लोकमान्य:।

  

भारतीयस्वातन्त्र्यसङ्ग्रामस्य अग्रणीः भगवद्गीतायाः आधुनिकभाष्यकारः श्री.बालगङ्गाधरतिलकमहोदयः महाराष्ट्रे कोङ्कणप्रान्ते रत्नागिरी इत्यत्र २३ जुलै १८५६ इति दिनाङ्के जनिम् लेभे। तस्य पिता गङ्गाधरः माता च पार्वतीबायी । महोदयस्य जन्मनाम 'केशवः' इति आसीत् तथापि अनन्तरं 'बालः' इति स्नेहनाम्ना एव सः प्रसिद्धः अभवत्।

तस्य पिता गङ्गाधरः शिक्षकः संस्कृतविद्वान् च आसीत्। 

तिलकमहोदयस्य विवाहः १८७१ मध्ये तापीबायी (अनन्तरनाम सत्यभामाबायी) इत्यनया सह अभवत्। १८७१ मध्ये एव तस्य विवाहस्य पश्चात् पिता गङ्गाधरः दिवङ्गतः। १८७७ मध्ये डेक्कन-महाविद्यालयात् तिलकमहोदयः गणिते स्नातकपदवीम् अधिगतवान्। १८७९ मध्ये तेन एल्.एल्.बी.पदवी अपि अधिगता।

डेक्कनमहाविद्यालये एव आगरकरमहोदयेन सह तस्य स्नेहः जातः। निबन्धमालाकारः विष्णुशास्त्री चिपळूणकरः सर्वकारीयां वृत्तिं त्यक्त्वा राष्ट्रियशिक्षणदायिन्याः पाठशालायाः निर्माणं कर्तुम् उद्यतः। तिलकागरकरौ तेन सह १ जानेवारी १८८० दिनाङ्के पुण्यनगरे ' न्यू इङ्ग्लिश स्कूल्' इत्यस्याः पाठशालायाः स्थापनं कृतवन्तौ। १८८१ मध्ये तैः 'आर्यभूषणमुद्रणालयः' निर्मितः ततश्च 'केसरी' तथा च 'मराठा' इति द्वयोः वृत्तपत्रयोः प्रकाशनस्य आरम्भः कृतः। केसरी मराठ्या तथा च मराठा आङ्ग्लया प्रकाश्यमानं वृत्तपत्रम् आसीत्।

१८८२ मध्ये विष्णुशास्त्री पञ्चत्वं गतः। तदनन्तरं १८८४ मध्ये तिलकः केळकरः भाण्डारकरः, वर्ड्स्वर्थः, वेडरबर्नः इत्यादीनां जनानां संयुक्तप्रयत्नेन 'डेक्कन एज्युकेशन सोसायटी' इति नाम्ना महाराष्ट्रे बहुमान्यायाः शिक्षणसंस्थायाः स्थापनम् अभवत्। भारतीयां संस्कृतिं आधारभूतां कृत्वा राष्ट्रियशिक्षणस्य नूतनपद्धतेः प्रचालनम् इति एतस्याः संस्थायाः उद्दिष्टम् आसीत्। अनया संस्थया १८८५ मध्ये 'फर्ग्युसन-महाविद्यालयः' उद्घाटितः। तत्र तिलकमहोदयः गणितं संस्कृतं च पाठयति स्म।

१८९० मध्ये सः स्वातन्त्र्यकार्यार्थं शिक्षकवृत्तिं त्यक्तवान्। स्वातन्त्र्यप्राप्त्यर्थं धर्मसंस्कृतिपुनरुज्जीवनार्थं च जनान्दोलनं तेन आरब्धम्। तस्य राजकीयजीवनं सुदीर्घम् आसीत्। महात्मागान्धेः पूर्वं सः एव भारतस्य विख्याततमः राजकीयनेता आसीत्।

स्वातन्त्र्यकार्यार्थं सः भारतीयराष्ट्रियखांग्रेसदलं प्रविष्टवान्। तथापि तत्र स्वातन्त्र्यान्दोलनविषये मृदुभूमिकां धारयतां सः विरोधं कृतवान्। स्वातन्त्र्यविषये तस्य भूमिका तीक्ष्णा आसीत्। तेन आरब्धात् 'स्वदेशी'-आन्दोलनात् अनन्तरं खांग्रेसदलं मृदुदल-तीक्ष्णदलयोः विभक्तम् अभवत्।

१८९६ मध्ये प्लेगमहामार्याः प्रादुर्भावकाले ब्रिटिशशासनेन आचरितस्य घोरवर्तनस्य निषेधार्थं केसरीमराठावृत्तपत्रद्वये लिखितैः लेखैः प्रेरितौ चापेकरबन्धू रँड्-नामकं ब्रिटिशाधिकारिणं व्यापादितवन्तौ। अतः शासनेन तिलकमहोदयं विरुद्ध्य हननप्रेरणाभियोगः चालितः तथा च महोदयाय १८ मासात्मकः सश्रमकारावासरूपः दण्डः प्रदत्तः। तदनन्तरं कारावासात् मुक्तः महोदयः ' स्वराज्यं मम जन्मसिद्धाधिकारः तदहं निश्चयेन अधिगच्छेयम्' इत्येतत् प्रसिद्धं उद्घोषणं कृतवान्।

तिलकस्य 'स्वदेशी-आन्दोलनं' तथा 'बहिष्कारान्दोलनं' जनेषु भृशं स्वातन्त्र्यलालसाम् अजनयत्। क्षुदिरामबोसः तथा प्रफुल्लचाकी इत्येतौ द्वौ क्रान्तिकारिणौ ब्रिटिशन्यायाधीशः डग्लस् किग्जफोर्ड् इत्यस्य हननाय कोलकातानगरे विस्फोटकस्य विस्फोटनं कृतवन्तौ। तेषां कार्यं तिलकमहोदयेन केसरीवृत्तपत्रे भृशं प्रशंसितम् ब्रिटिशेभ्यः त्वरितस्वराज्यदानस्य आह्वानं कृतम्। तेन पुनरेकवारं राजद्रोहाभियोगं प्रचाल्य शासनेन महोदयः षड्वर्षीय-सश्रमकारावासार्थं ब्रह्मदेशे मण्डालेनगरं प्रेषितः।

कारागारे सः कर्मयोगसमर्थिनीं विश्वप्रसिद्धां 'गीतारहस्य'नाम्नीं भगवद्गीताटीकां अलिखत्। 

महोदयेन 'आर्क्टिक होम इन द वेदाज्' तथा 'ओरायन' नामकौ द्वौ प्रसिद्धग्रन्थौ अपि लिखितौ। आद्ये आर्यजनानां मूलस्थानं उत्तरध्रुवप्रदेशः अस्तीति तर्कितम्। द्वितीये वेदेषु प्राप्तानां नक्षत्रोल्लेखानाम् आधारेण वेदकालनिर्णयस्य प्रयत्नः महोदयेन कृतः अस्ति। 

'भारतीय असन्तोषस्य जनकः' इति 'लोकमान्यः 'इति चैताभ्यां बिरुदाभ्यां ज्ञातः एषः महान् स्वातन्त्र्यसेनानी १ ऑगस्ट १९२० दिनाङ्के पञ्चत्वं गतः। 

नमः लोकमान्याय।