
मधुरं मधुराक्षरम्।
आरुह्य कविताशाखां
वन्दे वाल्मीकिकोकिलम्।।
वाल्मीकिः रामायणस्य रचयिता आदिकविः। तस्य काव्यं रामायणं भारतीयानाम् आदिकाव्यम्।
पूर्वं वाल्मीकिः रत्नाकरः नाम लुण्ठकः आसीत्। सः वने गच्छतः जनान् मारयित्वा तेषां धनम् अपहरति स्म। एवं सः सहस्रशः जनान् व्यापादितवान्। एकदा नारदः तेन वनमार्गेण गच्छन् रत्नाकरेण अवरुद्धः। कर्कशस्वरेण रत्नाकरः तम् उक्तवान् ,"यद्भवतः समीपे धनादिकम् अस्ति तन्मह्यं समर्पयतु अन्यथा भवन्तं मारयामि" इति। नारदेन कथितं यत् तस्य समीपे धनादिकं किमपि मूल्यवत् नास्ति यतः सः सर्व्वस्वत्यागी संन्यासी। तथापि यद्रत्नाकरः घोरं मारणधर्मम् आचरति तेन जनितेन पापेन सः निश्चयेन नरकं प्राप्नुयात्।
नारदोपदेशेन रत्नाकरस्य विवेकः जागरितः। सः पापमुक्तेः उपायं नारदं पृष्टवान्। नारदेन तस्मै रामनाम्नः उपदेशः कृतः। तदा आरभ्य एकस्मिन्नेव स्थले उपविश्य रत्नाकरेण रामनाम्नः सन्ततजपः आरब्धः। सः जपे तावान् निमग्नः अभवत् येन तस्य शरीरभानं जगद्भानमपि नष्टम्। पिपीलिकाः तस्य शरीरस्य उपरि वल्मीकस्य निर्माणं कृतवत्यः। एवं द्वादशवर्षाणि अतीतानि।
पुनः एकदा नारदः तेनैव मार्गेण गच्छन् वल्मीकात् रामशब्दस्य सन्ततजपं श्रुतवान्। नारदेन आहूते सति रत्नाकरः समाधितः जगद्भानं प्राप्य वल्मीकात् उदतिष्ठत्। वल्मीकात् आगतः इत्यतः तस्य नाम वाल्मीकिः इति अभवत्। पूर्ववृत्तिं त्यक्त्वा तपसा सर्वं पापं नाशयित्वा सः महर्षिः अभवत्।
अनन्तरम् एकदा शिष्यगणेन सह सः स्नानार्थं तमसा नदीं गच्छन् आसीत्। तदा एकस्मिन् वृक्षे प्रणयक्रीडामग्नम् एकं क्रौञ्चयुगलं सः लक्षितवान्। तस्मिन्नेव क्षणे एकस्य व्याधस्य बाणेन विद्धः क्रौञ्चः भूमौ पतितः मृतश्च। तद्दृष्ट्वा क्रौञ्ची बहु विलापं कृतवती। तस्या विलापेन द्रवितहृदयः महर्षिः व्याधं सहसा शप्तवान्। सः शापः श्लोकरूपं धृत्वा महर्षेः मुखात् आविरभूत्--
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम्।।
ईश्वरकृतवेदात् अनन्तरं मानवेन रचितं प्रथमं काव्यमिदम्। वेदे विद्यमानानि यावन्ति छन्दांसि तानि सर्वाणि विहायः अनुष्टुप्-नामकस्य छन्दसः एषः प्रथमाविष्कारः वाल्मीकिमुखात् समुद्भूतः। श्लोकस्य उच्चारणात् अनन्तरं ब्रह्मदेवः वाल्मीकेः पुरतः प्रकटीभूय तं रामायणरचनां कर्तुम् आदिशत्।
तस्यादेशेन मर्यादापुरुषोत्तमस्य रामस्य जीवनचरित्रं वाल्मीकिना श्लोकबद्धं कृतम्। 'रामस्य अयनं (जीवनमार्गः) रामायणम्' इति तस्य अन्वर्थकं नाम। एतत् आदिकाव्यं सहस्रावधिवर्षाणि भारतीयानां मनःसु विराजते। रामस्य एतत् चरित्रं मानुषवर्तनस्य आदर्शं जनानां पुरतः उपस्थापयति। २४,००० श्लोकेषु तन्निबद्धम् अतः 'चतुर्विंशतिसाहस्री संहिता' इत्यपि तस्य अपरं नामध्येयम्।
एतेन काव्येन वाल्मीकिः अपि जनमानसे अमरत्वं प्राप्तवान्। आश्विनमासस्य पूर्णिमायां वाल्मीकेः जन्म जातम् आसीत् इति जनाः मन्यन्ते। अतः कोजागरीपूर्णिमा अथवा आश्विनपूर्णिमा वाल्मीकिजयन्तीरूपेण भारते सर्व्वत्र आचरिता भवति।
नमो महर्षये आदिकवये वाल्मीकये।