
भारतीयभाषासु संस्कृतस्य माहात्म्यम् अनितरसाधारणं वर्तते। यद्यपि एषा भाषा इदानींतनकाले सर्वजनभाषा नास्ति तथापि भारतीयानां सम्पूर्णं जीवनं संस्कृते व्यक्तानां विचाराणां चिन्तनस्य च मूर्तरूपम्।
संस्कृतम् अस्माकं संस्कृतेः भाषा। भारतीयानां सामाजिकपरम्पराः सांस्कृतिकोत्सवाः, आचारधर्माः संस्कृताधारेणैव प्रचलन्ति। अस्माकं राष्ट्रियजीवनप्रवाहः सहस्राणि वर्षाणि यावत् संस्कृतम् अवलम्ब्यैव गमनशीलः अस्ति।
संस्कृतम् अस्माकं राष्ट्रस्य ऐक्यसूत्रम्। आभारतं एकैव भाषा व्यवहारभाषापदवीं न भजते। उत्तरभारतीयाः हिन्द्यादिभाषाः जानन्ति ताभिः व्यवहरन्ति च। दाक्षिणात्यास्तु तमिळ्मल्याळम्प्रभृतिभिः भाषाभिः। अतः साधारणभाषाभावात् विचाराणाम् आदानप्रदाने नित्यमेव काठिन्यानुभूतिः। यद्यपि आङ्ग्ला विश्वभाषात्वेन प्रसिद्धा तथापि तां जानानाः , तया व्यवहर्तुं च क्षमाः जनाः भारते न्यूनमात्रया एव। अपि च सा परकीयभाषा। तेन भारतीयानां सा व्यवहारभाषा, मातृभाषा वा भवितुं नार्हत्येव।
एकं संस्कृतमेव तादृशं येन वयं सर्वे प्रान्तभिन्नताम् अपाकृत्य विचाराणाम् आदानप्रदानं कर्तुं प्रभवामः, यतः प्रायः सर्वाः भारतीयभाषाः संस्कृतोद्भवाः। याः तथा न सन्ति तासामपि शब्दसम्पदा महता प्रमाणेन संस्कृतात् एव यथावत् अथवा किञ्चित् परिवर्तनं कृत्वा स्वीकृता। अतः संस्कृतावगमने कश्मीरादारभ्य कन्याकुमारीं यावत् , गुर्जरप्रान्तात् आरभ्य असमप्रान्तपर्यन्तं कुत्रापि न क्लेशान् जनाः अनुभवन्ति। अतः संस्कृताय न कुत्रापि विरोधः प्रदर्श्यते।
संस्कृतम् अस्माकं ज्ञानभाषा अपि। सहस्रावधिवर्षाणि तपः कृत्वा ऋषिभिः यज्ज्ञानं प्राप्तं स सर्वोपि ज्ञाननिधिः संस्कृते एव सङ्गृहीतः। गणित-खगोल-रसायन-धातुनिर्मिति-योग-आयुर्वेदादीनि लौकिकशास्त्राणि पारलौकिकानि वेदान्तादीनि च संस्कृते एव सन्ति।
एतैः सर्वैः कारणैः संस्कृतस्य रक्षणं, सवर्धनं च व्यवहारभाषात्वेन, मातृभाषात्वेन, ज्ञानभाषात्वेन च पुनः तस्य प्रचालनम् अतीव आवश्यकं येन वयं भारतं पुनरेकवारं विश्वगुरुपदवीं प्रापयितुं शक्नुयाम।
तथापि अद्यावधि संस्कृतस्य पाठनपद्धतिः तादृशी आसीत् येन संस्कृतस्य व्यवहारभाषात्वेन पुनःस्थापनम् अशक्यमेव प्रतीयते स्म। भारते अर्वाचीनकाले संस्कृतं व्याकरणानुवादपद्धत्या एव पाठ्यते स्म यया पद्धत्या छात्राः केवलम् अनुवादकरणमेव शिक्षन्ते न तु संस्कृतभाषाम्। अपरं च तेन संस्कृतं व्यवहारभाषा भवितुम् अयोग्यम् , कठिनं च इत्येतदपज्ञानं दृढीभूतम्।
अतः संस्कृतक्षेत्रे संस्कृतशिक्षणस्य काचित् नूतना पद्धतिः-- या आधुनिककालानुसारिणी स्यात् , संस्कृतविषये काठिन्यभ्रमम् अपाकर्तुं च सक्षमा स्यात् --आवश्यकी आसीत्।
तदनुगुणं बेंगलुरूमध्ये द्वित्रैः सामान्यसंस्कृतशिक्षकैः भूरिश्रमान् कृत्वा सम्भाषणत्मिकायाः संस्कृतपाठनपद्धत्याः आविष्कारः कृतः। ततश्च संस्कृतं जनभाषां कारयितुं 'संस्कृतभारती' इति नाम्ना भाषान्दोलनं प्रारब्धं यत् इदानीं विश्वे नैकेषु देशेषु विततम्।
एतस्याः पाठनपद्धत्याः आधारशिला आसीत् भाषाशिक्षणस्य नैसर्गिकक्रमः। कापि नूतना भाषा शिक्षितव्या चेत् प्रथमतः तस्याः भाषायाः सातत्येन श्रवणं तदनन्तरं स्वमुखात् उच्चारणमेव नैसर्गिकोपायः। तदन्ततरं लिपिज्ञानं वाचनलेखने च । एतैरेव सोपानैः वयं मातृभाषां पठितवन्तः। तथापि भारते नूतनभाषाशिक्षणार्थं लिपिलेखनवाचनाभ्यामेव प्रारम्भः क्रियते स्म। भाषणसम्भाषणे तु गौणोद्दिष्टे इति मत्वा तत्र अवधानमेव न दीयते स्म। व्याकरणादिज्ञाने सत्यपि भाषायाः व्यवहारे उपयोगः न भवति तर्हि तत्सर्वमपि ज्ञानं निरुपयोगी भारः एव।
एषा सम्भाषणात्मिका संस्कृतभाषाशिक्षणपद्धतिः संस्कृतक्षेत्रे नूतनक्रान्तिरेव। अनया पद्धत्या संस्कृतस्य पाठनं पाठशालासु, महाविद्यालयेषु भवेत् चेत् संस्कृतं व्यवहारभाषां कारयितुं न अन्यः कोपि महान् पृथक्प्रयत्नः आवश्यकः भवेत्।
अपरं च या भाषा पाठ्यते तस्याः पाठनस्य माध्यमं सैव भाषा भवेदिति भाषाशिक्षणस्य सिद्धान्तः। आङ्ग्ला आङ्ग्लमाध्यमेन, हिन्दी हिन्दीमाध्यमेन, मराठीबाङ्ग्लादयः अपि तत्तद्माध्यमेनैव पाठ्यन्ते । तदेव संस्कृतपाठनेपि भवितुं योग्यं खलु? संस्कृतं संस्कृमाध्यमेनैव पाठनीयम्।
उपरि यद्यत् विवृतं तेन संस्कृतशिक्षणे, संस्कृतस्य जनभाषात्वेन परिवर्तने संस्कृतशिक्षकस्य दायित्वं कियत् महत्त्वपूर्णं तत् स्पष्टीभवेत्। स्वस्य संस्कृतसामर्थ्यस्य वर्धनार्थं तथा च छात्राणां मुखे संस्कृतस्य स्थापनार्थं शिक्षकेन अवलम्बनीयाः केचन उपायाः अत्र परिगण्यन्ते--
१) सम्भाषणसामर्थ्यस्य प्राप्तिः --
संस्कृतशिक्षणस्य प्रथमसोपानम् अस्ति संस्कृतसम्भाषणम्। तत्र स्वयं शिक्षकः एव सम्यक् अभ्यस्तः न भवति तर्हि सः पाठशालायां संस्कृतपाठनकाले संस्कृतस्य प्रयोगमेव न कर्तुं पारयेत्।
सामान्यतः आङ्ग्लाशिक्षकः आङ्ग्लभाषया, हिन्दीशिक्षकः हिन्द्या च वक्तुं क्षमेत इति जनापेक्षा। पूर्वतनव्याकरणानुवादपद्धत्या पठिताः साम्प्रतसंस्कृतशिक्षकाः स्नातकपरास्नातकादीः पदवीः धारयन्तः अपि संस्कृतेन द्वित्राण्यपि वाक्यानि सहजतया शुद्धं च वक्तुं न प्रभवन्ति।
अत्र चमूकृष्णशास्त्रीमहोदयेन कथितः एकः प्रसङ्गः स्मर्यते--एकः संस्कृतशिक्षकः बहुकालं यावत् पाठशालायां संस्कृतं पाठयति स्म। तथापि सः संस्कृतेन वक्तुम् अक्षमः आसीत्। एकदा सः संस्कृतभारत्याः सम्भाषणवर्गं प्रविष्टवान्। वर्गसमाप्तिदिने समारोपकार्यक्रमे वर्गविषयकम् अनुभवकथनं तेन संस्कृतेन कृतम्। तस्य मुखात् प्रथमवारमेव आगच्छत् व्यावहारिकं संस्कृतं श्रुत्वा तस्य पत्नी तम् अनन्तरम् उक्तवती यत् भवान् संस्कृतशिक्षकः अस्ति तथा च संस्कृतं पाठयति इति केवलं श्रुतम् आसीत्। तथापि प्रथमवारमेव अहं साक्षात् ज्ञातवती यत् भवान् सत्यमेव संस्कृतशिक्षकः।
अतः संस्कृतसम्भाषणं संस्कृतशिक्षकस्य प्रधानम् अभिज्ञाचिह्नम्। सम्भाषणक्षमतां प्राप्तुं संस्कृतशिक्षकेन आदौ स्वयं प्रयत्नः विधेयः। तदर्थं संवादशाला, सम्भाषणवर्गाः इत्यादयः संस्कृतभारती-उपक्रमाः उपादेयाः। सातत्येन वर्षं वा वर्षद्वयं वा प्रयत्नः क्रियते चेत् संस्कृतसम्भाषणसामर्थ्यं प्राप्तुं शक्यम्।
२) सरलसंस्कृतस्य पाठने प्रयोगः --
आङ्ग्लजनाः यदा भारते आङ्ग्लायाः प्रसारं कर्तुम् ऐच्छन् तदा आङ्ग्ला अतीव सुलभा इति दर्शयितुं ते वदन्ति स्म यत् केवलं अष्टशतस्य सामान्यशब्दानां साह्येन आङ्ग्लया सहजतया व्यवहारः शक्यः।
तथैव संस्कृतं कठिनम् इति भ्रमं दूरीकर्तुं शिक्षकैः व्यवहारे उपयोगिनां सरलसंस्कृतशब्दानां प्रयोगः करणीयः। पाण्डित्यस्य प्रदर्शनं न करणीयम्। तदर्थं व्यवहारोपयोगिसंस्कृतशब्दानां पर्याप्तसङ्गग्रहः संस्कृतशिक्षकस्य समीपे स्यात्। सुदीर्घक्लिष्टवाक्यानां स्थाने लघुलघूनि अवगमनसुलभानि वाक्यानि प्रयोज्यानि।
तथापि सरलसंस्कृतं नाम 'सरलीकृतं' संस्कृतं न। पाणिनीयनियमान् अनादृत्य संस्कृतव्यवहारः न अपेक्षितः। सरलसंस्कृतस्य उपयोजनार्थं केचन उपायाः सरलमानकसंस्कृतम् इत्यस्मिन् लेखे राष्ट्रियसंस्कृतपरिषदा विवृताः। सः लेखः केन्द्रीयसंस्कृतविश्वविद्यालयस्य जालपुटे http://www.sanskrit.nic.in/sss.php इत्यत्र प्राप्तुं शक्यः।
३) संस्कृतोत्सवानाम् आयोजनम् --
उत्सवः उत्साहः च प्रायः समानार्थकौ। 'उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम्।' इति महाभारतोक्तिः। यदि संस्कृतम् उपयोक्तुं छात्रसमूहे उत्साहजननं कर्तुम् इच्छामः तर्हि विविधसंस्कृतोत्सवानां, संस्कृतस्पर्धानां प्रदर्शिनीनां वा आयोजनम् उत्तमः उपायः। संस्कृतदिनं कालिदासदिनं गीताजयन्ती इत्येते केचन उत्सवाः।
उत्सवादिषु छात्राः स्वयं संस्कृतेन स्वम् अभिव्यञ्जयितुम् अवसरं प्राप्नुवन्ति। तेन तेषां मनःसु स्वस्य संस्कृतसामर्थ्यविषये आत्मविश्वासः उत्साहश्च जायते।
४) कक्ष्यायाः बहिः अपि सर्वत्र यावच्छक्यं संस्कृतेन व्यवहरणम् --
संस्कृतशिक्षकेन न केवलं कक्ष्यायाम् अपि तु सर्वत्रैव गच्छता आगच्छता छात्रैः सह संस्कृतेनैव सम्भाषणं करणीयम्। अर्धहोरात्मके कक्ष्याकालांशे यावत् संस्कृतं गुरुमुखात् छात्राः शृण्वन्ति तावता एव ते संस्कृतसम्भाषणसमर्थाः न भवितुं शक्नुयुः।भाषापाठने भाषायाः कापि विशिष्टा पाठनपद्धतिः यावती उपयुक्ता ततोपि भाषापरिवेशनिर्माणं भाषापाठने अधिकं साह्यभूतम्। संस्कृतपरिवेशनिर्माणार्थं संस्कृतभाषायाः सातत्येन उपयोगः संस्कृतशिक्षकेण करणीयः येन संस्कृतं छात्राणां श्रुतिपथे निरन्तरम् आगच्छेत्।
५) स्वज्ञानवृद्धिः --
सरलसंस्कृतेन सततं उच्यते चेत् कक्ष्यायां कक्ष्यायाः बहिः वा संस्कृतपरिवेशः उत्पद्येत तथापि तावता एव अलमिति नैव चिन्तनीयम्। पाठ्यवस्तुविषये अथवा संस्कृतविषये स्वस्य ज्ञानं सातत्येन अभिवृद्धिं गच्छेत् इत्यर्थं निरन्तरं प्रयत्नाः विधेयाः। विविधाः संस्कृतपाठनपद्धतयः, संस्कृतसाहित्यं, व्याकरणं, पाठने नूतनतन्त्रज्ञानस्य प्रयोगः इत्यादिविषयेषु उत्तमज्ञानं शिक्षकवृत्तेः कृते अनिवार्यतया आवश्यकम्। अतः तत्सम्पादने शिक्षकेण सदैव प्रयत्नरतेन भाव्यम्।
६) संस्कृतप्रचारः --
संस्कृतविषये समाजे आनुकूल्यं स्यात् तदर्थं शिक्षकेण संस्कृतस्य प्रचारः पाठशालायाः बहिः समाजेपि करणीयः। तदर्थं सामाजिकानां कृते सम्भाषणवर्गाणाम् आयोजनं, विविधसंस्कृतोत्सवेषु तेषां सहभागस्य स्वीकरणं इत्यादयः उपायाः यथाशक्ति, यथावसरम् उपादेयाः।
संस्कृतकार्यस्य समाजमाध्यमेषु सम्यक् प्रचारः भवति चेदेव समाजजनाः शिक्षकस्य संस्कृतकार्यं प्रति आकृष्टाः भवेयुः। आकाशवाणी, दूरदर्शनं,वृत्तपत्राणि, व्हॉट्सैप्, ट्वीटर् , फेसबुक् इत्यादिषु माध्यमेषु संस्कृतकार्यक्रमोपक्रमाणां प्रसारणं तद्विषये संज्ञापनदानं इत्यादिकार्येष्वपि शिक्षकस्य पुरोगामिता आवश्यकी।
७) संस्कृतशिक्षकसङ्घटनम् --
यद्यपि संस्कृतशिक्षकः अद्ययावज्ज्ञानयुक्तः सन् उत्तमं पाठयेत्, सम्भाषणशीलः च स्यात्, तथापि तावदेव संस्कृतसंवर्धनार्थं न पर्याप्तम्। इदानींतनकाले शिक्षणव्यवस्था सर्वकारस्य आधीन्ये। अतः सर्वकारः अनुकूलः स्यात् चेदेव संस्कृतसम्बद्धान् अनुकूलनिर्णयान् स्वीकुर्यात्।
'सङ्घे शक्तिः कलौ युगे' इति उक्तिः। यदि संस्कृतशिक्षकाणाम् उत्तमं सङ्घटनं भवति तर्ह्येव संस्कृतानुकूलनिर्णयान् स्वीकर्तुं सर्वकाराय वयम् अधिकारवाण्या कथयितुं शक्नुमः। तथापि एतादृशं सङ्घटनं संस्कृतक्षेत्रे न दृश्यते। तस्य इदानीं महती आवश्यकता।
एवं यदि संस्कृतशिक्षकः संस्कृतपाटवयुक्तः, संस्कृतसम्भाषणशीलः, सङ्टनशीलः च भवति तर्हि संस्कृतस्य अभिवृद्धिं सम्पादयितुं महत्त्वपूर्णं योगदानं दातुं सः सक्षमः भवेत्।