सरलमानकसंस्कृतम्। (Simple and Standard Sanskrit)

 


भारतसर्वकारस्य मानवसंसाधनविभागेन २०१५ मध्ये द्वादशानां संस्कृततज्ज्ञानाम् एका समितिः निर्मिता। कुटुम्बशास्त्री, चमुकृष्णशास्त्री, डॉ.श्रीनिवास-वरखेडी इत्यादयः मान्यवराः अस्याः समितेः सदस्याः आसन्। अग्रिमदशवर्षेषु संस्कृतस्य विकासाय एकस्याः योजनायाः पथदर्शस्य (road map) निर्माणम् इति एतस्याः समितेः प्रदत्तकार्यम् आसीत्।

समित्या त्रिषु मासेषु एकं प्रतिवेदनं सज्जीकृत्य सर्वकाराय दत्तं यस्मिन् विद्यालय-महाविद्यालय-विश्वविद्यापीठादिस्तरेषु संस्कृतविकासार्थं बहवः उपायाः परिगणिताः। तत्र संस्कृतस्य उन्नयनार्थम् उक्तेषु उपायेषु अन्यतमः उपायः नाम सरलमानकसंस्कृतस्य प्रचालनम्।

समितेः कथनानुसारम् भारते विद्यालयस्तरे आहत्य पञ्चकोटिसङ्ख्याकाः छात्राः संस्कृतं पठन्ति। पुनश्च उच्चस्तरे पठतां सङ्ख्या प्रायः दशलक्षम् अस्ति। एतान् पाठयन्तः पञ्चलक्षसङ्ख्याकाः संस्कृताध्यापकाः वर्तन्ते।

पठितॄणां पाठयितॄणां च  एतावती महती संख्या अस्ति चेदपि संस्कृतस्य व्यवहारे प्रचलनं तस्य विकासश्च नैव दृश्येते।तस्य बहूनि कारणानि सन्ति।  बहुत्र विद्यालय-महाविद्यालयेषु शिक्षकस्य  उपलब्धेः अभावात् संस्कृतविभागानां पिधानं कर्तव्यम् आपतति। त्रिभाषासूत्रस्य असमीचीनावलम्बात् सीबीएस्ई, नवोदयविद्यालयसङ्घटनम् केन्द्रियविद्यालयसङ्घटनम् इत्यादीनां पाठ्यक्रमेषु अष्टमकक्ष्यायाः अग्रे संस्कृतविषयस्य प्रावधानम् एव न दृश्यते। यत्र अस्ति तत्र बहुषु स्थलेषु सङ्गणकम्, पर्यावरणम् इत्यादिविषयाणां विकल्परूपेण संस्कृतं पाठ्यते। 

संस्कृतस्य विकासे प्रत्यूहभूतः महान् दोषः नाम संस्कृतपाठनस्य असमीचीना पद्धतिः। गतशतकद्वयं वयं व्याकरणानुवादपद्धत्या एव संस्कृतं पाठयन्तः स्मः, या पद्धतिः भाषापठनाय अनुपयुक्तेति मत्वा जगति सर्वैः हीना वर्तते।  अनया पद्धत्या व्याकरणनियमानां अनर्थकरटनेन संस्कृतविषयिणी रुचिः छात्रेषु नैव उत्पद्यते। संस्कृते निहितं विविधविषयाणां ज्ञानं यद्यपि अनुवादद्वारा प्राप्यते तथापि भाषारूपेण संस्कृतस्य व्यावहारिकोपयोगस्य क्षमता न हस्तगता भवति। संस्कृते नूतनसाहित्यस्य निर्मितिः अपि नैव भवति। संस्कृतं कुत्रापि संस्कृतमाध्यमेन नैव पाठ्यते तेन छात्राः अपि परीक्षादिषु संस्कृतेन स्वाभिव्यक्तये नैव प्रभवन्ति।  तेन एतस्याः भाषायाः हानिः एतावता प्रमाणेन जाता यत् संस्कृतम् एका मृतभाषा अस्ति इति अन्यथामतिः जनमानसे दृढीभूता।

अतः सर्वेषु शैक्षिकस्तरेषु पाठन-पठनार्थं संस्कृतस्य उपयोगः भवेत् , व्यवहारे अपि संस्कृतस्य प्रचालनं भवेत् इत्यर्थं कश्चन महाप्रयासः अस्माभिः विधेयः भवति। तथापि एतादृशस्य प्रयासस्य पथि विद्यमानः अन्यः एकः प्रत्यवायः नाम 'संस्कृतं कठिनम्' इति अन्यत् एकम् अपज्ञानम्। वाग्व्यवहारे साहित्ये अपि प्रौढसंस्कृतस्य उपयोगः क्रियते चेदेव सः संस्कृतस्य गौरवाय भवेत् इति धिया विद्वांसः सर्वत्रदीर्घसन्धिसमासयुक्तस्य दुरूहशब्दयुतस्य संस्कृतस्य प्रयोगं कुर्वन्ति। तेन 'सामान्यजनव्यवहारे उपयोगाय संस्कृतं न योग्यम्' , 'एषा केवलं पण्डितानां भाषा' इति विपरीतग्रहः जनमानसे दृढः अभवत्। 

एतस्य प्रतीकारार्थं संस्कृतस्य सामान्यजनसुलभं रूपं सर्वत्र प्रचलितं भवेत् , तेन च संस्कृतं सरलं तथा व्यवहारोपयोगि अस्ति इति ज्ञानम् जनेषु उत्पद्येत एतदर्थं प्रयत्नः करणीयः। संस्कृतस्य एतदेव सरलरूपं 'सरलमानकसंस्कृतम्' इति नाम्ना समितिजनैः निर्दिष्टम् अस्ति।

संस्कृतं सरलं भवतु इत्यस्य कोऽर्थः? सामान्यजनाः यदृच्छया छन्दानुरोधेन यस्य प्रयोगं कुर्युः तदेव सरलं संस्कृतं किम्? एते प्रश्नाः मनसि उत्पद्येरन्। 

प्रथमं ज्ञातव्यं नाम 'सरलम्' इत्यस्य अर्थः 'सरलीकृतम्' इति नास्ति। यत् पूर्वं सरलं नासीत् तदस्माभिः बलात् सरलं क्रियते चेत् तत् सरलीकरणं भवेत्। जनाः पर्यायशब्दानां ज्ञानाभावात् 'सः सिगरेटं पिबति' 'स्कूलं गच्छति'  'प्रोफेसरस्य मतम्' एतादृशहेयप्रयोगान कर्तुं समुद्यताः भवन्ति । एतत् अज्ञानवशात् व्याकरणनियमान् अनादृत्य यदृच्छया सम्पादितं सरलीकरणम्। एतादृशं किमपि अस्माभिः नेष्यते। 

संस्कृतस्य सर्वजनग्राह्यं सरलं तथापि व्याकरणनियमानुसारि रूपं भारते पूर्वं प्रचलितम् आसीत् एव। तत्र दुरवगम्यानि शब्दरूपाणि, दीर्घसन्धिसमासाः इत्यादीनाम् उपयोगं विना अपि भाषाव्यवहारः सम्भवति स्म। काठिन्यस्य भावः न कुत्रापि आसीत्। व्यवहारे भाषाम् उपयोक्तुं महतः पाण्डित्यस्य आवश्यकता नास्ति। कतिपयशतैः परिगणितशब्दैः काठिन्यरहितया लघुलघुवाक्यानां रचनया च वयं सर्वं व्यवहारं कर्तुं प्रभवामः। तादृशस्य संस्कृतस्य प्रचारः प्रसारश्च अस्माभिः करणीयः। 

यदा आङ्ग्लाः भारते आङ्गलभाषायाः प्रसारं कर्तुं ऐच्छन् तदा ते केवलं अष्टशतस्य शब्दानां ज्ञानात् सर्वोपि जनः आङ्ग्लया व्यवहाय समर्थो भवेत् इति प्रचारं कृतवन्तः। तेन तैः भाषाप्रसारे सम्यक् यशः अपि समधिगतम्। तथैव परिगणितशब्दानां ज्ञानेन संस्कृतव्यवहारः अपि सम्भवेत् इत्येषः विश्वासः जनेषु उत्पाद्यः भवेत्।

सरलं संस्कृतं मानकमपि भवितुमर्हति। एतस्मिन्विषये भगवता पाणिनिना दत्तं व्याकरणम् अस्माकं शिरोधार्यम्। 'आभारप्रदर्शनम्', 'सादरीकरणम्' एतादृशान् अपाणिनीयप्रयोगान् प्रादेशिकभाषानुकारिणां वयं न अनुमन्यामहे।   

भाषायाः सरलत्वम् अभ्युपगन्तव्यं चेत् केचन उपायाः अवलम्ब्याः। एते प्रथमे अप्रगतस्तरे एव योजनीयाः। यथा यथा भाषाभ्यासः वर्धते तथा तथा शनैः शनैः प्रौढसंस्कृतं प्रति गमनीयम्।--

१) प्रथमस्तरे स्वरान्तशब्दानां तत्रापि अकारान्तपुँल्लिगानाम् अकारान्तनपुंसकलिङ्गानाम्, आकारान्त-ईकारान्तस्त्रीलिङ्गानां च चतुर्विधानामेव शब्दानाम् उपयोगः करणीयः। यथा यथा स्तरवर्धनं भवेत् तथा तथा अन्यस्वरान्त-हलन्तशब्दान् प्रति गन्तव्यम्। अमरकोषादिषु एते एव चतुष्प्रकारकाः शब्दाः बहुमात्रया (८०% यावत्) दृश्यन्ते।

२) लकारेषु लट्, लृट् , लोट् तथा च विधिलिङ् एतेषां चतुर्णामेव उपयोगः प्रथमस्तरे पर्याप्तः। भूतकृदन्तस्य क्तवतु-प्रत्ययान्तस्य उपयोगेन लङः कार्यं सिध्यति।

३) संस्कृते उपद्विसहस्रं धातवः सन्ति। तथापि केवलं व्यवहारोपयोगिनां उपशतं धातूनामेव प्रयोगः करणीयः। तेपि धातवः प्रथमचतुर्थषष्ठदशमगणीयाः एव भवेयुः तेषु अपि प्रायः परस्मैपदिनः एव। अन्येषां गणानां केवलम् अस्-कृ-आदीनाम् बहूपयुक्तानामेव धातूनां प्रयोगः भवतु। अन्यत्र सर्वत्र भुनक्ति= भोजनं करोति, खिद्यते= खिन्नःभवति एवं विभज्यप्रयोगैः कार्यं चालनीयम्।

४) प्रादेशिकभाषासु इव संस्कृते अपि एकवचनबहुवचनयोः एव प्रयोगं कुर्मः। द्विवचनोपयोगं प्रगतस्तरार्थं रक्षामः। एवमेव मध्यमपुरुषस्य स्थाने भवत्-सर्वनाम्नः प्रयोगेण कार्यं साधयामः। एवं एकस्य लकारस्य (पठति,पठन्ति, पठामि, पठामः एतादृशं) चत्वारि एव रूपाणि स्वीकृत्य कार्यनिर्वहणं शक्यम्।

५) केषाञ्चन विभक्तीनां रूपाणि स्मर्तुम् उपयोक्तुं छात्राः कष्टम् अनुभवन्ति तत्र अन्योपायैः सरलतासम्पादनं शक्यम्। तथा हि पञ्चमीस्थाने 'तसिल्'-प्रत्ययस्य प्रयोगः। चतुर्थीस्थाने 'कृते' इत्यस्य अव्ययस्य षष्ठ्यन्तेन सह प्रयोगः।

६) दीर्घसमासाः, दीर्घसन्धयः एतेषां प्रयोगः परिहरणीयः। केवलं परिचितानां प्रचलितसन्धिसमासानाम् एव उपयोगः भवतु।

७) प्रथमस्तरे केवलं कर्तरिप्रयोगस्य तत्रापि लघुलघुवाक्यानामेव उपयोगः भवतु। वाक्यरचना प्रादेशिकभाषाम् अनुसृत्य अन्वययुक्ता भवति चेत् अर्थावगमः सुलभतया भवेत्।

एतैः उपायैः अन्यैरपि सुविचारितैः सरलसंस्कृतस्य सम्पादनं शक्यते। तेन 'संस्कृतं कठिनम्' इति भीतिः जनमानसात् अपगच्छेत्। जनाः सहजतया संस्कृतप्रयोगार्थं सिद्धाः भवेयुः।

सरलसंस्कृतस्य क्रियान्वयनं कथं कुत्र वा करणीयम् इत्यपि चिन्त्यो विषयः। तादृशाः केचनोपायाः---

१) सरलसंस्कृतविषये सङ्गोष्ठीनाम् आयोजनम्।

२) सरलसंस्कृतविषयकानां संज्ञापनपुस्तिकानां निर्माणम्।

३) विद्वद्भिः सरलसंस्कृतेन लेखनं प्रकाशनं च।

४) प्राचीनसाहित्यस्य सरलसंस्कृतेन पुनर्लेखनम्।

५) शिक्षकनियुक्तिसमये सरलसंस्कृतेन व्यवहारस्य क्षमता इत्येषः एकः निकषः भवेत्।

६) अनुस्थापन-पुनश्चर्यापाठ्यक्रमाः (Orientation and Refresher Courses) सेवान्तर्गत-प्रशिक्षणानि च (In-serviceTrainings) सरलसंस्कृतेन भवन्तु।

७)शिक्षणशास्त्राभ्यासक्रमेषु शास्त्री-आदिषु अन्याभ्यासक्रमेषु च विषयरूपेण सरलसंस्कृतस्य समावेशः।

८) गणितविज्ञानादिविषयाणां पाठ्यपुस्तकानां सरलसंस्कृतेन लेखनम्

९) विद्यावारिधेः (PhD) कृते प्रबन्धादीनां सरलसंस्कृतेन लेखनम्।

१०) संस्कृतपाठशालाविश्वविद्यालयानां सर्वोपि व्यवहारः सरलसंस्कृतेन एव भवेत्।