
येन युगाचार्यस्य विवेकानन्दस्य नाम न श्रुतं तादृशो जनः अतिविरलः स्यात्। अवतारवरिष्ठस्य भगवतः श्रीरामकृष्णस्य संन्यासी शिष्योत्तमः एषः हिन्दुधर्मस्य महान् तत्त्ववेत्ता। आधुनिककाले यैः हिन्दूनां वेदान्ततत्त्वज्ञानस्य तथा च योगदर्शनस्य परिचयः पाश्चात्येभ्यः दत्तः तादृशेषु आचार्येषु स्वामिविवेकानन्दस्य स्थानं प्रथमं श्रेष्ठतमं च विद्यते।
आन्तरधर्मीय-सामञ्जस्यस्य प्रथमः उद्घोषयिता एषः १९ तमे शतके हिन्दुधर्मं जगतः व्यासपीठे प्रमुखधर्मरूपेण स्थापितवान्। तस्य विचाराः भारतस्य धर्मपरिष्करणान्दोलने प्रमुखशक्तिरूपेण भागम् आवहन्ति। ब्रिटिशोपनिवेशकाले उद्भूतस्य भारतीयराष्ट्रवादस्य जनकः विवेकानन्दः एव। "स्वाभिमानेन वदन्तु वयं हिन्दवः स्मः" एषा तस्य उद्घोषणा हिन्दूनां मनःसु आत्मगौरवस्य स्फुल्लिङ्गम् उद्दीपयति।
इदानींतनस्य पश्चिमवङ्गराज्ये कोलकातानगरात् उत्तरेण सिमुलियानामकः प्रभागः वर्तते। तस्मिन् एकस्यां गौरमोहनमुखर्जीनाम्न्यां वीथ्यां दत्तकुटुम्बस्य गृहम् आसीत्। एतत् कुटम्बम् ऐश्वर्ययुतं दानशीलं परम्परया विदुषां जन्मस्थानं च आसीत्। तस्मिन् कुटुम्बे श्रीमतः राममोहनदत्तमहाभागस्य दुर्गाप्रसादः कालिप्रसादश्च इति द्वे अपत्ये आस्ताम्।
तयोः दुर्गाप्रसादः वयसः पञ्चविंशतितमे वर्षे परिव्रज्यां स्वीकृत्य गृहत्यागं कृत्वा गतवान्। तस्य पत्नी आसीत् श्यामासुन्दरी तथा च पुत्रः विश्वनाथः। राममोहनस्य पश्चात् कालिप्रसादः कुटुम्बप्रमुखः अभवत्। विश्वनाथः यदा दशवर्षीयः आसीत् तदा तस्य माता श्यामासुन्दरी अपि दिवङ्गता।
विश्वनाथस्य पितृव्यः उदारचरितः नासीत्। तेन कृतं वञ्चनं जानन् अपि विश्वनाथेन स्वस्य मृदुस्वभावः न त्यक्तः। वाक्कीलपरीक्षायाम् उत्तीर्णः भूत्वा सः कोलकाता-उच्चन्यायालये न्यायवादिरूपेण कार्यम् आरब्धवान्।
नन्दलाल-बसूमहोदयस्य पुत्री श्रीमती भुवनेश्वरी विश्वनाथस्य अर्धाङ्गिनी। एतौ स्वामिविवेकानन्दस्य पितरौ। भुवनेश्वरी पुत्रप्राप्त्यर्थं वाराणसीस्थितस्य वीरेश्वरस्य आराधनं कृतवती। शिवस्य प्रसादेन वङ्गपञ्चाङ्गानुसारं मकरसङ्क्रान्तिदिने १२ जनवरी १८६३ इत्यस्यां तारिकायां भुवनेश्वरी एकं पुत्रं प्रसूतवती। तस्य रूपेण भारतभूमौ एकस्य ज्ञानसूर्यस्य एव आगमनं जातम्।
पितृभ्यां तस्य जन्मनाम वीरेश्वरः इति कृतम्। अनन्तरं नरेन्द्रनाथः इत्यपि तस्य नाम अभवत्। एषः बहु चटुलः पुत्रः आसीत्। तस्य नियन्त्रणे माता बहुक्लेशम् अनुभवति स्म। अतः सा वदति स्म यत् मया शिवसदृशः पुत्रः प्रार्थितः आसीत् तथापि प्रायः शिवेन तस्य एतत् एकं भूतमेव प्रेषितं स्यात्। तथापि पितामहमातापितृभ्यः नरेन्द्रेण दानशीलता, ईश्वरपरायणता निर्भयता इत्यादयः उत्तमगुणाः अपि स्वीकृताः आसन्। तस्य दानशीलता तु अतुलनीया एव। कः अपि भिक्षुकः गृहमागतश्चेत् सः हस्ते आगतं कमपि वस्तु अविचार्य एव तस्मै ददाति स्म।
मातुः अङ्के उपविश्य नरेन्द्रेण रामाणमहाभारतभागवतकथाः श्रुताः। रामायणकथायां हनुमान् तस्य प्रियतमं पात्रम् आसीत्। बाल्यकाले सः ध्यानक्रीडां करोति स्म। विशेषतः शिवध्याने तस्य नितरां रुचिः आसीत्। एकदा सः ध्यानावस्थायां मग्नः आसीत् तदा एकः भुजङ्गः तस्य पुरतः स्वशीर्षं दोलायमानः स्थितः। तथापि ध्यानमग्नस्य नरेन्द्रस्य बहिर्भानमेव नासीत्।
१८७१ मध्ये वयसः अष्टमे वर्षे ईश्वरचन्द्रविद्यासागरमहोदयस्य मेट्रोपॉलिटन-इन्स्टिट्यूशननामिकायां पाठशालायां नरेन्द्रेण प्रवेशः स्वीकृतः। अनन्तरं सः उच्चशिक्षणार्थं प्रेसिडेन्सीमहाविद्यालयं प्रविष्टवान्। नरेन्द्रः अत्यन्तं जिज्ञासुवाचकः आसीत्। तस्य वाचनस्य क्षेत्रमपि विशालम्। धर्मः, तत्त्वज्ञानम् ,इतिहासः, सामाजिकशास्त्राणि, कला, साहित्यम् इत्येते तस्य अभ्यासविषयाः। हिन्दुधर्मशास्त्रे तस्य नितरां रुचिः। वेदोपनिषदः, पुराणानि, भगवद्गीता, रामायणं, महाभारतम् इत्येतेषु ग्रन्थेषु सः सम्यगभ्यस्तः अभवत्। अभिजातभारतीयसङ्गीतमपि तेन अधीतम्। बेनीगुप्तः, अहमदखानः एताभ्यां भक्तिगीतानि, काशीघोषालावर्यात् पखवाजवाद्यं जगन्नाथमित्रवर्यात् इसराजवाद्यं, सप्ततन्त्री च तेन शिक्षिता। शारीरव्यायामः, क्रीडा, सामूहिककार्यक्रमोपक्रमेष्वपि सः सर्वदा भागं वहति स्म।नौकानयनं मल्लयुद्धं, जलतरणं, यष्टियुद्धम् इत्यादिषु सः पारङ्गतः आसीत्।
१८८१ मध्ये सः ललितकलापरीक्षाम् उत्तीर्णः। १८८४ मध्ये तेन स्नातकोपाधिः प्राप्ता। स्कॉटिशचर्चमहाविद्यालये (तदानींतनः जनरल्-असेंब्ली-इन्स्टिट्यूशनमहाविद्यालयः) तेन पाश्चात्त्यतत्त्वज्ञानस्यापि अध्ययनं कृतम्। डेव्हिड्-ह्यूमः, इमान्यूअल्-कान्टः, गॉट्लिबः, फित्शेमहाभागः,जॉर्ज्- हेगेलः, आर्थर्-शोपेनहॉरः, स्पिनोझावर्यः, हर्बर्ट्-स्पेन्सरः, ऑगस्ट्-कोम्टेमहोदयः, जॉन्-स्टुअर्ट-मिलः, चार्ल्स्-डार्विनः एतेषां पाश्चात्त्यविदुषां साहित्यं सः अधीतवान्।
जनरल्-असेम्ब्लीमहाविद्यालये प्रो.विल्यम्-हेस्टीमहाभागः नरेन्द्रे बहु दृढस्नेहः आसीत्। एकादा हेस्टीवर्यः विल्यम्-वर्ड्स्वर्थकवेः एक्स्कर्षननाम्नीं कवितां पाठयन् आसीत्। कवितायामागतं सत्यशिवसुन्दरावस्थायाः वर्णनं श्रुत्वा नरेन्द्रः तद्विषये अधिकं ज्ञातुकामः अभवत्। तदा हेस्टीवर्येण तस्मै रामकृष्णपरमहंसविषये कथितम्। रामकृष्णः एताम् अवस्थां सर्वदा अनुभवति इति सः उक्तवान्।
विंशतिवर्षदेशीयः नरेन्द्रः केशवचन्द्रसेनः तथा च विजयकृष्णगोस्वामी इत्येताभ्यां स्थापितस्य साधारणब्राह्मसमाजस्य अनुयायी अभवत्। तथापि तत्र बुद्धेः समाधाने जाते अपि तस्य आध्यात्मिकज्ञानतृष्णा तु वर्धमानैव आसीत्। एकदा सः महर्षिदेवेन्द्रनाथठाकुरमहोदयं पृष्टवान् ,"महोदय, भवता ईश्वरः दृष्टः अस्ति वा?" देवेन्द्रनाथः समीचीनम् उत्तरं दातुं न शक्तवान्। नरेन्द्रः विविधान् धर्मनेतॄन् तदेव प्रश्नं पृष्टवान्।
१८८१ तमे वर्षे डिसेम्बरमासे सः रामकृष्णं मिलितवान् । श्रीरामकृष्णेन तस्य प्रश्नस्य असन्दिग्धरीत्या उत्तरं दत्तं यत् ," यथा अहं त्वां पश्यन् अस्मि तथैव ईश्वरमपि पश्यामि , तथापि अधिकम् उत्कटरीत्या।"
प्रप्रथमं रामकृष्णस्य मतानाम् आध्यात्मिकानुभूतीनां च विषये सः समीक्षाकारी, चिकित्सकः, अस्वीकारी आसीत् । रामकृष्णस्य कालिपूजा, वेदान्तस्य जीवब्रह्मैक्यम् इत्यादिषु सः नितराम् अनादरं प्रदर्शयति स्म। रामकृष्णस्य भावावस्था तथा च दैवतसाक्षात्कारान् सः बुद्धिभ्रममेव मन्यते स्म।तथापि तस्य ऋजुव्यक्तित्वेन त्यागवृत्या च सः नितरां प्रभावितः।
१८८४ मध्ये अकस्मादेव नरेन्द्रस्य पिता दिवङ्गतः। पित्रा गृहीतस्य ऋणस्य आदानार्थम् उत्तमर्णाः तस्य कुटुम्बं भृशं सन्त्रासयन्। वैभवे जीवनं यापयन् नरेन्द्रः सहसा नितरां दरिद्रताम् अन्वभवत्। तस्य बान्धवाः एव तं गृहान्निष्कासयितुम् उद्यताः। तेन विकलमनस्कः नरेन्द्रः वृत्तिप्राप्त्यर्थं भृशम् अटितवान्। तथापि तेन जीविका नैव प्राप्ता। एतैः प्रसङ्गैः ईश्वरे तस्य विश्वासः दोलायमानः अभवत्।
एकस्मिन्दिने सः रामकृष्णं प्रार्थितवान् यत् कालिमात्रे भवानेव मम समस्यायाः परिहारविषये कथयतु इति। तथापि रामकृष्णेन 'भवान् स्वयमेव गत्वा तस्यै कथयतु' इति आदिष्टः सः कालिमन्दिरं प्रविष्टवान्। तत्र बहुवारं कालिमातुः दर्शनं प्राप्य अपि स्वसमस्यापरिहारार्थं सः तां प्रार्थयितुं न शक्तवान्। केवलं सः अहैतुकभक्तेः प्राप्त्यर्थमेव प्रार्थनम् अकरोत्। तथापि एतेन कालिमातुः अनस्तित्वविषये तस्य भ्रान्तिः अपगता। तत्पश्चात् सः रामकृष्णं गुरुरूपेण वृत्वा तस्य निर्देशानुसारम् ईश्वरदर्शनसाधनायां मग्नः अभवत्।
१८८५ मध्ये रामकृष्णः कण्ठस्य कर्करोगेण ग्रस्तः अभवत्। तस्य महासमाधेः पूर्वं काशीपुरोद्यानगृहे सः वासम् अकरोत्। रामकृष्णकृपया नरेन्द्रेण एषु दिनेष्वेव निर्विकल्पसमाधिः प्राप्तः। रामकृष्णेन नरेन्द्राय अन्यशिष्येभ्यः च संन्यासदीक्षा दत्ता। एतान् शिष्यान् नेतृरूपेण भवानेव मार्गं दर्शयतु इति रामकृष्णेन सः आदिष्टः।
रामकृष्णस्य देहान्तानन्तरं तस्य बहवः शिष्याः गार्हस्थ्यम् अङ्गीकृतवन्तः। तथापि अवशिष्टसन्यासिशिष्यैः सह नरेन्द्रः बारानगरमठे निवासम् अकरोत्। तत्र सर्वेषाम् ईश्वरसाधना प्रतिकूलावस्थायामपि अखण्डितरीत्या प्राचलत्।
१८८८ मध्ये नरेन्द्रेण परिव्रज्या स्वीकृता। केवलं दण्डः , कमण्डलुः ,भगवद्गीता तथा च ख्रिस्तानुसरणम् इति द्वे पुस्तके एव तस्य नैजवस्तूनि आसन्। सः भारते सर्व्वत्र प्रवासं कृत्वा भारतीयसामाजिकजीवनं तथा च विविधधर्मपन्थानः इत्येतेषां सम्यक् ज्ञानं प्राप्तवान्। सः पद्भ्यां वा रेलयानेन वा प्रवासं करोति स्म। यात्रायां सः राजानः, दरिद्राः,बुद्धिमन्तः, हिन्दवः,मुसल्मानाः, ख्रैस्ताः, शूद्राः एतैः सर्वैः सह यथाप्रसङ्गं निवासं कृतवान्। दरिद्रभारतस्य शोचनीयां स्थितिं दृष्ट्वा तस्य हृदयं करुणाकुलं जातम्। भारतीयसमाजस्य उत्थानार्थं सः बद्धप्रतिज्ञः अभवत्।
खेत्रीसंस्थानस्य महाराजः अजितसिंहः तस्य परममित्रम्। महाराजस्य सूचनानुसारं सः 'विवेकानन्दः' इति नाम स्वीकृतवान्। महाराजस्यैव निर्देशानुसारं अमरीकायां शिकागो इत्यत्र भविष्यमाणायां सर्वधर्मपरिषदि सहभागं वोढुं सः ३१ मे १८९३ दिनाङ्के अमरीकादेशं प्रति प्रस्थितः।
सर्वधर्मपरिषदः प्रारम्भः ११ सप्टेंबर दिनाङ्के अभवत्। अस्मिन् दिने 'आर्ट इन्स्टिट्यूट आफ् शिकागो' इत्यस्मिन् स्थाने सभागृहे हिन्दुः, जैनः, बौद्धः, जुडाईझमः, कन्फ्यूशिअसतत्त्वज्ञानं, शिंटोधर्मः, मुस्लिमधर्मः, मझ्दधर्मः एवं अष्ट धर्मपथां प्रतिनिधयः उपस्थिताः आसन्। चतुःसहस्त्रं श्रोतारः अपि सभागृहे उपविष्टाः आसन्। इतःपूर्वं भाषणदाने अनभ्यस्तः स्वामी वक्तुं भीतिः अनुभूतवान्। तथापि सरस्वत्याः स्मरणं कृत्वा तेन भाषणस्य आरम्भः कृतः।
तस्य प्रथमशब्दाः "मम अमेरिकावासिनः भगिन्यः बान्धवाश्च" इतिहासमेव निर्मितवन्तः। चतुःसहस्रजनैः उत्थाय तालिकावादनेन सः अभिनन्दितः। यद्यपि स्वामिनः तत् भाषणं लघु एव तथापि विश्वस्य सर्वोत्कृष्टभाषणेषु तत् समाविश्यते। स्वस्य भाषणे 'आन्तरधर्मीयसहिष्णुता तथा च सर्वधर्ममतानां वैश्विकस्वीकारः' इति अपूर्वतत्त्वं सः उदघोषयत्। शिवमहिम्नस्तोत्रात् सः उद्धृतवान्, "यथा सर्वे जलप्रवाहाः अन्ते समुद्रं प्राप्य एकीभूताः भवन्ति तथा विविधधर्ममार्गैः गच्छन्तः जनाः अन्ते एकमेव ईश्वरं प्राप्नुवन्ति।"
अमेरिकायां. स्वामी सर्व्वत्र प्रसिद्धः अभवत्। अमेरिकायां वृत्तपत्राणि तं " धर्मपरिषदि विद्यमानेषु सर्वश्रेष्ठं व्यक्तिमत्त्वम् " अमन्यन्त।
धर्मपरिषदः समापनात् अनन्तरं स्वामी अमरीकायां सर्वत्र अटित्वा व्याख्यानानि दत्त्वा भारतीयतत्त्वज्ञानस्य प्रचारम् अकरोत्। १८९४ मध्ये न्यूयॉर्कनगरे तेन 'वेदान्त-सोसायटी' नामिकायाः संस्थायाः स्थापनं कृतम्।
१८९५-९६ मध्ये सः इंग्लंडदेशं गतवान्। तत्र मार्गारेट्-नोबल् (सिस्टर-निवेदिता) तस्य शिष्या अभवत्। रामकृष्णस्य प्रथमपाश्चात्त्यचरित्रस्य लेखकं मैक्स-मुलरमहोदयं सः मिलितवान्।
पाश्चात्त्यदेशात् सः स्वस्य भारतीयकार्यं पुनरुज्जीवयत्। तस्य गुरुबन्धुभ्यः प्रेषितानि तत्कालीनपत्राणि भारतस्य सामाजिकोत्थानस्य आवश्यकताम् उच्चरवेण उद्घोषयन्ति।
१८९७ तमे वर्षे जनवरीमासे नौकायानेन सः भारतं प्रत्यागतवान्। श्रीलङ्कायाः कोलम्बोनगरे सः प्राप्तः। तत्र तस्य अभूतपूर्वं स्वागतम् अभवत्। कोलकातासमीपे बेलूरम् इत्यत्र १ मे १८९७ इति दिनाङ्के स्वामिना 'रामकृष्ण-मिशन' नाम्ना सामाजिकसेवाकार्यार्थं कटिबद्धायाः संस्थायाः स्थापना कृता।
१८९९ मध्ये सः पुनरेकवारं इंग्लण्ड-अमरीकादिदेशं गत्वा तत्रत्यस्वकार्यस्य दृढीकरणं कृतवान्। विदेशात् प्रत्यागत्य सः बेलूरमठे निवासम् अकरोत्। तथापि ४ जुलै १९०२ दिनाङ्के वयसः केवलं ऊनचत्वारिंशत्तमे वर्षे सः महासमाधिं प्राप्तवान्।
विवेकानन्दः शङ्कराचार्यस्य अद्वैतत्त्वज्ञानं हिन्दुत्त्वज्ञानस्य सारः इति अमन्यत। तथापि रामकृष्णमतानुसारं द्वैताद्वैतस्य समन्वयः अपि तेन प्रतिपादितः अस्ति। "यदेकं तदेव बहु" इति तस्य तत्त्वज्ञानस्य विशेषः। स्वामिना प्रतिपादितं चतुर्विधयोगरूपं साधनप्रारूपं --तत्रापि विशेषतया राजयोगः--जगज्जनानां कृते स्वस्य दैवीस्वरूपस्य साक्षात्कारार्थं व्यावहारिकं साधनमार्गं निरमात्।
तस्य मतेन --प्रत्येकं जीवः अव्यक्तब्रह्म एव। बहिस्थां तथा च आन्तरिकीं प्रकृतिं नियम्य एतस्य दैवीस्वरूपस्य आविष्करणमेव अस्माकं ध्येयम् । एतत् ध्येयं कर्मभक्तियोगज्ञानमार्गैः व्यस्तैः समस्तैर्वा सम्पादयन्तु मुक्ताश्च भवन्तु। एषः एव धर्मस्य सारः। सर्वाणि तत्वज्ञानानि, मन्दिराणि, धर्ममार्गाः, कर्मकाण्डं वा एतस्य लक्ष्यस्य प्राप्त्यर्थं साह्यकारी गौणविस्तरः एव।
आत्मग्लानिं प्राप्तवतः भारतस्य कृते स्वामिना दत्तः सामाजिकोत्थानस्य, पुरुषकारस्य, राष्ट्रभक्तेः स्वाभिमानस्य च सन्देशः भारतीययुवजनानां कृते अत्यन्तं महत्त्वपूर्णः। आधुनिकहिन्दुजनाः स्वस्य धर्मस्य संज्ञापनं प्रत्यक्षाप्रत्यक्षरीत्या विवेकानन्दवर्यस्य साहित्यात् एव प्राप्नुवन्ति।
नमो भगवते विवेकानन्दाय।