम् उत्तमं स्वीकार्यं च अस्ति इति उच्यते। 

ते आवश्यकगुणाः एवं सन्ति–

१) *सप्रमाणता* (Validity)

२) *विश्वसनीयता* (Reliability)

३) *वस्तुनिष्ठता* (Objectivity)

४) *पर्याप्तता* (Adequacy)

५) *सुलभता* (Usability)

६) *भेदक्षमता* (Discriminative Power)

जते सर्वे गुणाः परस्परम् अवलम्बन्ते। उदाहरणार्थं किमपि साधनं यदि पर्याप्तं नास्ति तर्हि तत् सप्रमाणं विश्वसनीयमपि न स्यात्। 

इदानीम् एतेषां गुणानां विषये विवेचनं कुर्मः।

१) सप्रमाणता– यस्याः क्षमतायाः मापनं वयं कर्तुम् इच्छामः तस्याः एव क्षमतायाः मापनं यदि परीक्षाद्वारा भवति तर्हि सा परीक्षा सप्रमाणा  वर्तते। 

केनापि शिक्षकेण छात्रस्य अभिव्यक्तिक्षमतायाः मापनार्थं कापि परीक्षा विहिता। तथापि परीक्षायां समानार्थकविरुद्धार्थकशब्दानां लेखनं, कवितायाः सारांशस्य लेखनं एतादृशाः एव प्रश्नाः आसन्। एतैः प्रश्नैः छात्रस्य अभिव्यक्तिकौशलस्य अपेक्षया तस्य स्मरणकौशलमेव परीक्षितम्। अतः परीक्षा सप्रमाणा नासीत्।

प्रयोगोपकरणानां कौशलयुक्तोपयोगं परीक्षितुं प्रात्यक्षिकपरीक्षा एव योग्या। तत्स्थाने लेख्यपरीक्षां स्वीकृत्य प्रयोगोपकरणानां विषये प्रश्नकरणं न युज्यते।

कस्यापि शिक्षकस्य कार्यस्य मूल्यमापनं यदि तस्य दर्शनीयरूपस्य आधारेण, वरिष्ठानां पुरतः तस्य लाङ्गूलचालनस्य वा आधारेण क्रियते तर्हि तन्न योग्यम्। अतः तादृशपरीक्षणविधौ सप्रमाणता न विद्येत।

सप्रमाणता इत्येषा सापेक्षसंज्ञा। उदाहरणार्थं सङ्कलनं, व्यवकलनं, गुणनं भाजनं एताः चतस्रः गणितक्षमताः मापयितुं निर्मिते प्रश्नपत्रे सर्वे प्रश्नाः एतासां क्षमतानामेव मापनाय पृष्टाः तर्हि तस्याः परीक्षायाः सप्रमाणता उत्तमा। तथापि छात्रस्य तर्कशक्तेः विकासं निश्चेतुं सैव परीक्षा उपयुज्यते चेत् तस्याः सप्रमाणता न्यूना एव स्यात्। भाषिककौशलानि परीक्षितुं स्वीकृता परीक्षा तत्कौशलविषये सप्रमाणा तथापि गणितीयकौशलानि मापयितुं तस्याः सप्रमाणता शून्या एव।

यत्र प्रश्नानां भाषा क्लिष्टा, अपरिचिता वा अस्ति , यदि प्रश्नाः अत्यन्तं सुलभाः, कठिनाः वा सन्ति, प्रश्नानां गुणवत्ता उत्तमा नास्ति, उद्दिष्टानुसारं प्रश्नाः न पृष्टाः सन्ति, परीक्षां लेखितुं दत्तः समयः अपर्याप्तः अस्ति, उत्तरस्य आशयं दूरं विहाय छात्रस्य सुन्दरम् असुन्दरं वा हस्ताक्षरं दृष्ट्वा अङ्कदानं भवति, प्रश्नपत्रे उत्तरलेखनविषये दत्ताः सूचनाः सन्दिग्धाः सन्ति  तर्हि परीक्षायाः सप्रमाणतायाः महती हानिः भवेत्।

२) विश्वसनीयता– परीक्षा भिन्नभिन्नसमये भिन्नभिन्नछात्रैः स्वीकृता चेदपि क्षमतानां मापने यदि सुसङ्गतिः दृश्यते तर्हि तस्यां परीक्षायां विश्वसनीयतागुणः अस्ति। 

यदि अङ्कदानसमये एकस्यैव उत्तरपत्रस्य परीक्षणं कृत्वा भिन्नभिन्नशिक्षकाः भिन्नान् अङ्कान् दद्युः तर्हि तस्याः परीक्षायाः विश्वसनीयता न्यूना।

विश्वसनीयतां निश्चेतुम् उपायाः– 

१) पुनर्परीक्षा– एकेन छात्रसमूहेण परीक्षा लिखिता। तेभ्यः छात्रेभ्यः अङ्कदानं कृत्वा पुनः कतिचिद्दिनानन्तरं तस्मै एव छात्रसमूहाय सैव परीक्षा दातव्या। प्राप्ताङ्काः यदि किञ्चित् न्यूनाधिक्यं विहाय समानाः एव प्राप्यन्ते चेत् परीक्षा विश्वसनीया भवेत्।

२) समान्तरप्रश्नपत्राणि– प्रश्नप्रकाराः, प्रश्नानां काठिन्यस्तरः प्रश्नसङ्ख्या इत्यादीन् बिन्दून् समानान् रक्षित्वा प्रश्नपत्रद्वयस्य निर्माणं करणीयम्। एकस्मै एव छात्रसमूहाय भिन्नकालयोः प्रश्नपत्रद्वयं दत्त्वा छात्राणां प्राप्ताङ्काः परीक्ष्यन्ते। यदि प्राप्ताङ्काः प्रायः समानाः तर्हि परीक्षायाः विश्वसनीयता उत्तमा।

३) प्रश्नपत्रस्य भाजनम्– प्रश्नपत्रम् अर्धं विभज्य प्रथमार्धं छात्रसमूहाय दीयते। अनन्तरं द्वितीयार्धम्। उभयत्र प्राप्तान् अङ्कान् परीक्ष्य प्राप्ताङ्कानां सहम्बन्धः निश्चीयते। 

प्रश्नपत्रस्य दैर्घ्यं , उत्तरपत्रिकाणाम् अङ्कने विद्यमाना वस्तुनिष्ठता, परीक्षास्थले विद्यमानं वायुमण्डलम् इत्यादीनाम् अंशानाम् अनुसारेण विश्वसनीयता न्यूनाधिका भवति।

सप्रमाणता तथा विश्वसनीयता–

कापि परीक्षा विश्वसनीया अस्ति अतः सा सप्रमाणा भवेदेव इति यथार्थतया वक्तुं न शक्यते। मूलभूतानां गणितीयक्षमतानां मापनार्थं निर्मितं प्रश्नपत्रं यद्यपि तत्क्षमतापरीक्षणार्थं सप्रमाणं ; सुसङ्गतरीत्या तासां क्षमतानां मापनं करोति अतः विश्वसनीयमपि तथापि भाषाक्षमतां मापयितुं तत् प्रामाण्यरहितम्। 

अत उच्यते यत् सप्रमाणा परीक्षा विश्वसनीया भवति एव । तथापि विश्वसनीया परीक्षा सप्रमाणा स्यादेव इति न नियमः। तथापि या विश्वसनीया नास्ति सा परीक्षा सप्रमाणा नैव भवेत्।

३) वस्तुनिष्ठता –

उत्तराणाम् अङ्कने यदि परीक्षकस्य वैयक्तिकमतानां प्रभावः दृश्येत चेत् सा परीक्षा वस्तुनिष्ठतां विहाय व्यक्तिनिष्ठा भवेत्।

एकमेव उत्तरपत्रम् एकेनैव परीक्षकेण भिन्नभिन्नसमये परीक्षितं चेदपि अथवा एकमेव उत्तरपत्रं भिन्नभिन्नपरीक्षकैः परीक्षितं चेदपि प्राप्ताङ्केषु भिन्नता न भवति तर्हि सा परीक्षा वस्तुनिष्ठा भवेत्। 

दीर्घोत्तरप्रश्नानाम् अङ्कने व्यक्तिनिष्ठता दृग्गोचरा भवति। अतः तेषाम् आदर्शोत्तराणि विलिख्य अङ्कदानयोजना सज्जीक्रियते चेत् व्यक्तिनिष्ठतायाः प्रभावः न्यूनीभवेत्। परीक्षायां दीर्घोत्तरप्रश्नाः न्यूनमात्रया तथा च वस्तुनिष्ठप्रश्नाः अधिकमात्रया पृच्छ्यन्ते चेदपि व्यक्तिनिष्ठता न्यूना भवति।

४) पर्याप्तता –

ज्ञानम् , आकलनम्, उपयोजनम् , कौशलम् , अभिव्यक्तिः इत्यादीनां सर्वेषाम् उद्दिष्टानां परीक्षणं परीक्षाद्वारा भवतु इति अपेक्षा।  

चिन्तयन्तु यत् एकस्यां परीक्षायां ४०० प्रश्नाः सन्ति। तैः उपर्युक्तानां सर्वेषाम् उद्दिष्टानां मापनं भवेत् यतः सर्वं पाठ्यपुस्तकम् आधारीकृत्य तथा च सर्वेषाम् उद्दिष्टानां परीक्षणं कर्तुं समर्थाः प्रश्नाः तस्यां योजिताः सन्ति।

तथापि प्रत्येकं विषयम् अधिकृत्य एतावद्दीर्घप्रश्नपत्रनिर्माणं न शक्येत। अतः परीक्षकेण केवलं चत्वारः एव प्रश्नाः प्रश्नपत्रिकानिर्माणसमये स्वीकृताः। एते प्रश्नाः इदानीं सर्वेषाम् उद्दिष्टानां मापनार्थं पर्याप्ताः न भवेयुः। यतः पाठ्यपुस्तके विद्यमानानां केषाञ्चन घटकानां विषये एव ते प्रश्नाः सन्ति। अन्ये घटकाः अत्र विमृष्टाः न भवन्ति। अतः एतत् प्रश्नपत्रम् अपर्याप्तम्। 

सर्वेषां घटकानां समावेशः, सर्वेषाम् उद्दिष्टानां परीक्षणं ४०० प्रश्नैः भवति अतः पूर्वतनप्रश्नपत्रस्य पर्याप्तता उत्तमा तथापि तत्र अव्यवहार्यता अधिका।  द्वितीये पर्याप्तता नास्त्येव। अतः मध्यममार्गं स्वीकृत्य प्रश्नपत्रे सर्वघटकानां समावेशः भवेत् एवंरीत्या २० /३० प्रश्नाः योजिताश्चेत् पर्याप्ततागुणः वर्धेत।

आम्रान् क्रेतुं गच्छामश्चेत् प्रत्येकम् आम्रं परीक्ष्य क्रयणं यद्यपि योग्यं तथापि तदव्यवहार्यम्। अतः प्रातिनिधिकरूपेण एकं वा द्वे वा आम्रफले गृहीत्वा वयं परीक्षणं कुर्मः। तथैव अत्र स्थितिः द्रष्टव्या।

५) सुलभता –

परीक्षायाः सप्रमाणता तथा विश्वसनीयता एतौ द्वौ प्रारम्भिकगुणौ अत्यन्तं महत्त्वपूर्णौ। तथापि एतौ स्यातां चेदपि परीक्षायाः सौलभ्यं नास्ति चेत् तस्याः परीक्षयाः उपयोगः दुष्करः। अतः परीक्षा सुलभा, व्यवहार्या वा भवेत्।

सुलभतागुणस्य मानकानि एवं सन्ति–

अ) परीक्षाचालने सौकर्यम्– परीक्षालेखनार्थं दत्ताः सूचनाः स्पष्टाः, असन्दिग्धाश्च भवेयुः। परीक्षालेखनार्थं पर्याप्तः समयः दत्तः अस्ति चेत् परीक्षास्वीकारः सुलभः भवति।

आ) प्रश्नपत्राणां परीक्षणे सुलभता – वस्तुनिष्ठप्रश्नानाम् अधिकप्रमाणेन समावेशः प्रश्नपत्रे भवति चेत् तस्य अङ्कनं सुलभं भवति।

इ) प्राप्ताङ्कानाम् अर्थस्पष्टीकरणम् – परीक्षायां ये अङ्काः प्राप्ताः तेषां कः अर्थः इति स्पष्टम् अस्ति चेत् सुलभतागुणः वर्धते।

ई) न्यूनव्ययः – प्रश्नपत्रिकाणां मुद्रणं, परीक्षासञ्चालनम् , उत्तरपत्रिकाणाम् अङ्कनम् इत्यादीनां कृते यः धनव्ययः क्रियते सः अल्पः अस्ति चेत् परीक्षायाः सुलभता वर्धेत।

उ) समान्तरप्रश्नपत्राणि –प्रश्नप्रकाराः, प्रश्नसङ्ख्या, प्रश्नानां काठिन्यस्तरः एतद्दृष्ट्या समानानि नैकानि प्रश्नपत्राणि  उपलब्धानि सन्ति चेत् एकस्य प्रश्नपत्रस्य स्थाने अपरस्य दानं सहजतया शक्यम्। तेन सौलभ्यं वर्धते। एतादृशपर्यायप्रश्नपत्रस्य दानं विशेषतया संशोधनक्षेत्रे अत्यावश्यकम् अस्ति।

६) भेदक्षमता –

मूल्यमापने एषा अपेक्षा विद्यते यत् मूल्यमापनाधारेण वयं प्रत्येकं छात्रस्य इतरेषाम् अपेक्षया विशिष्टं स्थानं निश्चेतुं प्रभवेम। तेन छात्राणां वर्गीकरणं कृत्वा तेषाम् आवश्यकतानुसारं तेभ्यः मार्गदर्शनं सुकरं भवेत्। 

कस्याञ्चित् परीक्षायां यदि बहवः छात्राः शतं प्रतिशतम् अङ्कान् प्राप्नुवन्ति तर्हि एतत् वर्गीकरणं स्तरनिश्चितिः वा न शक्या भवति। अतः तस्याः परीक्षायाः भेदक्षमता न्यूना इति वयं वदामः।

छात्राणां गृहपाठानां मूल्यमापने यदि शिक्षकः 'उत्तमः' 'समाधानकारकः' 'साधारणः' एतादृशान् अभिप्रायान् लिखति तर्हि एतेषां शब्दानां स्पष्टार्थस्य प्रतीतिः न भवति। अतः कक्ष्यायां विद्यमानानां छात्राणां लेखने यः भेदः अस्ति सः न अवगम्यते। एतेन शिक्षकस्य अभिप्रायलेखनं निरर्थकं भवेत्। अतः परीक्षणार्थम् उपयुज्यमानेषु साधनेषु एषा भेदक्षमता आवश्यकी।