अध्यापनशास्त्रं (pedagogy) नाम अध्यापनप्रक्रियायाः अध्ययनम्। अध्यापनस्य पद्धतयः अध्यापनशास्त्रे अतीव महत्त्वम् आवहन्ति। अध्यापनशास्त्रे कला तथा विज्ञानस्य संयोगः दृश्यते।
पाश्चात्त्यदेशेषु सुकरातः (Socrates) अध्यापनशास्त्रस्य जनकः इति मन्यते। पूर्वतनकाले भारते अध्यापनप्रक्रियायाः पृथक्शास्त्ररूपेण विचारः नाभवत्। तथापि भारतीयानां सर्वं शिक्षणं गुरुकुलपद्धत्या भवति स्म। गुरुकुले पाठयन्तः अध्यापकाः बहूनाम् अध्यापनपद्धतीनाम् आविष्कारं कृतवन्तः। तासु काश्चन पद्धतयः आधुनिककाले उपयुज्यमानाभिः पद्धतिभिः सह स्वस्य आश्चर्यकारकं साम्यं दर्शयन्ति।
संस्कृतक्षेत्रे उपयुक्ताः उपयुज्यमानाः वा अध्यापनपद्धतयः प्राचीनपद्धतयः अर्वाचीनपद्धतयः चेत्येवं द्विविधाः। आङ्ग्लशासनकालात् पूर्वम् उपयुज्यमानाः प्राचीनाः आङ्ग्लकाले तदनन्तरं वा उपयुज्यमानाः अर्वाचीनाः इति वक्तुं शक्यते।
आङ्ग्लकालात् पूर्वं भारते गुरुकुलेषु सर्वं शिक्षणं संस्कृतमाध्यमेन भवति स्म। वेदवेदान्तमीमांसान्यायव्याकरणादयः विषयाः तत्र पाठ्यन्ते स्म। एतेषां पाठनार्थं याः पद्धतयः पूर्वसूरिभिः ऋषिभिश्च उपयुज्यन्ते स्म तेषु आहत्य द्वादशानाम् प्राचीनाध्यापनपद्धतीनां विवरणं सङ्क्षेपेण अत्र दीयते।
@ प्राचीनपद्धतयः--
१) मौखिकपद्धतिः/सन्थापद्धतिः (Oral Instruction) --
वैदिकीः ऋचः श्लोकाः वा एतया पद्धत्या पाठ्यन्ते स्म। वैदिकजनानां मतम् आसीत् --
पुस्तकस्था तु या विद्या परहस्तगतं धनम्।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम्।।
अर्थात्-- या विद्या केवलं पुस्तके तिष्ठति यच्च धनं परस्य आधीन्ये भवति तस्याः विद्यायाः तस्य धनस्य वा कार्यप्रसङ्गे उद्भूते किञ्चिदपि उपयोगः न भवति। यत् स्मृतौ सम्यक् तिष्ठति तदेव कार्यकाले उपयोगाय भवति।
वेदमन्त्राणाम् उपयोगः यज्ञे भवति स्म। निर्विघ्नतया मन्त्रोच्चारणार्थं वेदमन्त्राणां सम्यक् स्मरणमेव आवश्यकम् आसीत्। तत्र पुस्तके लिखितस्य किं प्रयोजनम्? अतः सर्वः भरः मौखिकशिक्षणे आसीत्। वेदानां लेखनं निषिद्धम् आसीत्। भगवान् व्यासः वदति-- वेदानां लेखकाश्चैव सर्वे निरयगामिनः। मौखिकपद्धत्या गुरोः उच्चारणं श्रुत्वा श्रुत्वा वेदज्ञानस्य प्रापणात् वेदस्य 'श्रुतिः' इति अभिधानम् आगतम्।
एतस्य अर्थः एवं नास्ति यत् भारतीयाः लेखनकलामेव न जानन्ति स्म। यज्ञरूपव्यवहारस्य आवश्यकताः मनसि निधायैव लेखनस्य अपेक्षया मौखिकपद्धतौ भरः दत्तः आसीत्।
ऋचां कण्ठस्थीकरणार्थं गुरुः शिष्यं मन्त्रोच्चारणं अप्रामादिकरीत्या कथं करणीयम् इति द्विवारं दर्शयति स्म। तदा छात्रः वेदमन्त्रस्य अनूच्चारणं करोति स्म। एतस्य नाम अस्ति सन्था। अनन्तरं शिष्यः स्वयमेव मन्त्रोच्चारणं वारं वारं कृत्वा मन्त्रं कण्ठस्थं करोति स्म। गुरुः प्रत्येकं शिष्यं प्रति वैयक्तिकम् अवधानं दत्त्वा तस्य उच्चारणदोषान् निवारयति स्म। कण्ठस्थीकरणस्य कृते चरणः, अर्धनी, ऋक्, गुण्डिका एषः क्रमः आसीत्।
अ) प्रत्येकं ऋचः चत्वारः चरणाः विद्यन्ते। तेषु प्रत्येकं चरणस्य शिष्यः सप्तवारं उच्चारणावृत्तिं करोति स्म।
आ) अर्धनी इत्यस्यार्थः ऋचः अर्धम् चरणद्वयात्मकम् एकपङ्क्यात्मकं वा। एतस्याः पङ्क्तेः सप्तवारम् आवर्तनं भवति स्म।
इ) अनन्तरं शिष्यः प्रत्येकं ऋक् तथा च अग्रिमर्चः आद्यां पङ्क्तिं सप्तवारम् आवर्तयति स्म। एतेन पूर्वस्याः ऋचः अग्रिमर्चा सह सम्बन्धः मनसि दृढीभवति स्म।
ई) अन्तिमसोपाने सम्पूर्णसूक्तस्य सप्तवारम् आवर्तनं नाम गुण्डिका।
एतया पद्धत्या कण्ठस्थीकृतं स्मृतौ तावत् दृढं भवति येन सहस्रे वर्षेषु गतेष्वपि वेदवाङ्मयम् अद्यापि यथावत् उच्चारणप्रमादरहितं विकृतिरहितं च तिष्ठति।
तथापि एतस्मात् एवं न मन्तव्यं यत् एतत् सर्वं पाठनम् अर्थावबोधरहितं आसीत् इति। गुरवः व्याख्यापद्धत्या मन्त्रार्थान् शिष्येभ्यः कथयन्ति स्म। एतस्याः पद्धतेः विवरणम् अनन्तरं दीयते। निर्थकं केवलं कण्ठस्थीकरणं हेयमिति भावना आसीत् अतः यास्कः वदति--
स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम्।
योऽर्थज्ञ इत्सकलं भद्रमश्नुने नाकमेति ज्ञानविधूतपाप्मा।।
यः वेदम् अधीत्य अपि तस्य अर्थं न जानाति सः केवलं भारवाहकः स्थाणुः एव। यः वेदार्थं जानाति सः सर्वं कल्याणं प्राप्नोति,पापरहितः भूत्वा स्वर्गं गच्छति च।
२) पारायणपद्धतिः (Recitation Method)--
अर्थं प्रति अवधानम् अदत्त्वा वेदमन्त्राणां सस्वरः पाठः पारायणम् इति उच्यते। यः पारायणं करोति सः पारायणिकः। अत्र गुरोः कार्यं न्यूनं शिष्यस्यैव प्रधानम्। पारायणसमये एकप्रमादकारिणं एकनयिकः प्रमादद्वयं कुर्वाणं द्व्यनयिकः तिस्रः अशुद्धीः कुर्वाणं त्र्यनयिकः एवं वदन्ति स्म।
पारायणपद्धत्याः कृते 'पाठः' इति संज्ञा आसीत्। पाठस्य ११ पद्धतयः आसन्। तेषु त्रयः प्रकृतिपाठाः अष्ट च विकृतिपाठाः इति उच्यन्ते।
संहितापाठः, पदपाठः, क्रमपाठः च इति त्रयः प्रकृतिपाठाः सन्ति। प्रकृतिपाठेषु ऋचः पदानां क्रमः परिवर्तितः न भवति स्म।
मधुशिक्षानामके शिक्षाग्रन्थे प्रोक्तम्--
भगवान् संहितां प्राह पदपाठस्तु रावणः।
बाभ्रव्यर्षिः क्रमं प्राह जटां व्याडिरवोचत्।।
संहिता प्रथमम् ईश्वरेणैव दृष्टा। तस्याः पदपाठस्य द्रष्टा अस्ति रावणः। क्रमपाठस्य द्रष्टा अस्ति बाभ्रव्यः।
संहितापाठे ऋचां सन्धिसहितं यथास्थितम् उच्चारणं भवति। पदपाठे सन्धिविच्छेदं कृत्वा पदानां पृथक् पृथक् उच्चारणं भवति। प्रत्येकं वेदस्य शाखानुसारं पदपाठानामपि पृथक् ऋषयः उल्लिखिताः। यथा शाकल्यनामकः ऋषिः ऋग्वेदस्य शाकलशाखायाः पदपाठं रचितवान्। यजुर्वेदस्य तैत्तिरीयशाखायाः पठपाठम् आत्रेयः तथा च सामवेदस्य कौथुमशाखायाः पदपाठं गार्ग्यः कृतवान्।
क्रमपाठे ऋचः पदानां १-२ , २-३ ,३-४ एवम् उच्चारणं भवति।
जटा माला शिखा रेखा ध्वजो दण्डो रथो घनः।
अष्टौ विकृतयः प्रोक्ताः क्रमपूर्वा महर्षिभिः॥
जटा, माला, शिखा, रेखा, ध्वजः, दण्डः, रथः, घनः एते अष्ट विकृतिपाठाः सन्ति। एतेषु ऋचः पदानां क्रमं परिवर्त्य पठनं भवति। जटापाठस्य ऋषिः व्याडिः, मालापाठस्य वसिष्ठः, शिखापाठस्य भृगुः, रेखापाठस्य अष्टावक्रः, ध्वजपाठस्य विश्वामित्रः,दण्डपाठस्य पराशरः, रथपाठस्य कश्यपः तथा च घनपाठस्य ऋषिः अत्रिः अस्ति।
तथापि एषा पद्धतिः यान्त्रिकी। वेदरक्षणाय यद्यपि बहूपयुक्ता तथापि वेदार्थज्ञानार्थं तस्याः उपयोगः नास्ति। पतञ्जलिना उक्तम् यत् --
अदधीतमविज्ञातं निगदेनैव शब्द्यते।
अनाग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित्।।
यथा अग्नेः अभावे शुष्कं काष्ठं प्रज्ज्वालयितुं न शक्यते तथा अर्थरहितं पठनं निष्फलं भवति।
३) प्रश्नपद्धतिः (Question-Answer Method) --
अनया पद्धत्या गभीरविषयाणां पाठनं गुरवः कुर्वन्ति स्म। एकस्मिन् पाठे ६० प्रश्नाः भवन्ति स्म। तेषाम् उत्तरदाने विषयस्पष्टीकरणार्थं गुरुः आख्यायिकाः कथाः विविधोदाहरणानि कथयति स्म।
अथर्ववेदस्य प्रश्नोपनिषदि षट् छात्राः पिप्पलादनामकं गुरुं प्रश्नान् पृच्छन्ति। गुरुश्च तेभ्यः उत्तराणि ददाति। भगवता शङ्कराचार्यस्य प्रश्नोत्तररत्नमालिका नामकः ग्रन्थः अपि एतस्याः पाठनपद्धतेः उत्तमम् उदाहरणम् अस्ति। बौद्धसाहित्ये मिलिन्दप्रश्नः नामकः ग्रन्थः अपि एतस्याः पद्धतेः निदर्शकः। एतस्मिन् ग्रन्थे मिनँडरनामकः यवनराजः नागसेननामकं बौद्धभिक्षुं धर्मविषयकान् प्रश्नान् पृच्छति।
४) दिग्दर्शनपद्धतिः (Demonstration Method) --
छान्दोग्योपनिषदि आगता उद्दालक-श्वेतकेतुकथा एतस्याः पद्धतेः निर्देशिका। यदा श्वेतकेतोः पिता उद्दालकः तं पृच्छति यत् भवान् अधिकं पठितुम् इच्छति अथवा विवाहं कर्तुम् इच्छति? तदा श्रेतकेतुः 'एकवारं जनकस्य सभां जेष्यामि, तदनन्तरं भवतः वचनानुसारं करिष्यामी'ति दर्पेण वदति।
तस्य दर्पयुक्तं वचः श्रुत्वा चिन्ताकुलः उद्दालकः तस्य दर्पम् अपनेतुं तं ब्रह्मविषयकान् प्रश्नान् पृच्छति। श्वेतकेतोः ब्रह्मविषयकम् अज्ञानं ज्ञात्वा 'ब्रह्म सर्वस्य जगतः मूलकारणम्'इति सः स्पष्टीकरोति। तदर्थं सः श्वेतकेतुना विविधान् प्रयोगान् कारयति। तत्र लवणद्रावणस्य दृष्टान्तः प्रसिद्धः। सः श्वेतकेतुं लवणं जले मिश्रयितुं वदति । यथा लवणं जले सर्वत्र व्याप्तं तदा ब्रह्मापि सर्वस्मिञ्जगति व्याप्तमिति उक्त्वा 'तत् त्वमसि' इति महावाक्यम् उपदिशति।
५) सूत्रपद्धतिः (Aphoristic Method) --
पूर्वतनकाले मौखिकपद्धत्या पाठने सर्वः भरः आसीत् इति पूर्वम् उक्तम्। अतः व्याकरणमीमांसावेदान्तादिशास्त्राणां तत्त्वानि नियमाः वा स्मृतौ उत्तमरीत्या तिष्ठेयुः एतदर्थं तेषां सङ्क्षेपकरणम् आवश्यकम् अभवत्। ततश्च सूत्रवाङ्मयस्य आरम्भः अभवत्। एकस्मिन् एव सूत्रे महार्थः निवेशितः भवति स्म। सूत्रं सङ्क्षिप्तं भवतु इत्यर्थम् एतावत् प्रयत्नाः क्रियन्ते स्म यत् 'अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः' एतादृश्यः उक्तयः प्रचलिताः अभवन्। यद्यपि सूत्रं सङ्क्षिप्तं तथापि सूत्रस्य अर्थावगमः सन्दिग्धः न भवेत् तदर्थमपि सूत्रकाराः अवहिताः आसन्।
सूत्रस्य व्याख्या एवं क्रियते--
अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः।।
यस्मिन् अल्पसङ्ख्यया अक्षराणि सन्ति, यस्य अर्थावगमे सन्देहः न विद्यते, यत् विषयस्य सारं कथयति, यत् आडम्बररहितं निर्दुष्टं चास्ति तत् सूत्रमिति सूत्रस्य वेत्तारः वदन्ति।
सूत्रपद्धतेः उपयुक्ततां दृष्ट्वा बहुप्रकारकाः सूत्रग्रन्थाः निर्मिताः अभवन्। शिक्षा, कल्पः व्याकरणं, निरुक्तं, छन्दः, ज्योतिषम् इत्येतानि षट् वेदाङ्गानि। तेषु प्रायः सर्वेषु अङ्गेषु सूत्रग्रन्थानां निबन्धनम् अभवत्। यथा पाणिनेः आपिशलेश्च शिक्षासूत्राणि प्रसिद्धानि। कल्पः नामकं वेदाङ्गं सूत्रबद्धमेव वर्तते। वेदविहितकर्मणाम् आनुपूर्व्येण कल्पनशास्त्रं कल्पः। तत्र यज्ञविधानप्रतिपादकानि श्रौतसूत्राणि, गृहसंस्कारगृहयज्ञादिपराणि गृह्यसूत्राणि तथा च वर्णाश्रमधर्मप्रतिपादकानि धर्मसूत्राणि इत्येवं कल्पसूत्राणि त्रिविधानि। व्याकरणे पाणिनिसूत्राणि तु प्रसिद्धान्येव। पिङ्गलस्य छन्दःसूत्राणि अपि ख्यातानि।
षड्दर्शनेषु गौतमस्य न्यायसूत्राणि, कणादस्य वैशेषिकसूत्राणि, कपिलस्य साङ्ख्यसूत्राणि, पतञ्जलेः योगसूत्राणि, व्यासस्य शारीरकसूत्राणि, जैमिनेः च मीमांसासूत्राणि एवमपारो सूत्रग्रन्थविस्तरः।
सूत्राणां पाठने तेषां कण्ठस्थीकरणमेव प्रथमं सोपानम्। तदर्थं पारायणपद्धतेः उपयोगः भवति स्म। अनन्तरसोपानम् अस्ति सूत्रस्य प्रत्येकं पदस्थ व्याख्यानम्। तदर्थं व्याख्यापद्धतेः उपयोगः भवति स्म। अतः वयं व्याख्यापद्धतिं विवेचयामः।
६) व्याख्यापद्धतिः (Commentary Method/Explanation Method)--
पठितस्यार्थबोधः व्याख्यायाः प्रमुखम् उद्दिष्टम् अस्ति। सूत्रं यद्यपि सङ्क्षिप्तम् असदिग्धं दोषरहितम् इत्यादिः उक्तं तथापि सूत्रस्य अर्थावगमः प्रायः सुलभः नास्ति। प्रथमं सूत्रस्थपदेषु विद्यमानाः सन्धयः विग्रहीतव्याः। अनन्तरं सूत्रस्थस्य प्रत्येकं पदस्थ अर्थबोधनम् आवश्यकम्। कुत्रचित् कस्यचन पदस्य अध्याहारः अथवा पूर्वसूत्रात् अनुवर्तनं (carrying over) आवश्यकम् । एवं सम्पूर्णसूत्रस्य अधिगमनात् अनन्तरं सूत्रस्थविषयः स्पष्टीकर्तव्यः। तदर्थं विविधानि उदाहरणानि देयानि। प्रतिपाद्यवस्तुषु केचन आक्षेपाः सन्ति चेत् तेषां समाधानमपि करणीयम्। एषा प्रक्रिया एव व्याख्या इति कथ्यते। अतः कश्चन कविः वदति--
पदच्छेदः पदार्थोक्तिः विग्रहो वाक्ययोजनम्।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं स्मृतम्।
ब्राह्मणग्रन्थाः वेदसंहितानां व्याख्याः एव सन्ति। भगवता शङ्कराचार्येण लिखितानि उपनिषद्ब्रह्मसूत्रभाष्यान्यपि व्याख्यापद्धतेः एव उदाहरणानि।
७) अप्रत्यक्षपद्धतिः (Indirect Method)--
आधुनिककाले यः ज्ञानरचनावादः इति कथ्यते तस्मिन् पारम्पारिकं अध्यापकच्छात्रयोः सम्बन्धे परिवर्तनं लक्ष्यते। अध्यापकः पाठकस्य भूमिकायाः अपेक्षया अध्ययनसहायकः भवेदिति विचारः। केवलं तेन विद्यार्थिनाम् अध्ययनार्थं परिवेशस्य निर्माणं करणीयम्। अध्ययनं सुचारुरीत्या प्रचलेत् तदर्थं मार्गदर्शनं नियन्त्रणं च करणीयम्। एतस्य विचारस्य अवलम्बनम् अप्रत्यक्षपाठनपद्धतौ क्रियते।
एषा पद्धतिः अपि उपनिषत्कालात् भारतीयैः उपयोजिता आसीत् इति दृश्यते। तैत्तिरीयोपनिषदि भृगुवल्ल्यां वरुणस्य पुत्रः भृगुः स्वपितुः वरुणात् ब्रह्मोपदेशम् इच्छति। तदा साक्षात् ब्रह्म किम् इति ब्रह्मणः स्वरूपलक्षणम् अनुक्त्वा वरुणः तं ब्रह्मप्राप्तेः द्वाराणि अन्नं प्राणः चक्षुः श्रोत्रं मनः वाक् चेत्येतानि कथयति।
अनन्तरं ब्रह्मणः तटस्थलक्षणं वदति--यतो वा इमानि भूतानि जायन्ते इत्यादिः। भृगुः स्वयमेव तपः तप्त्वा अन्नं , प्राणः, मनः, विज्ञानं, आनन्दः इत्यादिरूपं ब्रह्म साक्षात्करोति।
छान्दोग्ये सत्यकामजाबालेः कथा अस्ति। जाबालिः गौतर्षिं प्राप्य ब्रह्मोपदेशं प्रार्थयते। तदा साक्षात् उपदेशम् अदत्त्वा गौतमः तं गोचारणाय प्रेषयति। तत्र जाबालिः स्वयमेव निसर्गात् ब्रह्मोपदेशं प्राप्य ब्रह्मविद्भवति।
बृहदारण्यके अन्या एका कथा यत्र देवमनुष्यराक्षसाः स्वपितुः ब्रह्मदूवस्य सकाशात् उपदेशम् इच्छन्ति। तदा ब्रह्मा तेभ्यः दकारम् उपदिशति। देवाः दकारस्यार्थः 'दमः' इति , मानवाः 'दानम्' इति दानवाश्च 'दया' इति अवगच्छन्ति।
एवं साक्षात् पूर्णरूपेण अपाठयित्वा अप्रत्यक्षरीत्या पाठनस्य एतादृशानीमानि उदाहरणानि संस्कृतक्षेत्रे आ बहोः कालात् उपलभ्यन्ते।
८) वादविवादपद्धतिः (Debate Method)
व्याख्यापद्धतेः उपयोगः अपि प्राचीनकालात् एव संस्कृतक्षेत्रे भवति स्म। व्याख्यापद्धतौ अधिकरणविषयके श्लोके यदुक्तं सैव पद्धतिः वादविवादार्थम् उपयुज्यते स्म। तथापि व्याख्यापद्धतौ विषयोपस्थापनात् आरभ्य निर्णयकथनपर्यन्तं सर्वविधं कार्यं शिक्षकस्य एव अस्ति। अत्र पक्षद्वये तद्विभक्तम्।
विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम्।
निर्णयश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम्।।
विषयोपस्थापनं, विषये याः आशङ्काः (विशयाः) तासां प्रकटीकरणं, तद्विषये पूर्वपक्षस्य उत्तरपक्षस्य च कथनं तथा अन्ते चर्चायाः निष्कर्षः एवम् अधिकरणनाम्नः ग्रन्थांशस्य विभागाः। एतानि एव वादस्य सोपानानि।
वादविवादपद्धत्याः प्रथमं व्यवस्थितवर्णनं चरकसंहितायाः विमानस्थाननामके अध्याये प्राप्यते। तत्र सन्धायसम्भाषा विगृह्यसम्भाषा चेति द्विविधः वादः प्रोक्तः। सन्धायसम्भाषायां सिद्धान्तस्य प्राप्त्यर्थं मैत्रीपूर्णः वादः भवति अपरस्यां स्वमतस्य श्रेष्ठत्वसिद्ध्यर्थं शत्रुत्वयुक्तः वादः भवति।
न्यायशास्त्रे वाद-विवादस्य प्रकारत्रयमुक्तम्-- वादः जल्पः वितण्डा च। तत्र वादः नाम चरकस्य सन्धायसम्भाषा। जल्पः वितण्डा च उभौ विगृह्यसम्भाषायां समाविष्टौ। जल्पे स्वसिद्धान्तस्य श्रेष्ठत्वस्थापनार्थं विवादो भवति। वितण्डायां स्वसिद्धान्तस्य अभावे अपि परमते दोषदर्शनं कुर्वन्ति।
९) कथाकथनपद्धतिः (Story-telling Method)--
भारतीयाः कथानां मनःसु प्रभावः तासां पाठनक्षमतां च सम्यक् अवगच्छन्ति स्म। आबालवृद्धाः कथाश्रवणाय उत्सुकाः भवन्ति। अतः कथाकथनद्वारा पाठनस्य पद्धतिः भारते विकसिता अभवत्।
उपनिषद्वाङ्मये बह्व्यः कथाः उपलभ्यन्ते। पञ्चतन्त्रं तथा हितोपदेशः इत्येते तु कथामाध्यमेन पाठनस्य उत्कृष्टोदाहरणे। अमरशक्तिनाम्नः राज्ञः त्रयः पुत्राः अनध्ययनशीलाः। तान् पाठयितुम् अभिजानीते विष्णुशर्मा नाम पण्डितः। सः तान् राजपुत्रान् विविधरोचकथानां माध्यमेन षण्मासाभ्यन्तरे नीतिनिपुणानन् व्यवहारज्ञान् च करोति। पञ्चतन्त्रादेव काश्चन कथाः स्वीकृत्य नारायणपण्डितेन हितोपदेशः रचितः। वेतालपञ्चविंशतिका इत्यस्मिन् ग्रन्थेऽपि कथामाध्यमेनैव व्यवहारज्ञानं दीयते। एवं कथामाध्यमेन अध्यापनस्य प्राचीना परम्परा भारते विद्यते।
१०) कक्ष्यानायकपद्धतिः (Monitorial Method) --
गुरुकुले २०० तः २००० विद्यार्थिनः पठन्ति स्मः। एकः एव गुरुः तान् सर्वान् पाठयितुं न क्षमते स्म। अतः ये अधिकवयस्काः कृताध्ययनाः बुद्धिमन्तः छात्राः तेषु केचन मुख्याध्यापकस्य पाठनकार्यं विभज्य स्वीकृत्य नूतनान् लघुवयस्कान् छात्रान् पाठयन्ति स्म। यदा कदाचित् गुरुः कार्यवशात् अन्यग्रामं गच्छति स्म तदा सः एतादृशेषु छात्राध्यापकेषु पाठनकार्यं विन्यस्यैव गच्छति स्म। तक्षशिलादिषु विद्यापीठेषु एतस्याः पद्धतेः प्रचलनम् आसीत्। चीनदेशीयः पर्यटकः ईत्सिङ्गः अपि एतस्याः पद्धतेः प्रचलनस्य उल्लेखं करोति।
११) भाषणपद्धतिः (Lecture Method)--
बृहत्प्रकोष्ठेषु छात्रान् एकत्र आनीय अध्यापकाः भाषणमाध्यमेनापि पाठयन्ति स्म। नालन्दाविश्वविद्यालये एतस्य कृते सप्त महाप्रकोष्ठाः आसन् इति तर्क्यते।
भगवता शङ्कराचार्येण रचिते दक्षिणामूर्तिस्तोत्रे भाषण(व्याख्यान)पद्धतेः उल्लेखः अस्ति।
चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा।
गुरोस्तु मौनं व्याख्यानं शिष्यास्तु छिन्नसंशयाः।।
अत्रत्यः गुरुः दक्षिणामूर्तिः मौनेन पाठयति तथापि तस्य मौनमेव व्याख्यानमिति उल्लेखात् गुरवः भाषणमाध्यमेन शिष्यान् पाठयति स्म इत्यस्य सूचनं प्राप्यते।
१२) ध्यानपद्धतिः (Meditation Method)--
एषा पद्धतिः प्रामुख्येन आत्मज्ञानलाभार्थम् उपयुज्यते स्म। तथापि अन्यविधज्ञानार्थमपि एतस्याः उपयोगः भवति एव। मनसः एकाग्रता एव सर्वस्य ज्ञानस्य मूलकारणम्। यथा बहिर्वक्रकाचात् सूर्यकिरणाः विनिर्गत्य एकत्रिताः भवन्ति केन्द्रीभूतोष्णतया च कागदादीन् ज्वालयन्ति एवमेव एकाग्रं मनः ध्यानविषयं प्रकाशयति।
ध्यानस्य प्रक्रिया भगवता पतञ्जलिना योगसूत्रेषु विशदीकृता। तत्र प्रत्ययैकतानता ध्यानम्। कस्मिन्नपि अभिप्रेतवस्तुनि मनसः ऐकाग्र्येण सर्वेषां इतरवस्तूनां भानं निरस्य केवलं तस्याः ध्यानविषयवस्तुनः एव सन्ततं प्रत्ययः (ज्ञानं) मनसि अवशिष्यते, तर्हि तत् ध्यानं भवति।
विविधवस्तुषु मनसः एकाग्र्येण कीदृशं ज्ञानं प्राप्यते तत् योगसूत्रेषु वर्णितम्। उदाहरणार्थं-- भुवनज्ञानं सूर्ये संयमात्। सूर्ये मनसः एकाग्रतया चतुर्दशभुनवानां ज्ञानं भवति इति अर्थः। चन्द्रे ताराव्यूहज्ञानम्। चन्द्रे मनसः संयमात् सर्वेषां तारकाणां स्थितेः सम्यक् ज्ञानमुत्पद्यते।
१३) पाठशाला पद्धतिः--
एतासां सर्वासां पाठनविधीनाम् उपयोगः गुरुकुलेषु क्रियते स्म। गुरुकुले पाठनस्य या परम्परा भारते आसीत् तदनुगुणं एतस्याः शिक्षणपद्धतेः गुरुकुलशिक्षणपद्धतिः इति नाम कृतम् अस्ति । एतस्याः पद्धतेः एव अन्यानि नामानि पाठशालापद्धतिः, पारम्पारिकपद्धतिः, पण्डितपद्धतिः वा।
वैदिकानां षोडशसंस्कारेषु अध्ययनारम्भात् प्राक् करणीयः महत्त्वपूर्णः संस्कारः नाम उपनयनम् अथवा मौञ्जिबन्धनम्।
गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम्।
गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः।।
गर्भात् अष्टमे वर्षे ब्राह्मणस्य एकादशे वर्षे क्षत्रियस्य तथा च द्वादशे वर्षे वैशस्य उपनयनं कारणीयम्। उपनयनविधौ पिता पुत्रं सावित्रीमन्त्रम् उपदिशति स्म। ततश्च विद्यार्थी गुरुगृहं गत्वा अध्ययनम् आरभते स्म।
गुरुगृहे द्वादशवर्षाणि, अष्टादशवर्षाणि अथवा षट्त्रिंशद्वर्षाणि वासं कृत्वा चतुर्दशविद्यानाम् अध्ययनं भवति स्म।
पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश।।
पुराणानि, न्यायशास्त्रं, मीमांसा, धर्मशास्त्रं, चत्वारः वेदाः षट् च वेदाङ्गानि एताः चतुर्दशविद्याः। महाभारतकाराणां मतेन आयुर्वेदः, धनुर्वेदः, गान्धर्ववेदः, अर्थशास्त्रम् एतैः सह विद्यानां सङ्ख्या अष्टादश भवति।
गुरुकुले शिष्याः सर्वाणि कार्याणि स्वयमेव कुर्वन्ति स्म। तेन आत्मनिर्भरतायाः, श्रमप्रतिष्ठायाः विकासः भवति स्म। नैतिकशिक्षायाः आचारशिक्षायाः प्राधान्यात् छात्राः नीतिमन्तः आचारप्रवणाः भवन्ति स्म।
न्यूनातिन्यूनं द्वादशवर्षाणि गुरोः समीपे उषित्वा अध्ययनसमापनात् अनन्तरं छात्राः स्वेच्छया समावर्तनस्नानं कृत्वा गुरोः अनुज्ञां प्राप्य गार्हस्थ्यं प्रविशन्ति स्म।
आङ्ग्लशिक्षाविदा मेकॉलेमहोदयेन भारते आङ्ग्लपाठशालापद्धतिः प्रारब्धा। आङ्ग्लानां राजनयिकधोरणैः भारतस्य प्राचीनगुरुकुलपद्धतेः नाशः कृतः।