भारतरत्नं डॉ.आम्बेडकर:।

 


डॉ. भीमराव-रामजी-अम्बेडकरः १४ एप्रिल १८९१ दिनाङ्के मध्यप्रदेशे महू इत्यत्र जनिम् अलभत। तदानीं एषः ग्रामः 'सेंट्रल् प्रोव्हिन्स' प्रदेशे समाविष्टः आसीत्। भीमरावस्य पिता रामजि-मालोजि-सकपाळः आङ्ग्ल-भारतीय-सैन्ये 'सुभेदार' इति पदम् अभूषयत। भीमरावस्य मातुः नाम भीमाबायी-सकपाळः इति। भीमरावः तयोः चतुर्दशतमं तथा अन्तिमम् अपत्यम्। रामजेः कुटुम्बं मूलतः महाराष्ट्रस्य कोङ्कणप्रान्तस्य रत्नागिरीजनपदे विद्यमानस्य मण्डणगड-तालुकक्षेत्रस्य 'अम्बडवे' इति ग्रामात् आगतम् आसीत्। एतत् कुटुम्बं 'महार' नामिकायां जातौ समाविष्टम् आसीत्। तदानीं महारजातेः समावेशः अस्पृश्यजातिषु भवति स्म। तेन एते जनाः समाजव्यवहारे सामाजिक-आर्थिकभेदभावनायाः आस्पदं भवन्ति स्म। 

पाठशालायां भीमरावसदृशाः बालाः अस्पृश्याः इति इतरेभ्यः सवर्णबालेभ्यः विलगीकृत्य  पृथक् उपावेशिताः भवन्ति स्म। शिक्षकाः तान् प्रति दुर्व्यवहारं कुर्वन्ति स्म। अध्ययने तेषाम् अल्पमेव साह्यं कुर्वन्ति स्म। 

एते बालाः कक्ष्यायाम् उपवेष्टुं नानुमताः। कक्ष्यायाः बहिः एव ते स्वस्य गोणीम् आसन्दीकृत्य तस्याम् उपविशन्ति स्म। तेषु पिपासितेषु सत्सु उच्चवर्णीयबालाः तेषां कृते उपरिष्टात् जलं पातयन्ति स्म यतः जलभाण्डं जलं वा स्प्रष्टुं ते नानुमताः। भीमरावस्य कृते जलदानस्य कार्यं पाठशालायाः कर्मकरस्य आसीत्। यदा कर्मकरः अवकाशं स्वीकृत्य क्वचित् अनुपस्थितः तदा भीमरावाय जलदानं न भवति स्म। तेन तस्य आदिनं तृषितः सन् उपवेशः अनिवार्यः भवति स्म। एतस्याः परिस्थितेः वर्णनं भीमरावेण 'नो प्यून नो वॉटर' इत्यस्मिन् स्वलेखे कृतम् अस्ति।

१८९४ मध्ये रामजिः सेवानिवृत्तः। तदनन्तरं एतत् कुटुम्बं महाराष्ट्रस्य सातारानगरम् आगतम्। आगमनात् समनन्तरमेव भीमरावस्य माता दिवङ्गता। रामजेः चतुर्दशसु अपत्येषु केवलं पञ्च--बलरामः, आनन्दरावः तथा भीमरावः एते त्रयः पुत्राः, मञ्जुळा तथा तुळसा एते द्वे कन्ये --एव जीवन्तः अवशिष्टाः आसन्। तेषु भीमरावः एकः एव माध्यमिकशालां प्रवेष्टुम् अर्हतां प्राप्य माध्यमिकशालां प्रविष्टवान्।  तत्र तस्य पित्रा भीमरावस्य कुलनाम अम्बडवेकरः इति लिखितं यतः सः मूलतः अम्बडवेग्रामात् आसीत्। तथापि अनन्तरं भीमरावस्य शिक्षकः कृष्णाजि-केशव-अम्बेडकरः स्वस्य अम्बेडकरः इति कुलनाम भीमरावाय अदात्।

१८९७ मध्ये एतत् कुटुम्बं मुम्बयीम् आगतम्। तत्र भीमरावः 'एल्फिन्स्टन् हायस्कूल' इति माध्यमिकविद्यालयं  प्रविष्टवान् प्रथमः अस्पृश्यवर्गीयच्छात्रः आसीत्। १९०६ मध्ये तदानीन्तनीं परम्पराम् अनुसृत्य वयसः पञ्चदशे वर्षे भीमरावस्य विवाहः रमाबायीनाम्न्या नववर्षीयया कन्यया सह अभवत्। १९१२ मध्ये भीमरावेण मुम्बयीविद्यापीठात् अर्थशास्त्रं तथा राजशास्त्रम् इति विषये पदवी अधिगता। समनन्तरमेव १९१३ मध्ये तस्य पिता दिवं गतः।

तस्मिन्नेव वर्षे बडोदासंस्थानस्य शिष्यवृत्तिं प्राप्य भीमरावः उच्चशिक्षणार्थम् अमरीकादेशं गतः। कोलम्बियाविद्यापीठात् अर्थशास्त्रे तेन १९१५ तमे वर्षे परास्नातकपदवी समधिगता। तत्र तेन 'प्राचीनभारतीयव्यापारः' इति शोधनिबन्धः प्रस्तुतः।

'लण्डन स्कूल ऑफ् इकानॉमिक्स' इत्यस्मात् विद्यापीठात् १९२३ मध्ये तेन अर्थशास्त्रे विद्यावारिधिः इति पदवी अधिगता। अर्थशास्त्रे विद्यावारिधिं प्राप्तवान् सः दक्षिण-आशियातः प्रथमः व्यक्तिः आसीत्। १९२७ मध्ये कोलम्बियाविद्यापीठेन तस्मै विद्यावारिधिः इति पदवी प्रदत्ता। 'ग्रेज् इन्' इत्यस्मात् विद्यापीठात् १९२० मध्ये सः बॅरिस्टर इति उपाधिम् अपि अधिगतवान्। पुनश्च भारतीयसंविधानस्य निर्माणे तस्य अतुलनीययोगदानम् उपलक्ष्य १९५२ मध्ये कोलम्बियाविद्यापीठेन तथा १९५३ मध्ये भाग्यनगरस्थेन ओस्मानीयाविद्यापीठेन मानद-विद्यावारिधिः इति उपाधिना सः सम्मानितः।

आजीविकार्थं भीमरावेण प्रथमं महाराज-सयाजीरावस्य बडोदासंस्थाने सैन्यसचिवरूपेण कार्यमारब्धम्। तथापि समनन्तरमेव सः तत् कार्यम् अत्यजत्।अनन्तरं वैयक्तिकशिक्षकः, लेखापालः इत्यादीः वृत्तीः सः स्वीकृतवान्। निवेशमन्त्रणादानस्य व्यवसायः अपि तेन कञ्चित्कालम् अङ्गीकृतः। तथापि तस्य ग्राहकाणां तस्य अस्पृश्यजातिविषये ज्ञानम् अभवत् तदा तेन सः व्यवसायः असफलतां गतः। १९१८ मध्ये तेन सिडनहॅम-वाणिज्यार्थ-महाविद्यालये प्राध्यापकवृत्तिः प्राप्ता।

१९२० मध्ये तेन कोल्हापुरस्थस्य छत्रपतिशाहूमहाराजस्य साह्येन 'मूकनायकः' इति साप्ताहिकस्य प्रकाशनम् आरब्धम्। दलितजनेषु शिक्षणप्रसारार्थं तेन बहिष्कृत-हितकारिणी-सभा इत्यस्याः संस्थायाः स्थापनापि कृता। 

१९२७ मध्ये अस्पृश्यताविरोधि-आन्दोलनस्य प्रारम्भः तेन कृतः। महाराष्ट्रस्य रायगडजनपदे महाडग्रामे दलितजनानां ग्रामतडागात् जलादानस्य अधिकारार्थं सः सत्याग्रहम् अनुष्ठितवान्।

दलितानां मन्दिरप्रवेशस्य अधिकारार्थम् अपि तेन आन्दोलनानि आरब्धानि। नाशिकस्थ-काळाराममन्दिरे दलितानां प्रवेशस्य अधिकारार्थं तेन जनयात्रा आरब्धा। तस्यां १५००० दलितजनाः सहभागिनः अभवन्।

१९३२ मध्ये ब्रिटिशैः दलितानां कृते स्वतन्त्रनिर्वाचनक्षेत्रनिर्माणस्य उद्घोषणा कृता। तेन हिन्दुसमाजः विभक्तः भवेत् इति भीत्या गान्धिना तन्निरोद्धुम् उपवासः आरब्धः। अतः मदनमोहनमालवीयादिजनैः उभयोः नेत्रोः अम्बेडकरगान्ध्योः मेलनम् आयोजितम्। तदा अम्बेडकरः गान्धिः च सन्धिं कृतवन्तौ। सः च सन्धिः 'पूना पॅक्ट' इति नाम्ना प्रसिद्धः अभवत्। तेन सामान्यनिर्वाचनक्षेत्रे दलितानां कृते स्वतन्त्राणि आरक्षितस्थानानि निर्मितानि। तेन स्वतन्त्रनिर्वाचनक्षेत्रनिर्माणं निरस्तम्।

१९३५ मध्ये मुम्बय्यां शासकीयविधिमहाविद्यालयस्य प्राचार्यरूपेण सः नियुक्तः अभवत्। १९३६ मध्ये तेन 'स्वतन्त्रश्रमिकपक्षः' इति नाम्ना राजनैतिकदलस्य स्थापना कृता। अस्मिन्नेव वर्षे 'जातिव्यवस्थाध्वंसः' इति तस्य पुस्तकं प्रसिद्धम् अभवत्। कोड्कणप्रान्ते विद्यमानायाः कृषिकानां कृते अन्याय्याः 'खोती'-व्यवस्थायाः निषेधार्थम् आन्दोलनमपि तेन आरब्धम्।

१९४० मध्ये महोदयेन 'पाकिस्थानविषयकविचाराः' नामकः चतुःशतपृष्ठात्मकः प्रबन्धः प्रकाशितः यस्मिन् पाकिस्थानराष्ट्रस्य कल्पना तेन साकल्येन विवेचिता। तन्मतेन भारतस्य विभाजनं कृत्वा मुसल्मानानां कृते भिन्नराष्ट्रस्य निर्माणं हितावहमेव आसीत् यतः हिन्दुमुस्लिमाः समञ्जनेन एकत्रं वासं कर्तुम् असमर्थाः सन्ति।

१५ ऑगस्ट १९४७ दिनाङ्के भारतं स्वतन्त्रम् अभवत्। खांग्रेसदलेन प्रथमविधिमन्त्रिरूपेण भारतस्य सेवां कर्तुं सः निमन्त्रितः। २९ ऑगस्टदिने संविधानप्रारूपसमितेः सः अध्यक्षः अभवत्।

पाश्चात्यविदुषां मतेन भारतीयसंविधानम् ऐदम्प्राथम्येन एकं सामाजिकप्रपत्रम् अस्ति। तस्य बहवः अंशाः सामाजिकोत्थानस्य कृते एव निर्मिताः सन्ति। सामाजिकदृष्ट्या अप्रगतसमाजस्य कृते वृत्तिषु 'आरक्षणस्य व्यवस्थां' निर्मातुं संसदः अनुमतिः तेन अधिगता। एतेन सामाजिकविषमताम् उन्मूलयितुं अप्रगतसमाजाय उन्नतेः अवसरान् च प्रदातुं वयं प्रभवेम इति संविधानप्रारूपसमितेः चिन्तनम् आसीत्। स्त्रीणां कृते अपि बहवः आर्थिकसामाजिकाधिकाराः संविधानेन दत्ताः। एतत् संविधानम् २६ जनवरी १९५० दिनाङ्के संसदा अङ्गीकृतम् अभवत्।

अम्बेडकरः काश्मीरेभ्यः ३७० अनुच्छेदानुसारं विशेषाधिकारान् प्रदातुं न सिद्धः आसीत्। एतस्य प्रस्तावस्य सः भृशं विरोधं कृतवान्। तथापि नेहरूमहाभागस्य अनुरोधेन पटेलमहोदयेन एषः अनुच्छेदप्रस्तावः संसदि न्यस्तः पारितः च।

अम्बेडकरः सर्वभारतीयानां कृते समाननागरीविधेः समर्थकः आसीत्। तेन विवाहः तथा दायभागस्य प्राप्तिः अनयोः विषययोः स्त्रीपुरुषसमानताम् निर्मातुं प्रस्तुतः 'हिन्दु-कोड-बिल्' इति विधिः संसदा अवरोधितः अतः सः १९५१ मध्ये सदस्यत्वस्य त्यागपत्रं दत्तवान्। तथापि  १९५२ मध्ये सः राज्यसभायां पुनः नियुक्तः अभवत्। 

अम्बेडकरः प्रथमः भारतीयः येन परदेशात् अर्थशास्त्रे विद्यावारिधिः पदवी प्राप्ता। कृषिः तथा औद्योगिकक्षेत्रस्य उन्नति देशोन्नत्यै भवेदिति तस्य मतम्। जनननियन्त्रणं भारतस्य आर्थिकविकासाय साह्यकारि भवेदिति तस्य मतं स्वीकृत्य भारतसर्वकारेण कुटुम्बनियमनयोजना प्रचालिता।

प्रप्रथमं अम्बेडकरः सिक्खधर्मं प्रवेष्टुम् इष्टवान्। तथापि अनन्तरं तेन बौद्धधर्मस्य स्वीकारः कृतः। १४ ऑक्टोबर १९५६ मध्ये एतत् धर्मपरिवर्तनम् अभवत्। तदनन्तरं तस्य ५ लक्ष अनुयायिनः अपि बौद्धाः अभवन्। 'बुद्धः तथा च तस्य धम्मः' तेन लिखितः अन्तिमः ग्रन्थः। तस्य लेखनस्य समापनात्  अनन्तरं त्रिषु दिनेषु ६ डिसेंबर १९५६ इति दिनाङ्के सः दिवङ्गतः।  

२०१२ मध्ये एकस्मिन् सर्वेक्षणे सः 'सर्वश्रेष्ठः भारतीयः' इति निर्वाचितः अभवत्।