किमर्थं माहेश्वरसूत्राणाम् उपदेश:?
लौकिकभाषायां य: अकारादीनां वर्णानाम् अ ,आ,इ,ई एवम् आनुपूर्व्येण उपदेश: प्राप्यते स: मातृकापाठ: इति कथ्यते। तथापि पाणिनिना यानि माहेश्वरसूत्राणि रचितानि तेषु एष: वर्णक्रम: पूर्णतया परिवर्त्य दत्त: अस्ति। अत: एतस्य वर्णोपदेशस्य प्रयोजनं किम् इति प्रश्न: उदेति।
उत्तरार्थं पतञ्जलि: त्रीणि प्रयोजनानि प्रस्तौति–
अ) वृत्तिसमवायार्थ: उपदेश:। (वा १५)
वृत्ति: = शास्त्रस्य प्रवृत्ति: प्रवर्तनम्। समवाय:= वर्णानाम् आनुपूर्व्येण सन्निवेश: स्थापनम्। वृत्तिसमवाय: इति समास: त्रिधा विग्रहीतुं शक्य:।
१) वृत्तये समवाय: –वर्णानाम् विशिष्टानुपूर्व्येण कथनं (समवाय:) अण् अच् इक् आदीनां प्रत्याहाराणां निर्माणार्थम्। प्रत्याहारसाधनात् ‘इको यणचि’ इत्यादीनां सूत्राणां निर्मिति: शक्या भवति। एवं ‘इको यणचि’ इत्यादिरूपस्य लघुरूपशास्त्रस्य प्रवर्तनं शक्यं भवेत् इत्यर्थं वर्णसमवाय: उक्त: अस्ति। अन्यथा ‘इको यणचि’ इति शास्त्रम् ‘इउऋलृवर्णानां यवरला: अइउऋलृएओऐऔवर्णेषु’ एवं अतिगुरु सूत्रं वक्तव्यम् अभविष्यत्।
२) वृत्त्यर्थ: समवाय:-- वृत्तिश्च सा समवायश्च। वर्णानाम् आनुपूर्व्येण विशेषोपदेश: शास्त्रस्य प्रवर्तनाय कृत: अस्ति। अत: समवाय: शास्त्रप्रवर्तनरूप: एव।
३) वृत्तिप्रयोजन: समवाय:-- प्रयोजनशब्दे य: ल्युट् स: कर्मबोधक:। अत: तस्यार्थ: प्रयोज्य: इति भवति। वृत्तिप्रयोज्य: समवाय:। वृत्त्या प्रयोज्य: समवाय: इति विग्रह:। शास्त्रस्य प्रवृत्त्या एव एष: समवाय: निर्मित: अस्ति इत्यर्थ:।
अथवा ल्युट् कर्त्रर्थेपि युज्यते। वृत्तिप्रयोजन: = वृत्ते: प्रयोजक: समवाय:। शास्त्रस्य प्रवर्तक: इति।
उपदेशशब्दे य: दिश्-धातु: स: उच्चारणार्थ:। अत: उपदेशशब्दस्यार्थ: पाणिनिना आचार्येण कृतम् उच्चारणम्।
व्याकरणशास्त्रस्य नाम तस्य सूत्राणां प्रवर्तनं भवतु इति धिया पाणिनिराचार्य: माहेश्वरसूत्रेषु वर्णानाम् एवंविधेन आनुपूर्व्येण उपदेशं कृतवान् इत्येवं वार्त्तिकस्य फलितार्थ:।
आ) अनुबन्धकरणार्थश्च (वा १६)– अनु पश्चात् बध्यते संसक्तो भवतीति अनुबन्ध:। अणादय: ये प्रत्याहारा: सूत्रनिर्मित्यर्थं पाणिनिना निर्मिता: तेषु उच्चारितप्रध्वंसी इत्संज्ञको वर्ण: अनुबन्ध:। ते अनुबन्धा: भवन्तु इत्यर्थं पाणिनि: वर्णसमवायम् उपदिष्टवान्।
इ) इष्टबुद्ध्यर्थश्च (वा १७)– शास्त्रनिर्माणाय वर्णानां ज्ञानं भवतु इत्येतत् इष्टम्। वर्णानाम् उपदेशात् ऋते तादृशा: इष्टवर्णा: ज्ञातुं न शक्यन्ते। अत: पाणिनि: वर्णसमवायं कृतवान्।
अत्र तृतीयप्रयोजनविषये आक्षेप:–
इष्टबुद्ध्यर्थश्चेति चेदुदात्तानुदात्तस्वरितानुनासिकदीर्घप्लुतानामप्युपदेश:। (वा १८)– माहेश्वरसूत्रेषु अइउलृ इत्यादीनाम् उपदेश: कृत: अस्ति तथैव तेषाम् उदात्त-अनुदात्त-स्वरितरूपाणाम् उपदेश: इष्ट:। सूत्रेषु अननुनासिकवर्णानामेवोपदेश: दृश्यते अत: तेषाम् अनुनासिकरूपाण्यपि अपेक्षितानि। तथैव सूत्रेषु केवलं ह्रस्वस्वराणाम् उपदेश: दृश्यते। स्वराणां दीर्घप्लुता: अपि इष्यन्ते।
पतञ्जलिराह –नैष दोष: यत: आकृत्युपदेशात् सिद्धम्। (वा १९) सूत्रेषु कृत: वर्णोपदेश: आकृतिं (जातिं) दर्शयति। तथा हि अ इत्युक्ते अत्वरूपा जाति: प्रतीयते तेन च अकारस्य अष्टादशभेदानामपि ज्ञानं भवति।
एतस्मिन् पुन: आक्षिप्यते –आकृत्युपदेशात् सिद्धमिति चेत् संवृतादीनां प्रतिषेध:। (वा २०) यदि आकृतिरूप: वर्णनिर्देश: कृत: तर्हि सा वर्णजाति: वर्णानां दोषयुक्तोच्चारणे अपि भवत्येव। अत: तेषां दोषाणां प्रतिषेध: वक्तव्य: भवेत्। ते आहत्य अष्टादश स्वरदोषा: भवन्ति। तदित्थम्–
१) संवृत: – स्वरा: विवृतप्रयत्ना:। तेषामुच्चारणे गलविवरस्य विकास: भवति। तथापि तेषामुच्चारणे गलविवारस्य सङ्कोच: क्रियते चेत् दोषाय।
२) कल:-- एकस्मिन्नुच्चारणस्थाने उच्चरितव्य: वर्ण: अन्यस्मिन्नेव स्थाने उच्चर्यते।
३) ध्मात: – श्वासस्य आधिक्यात् ह्रस्ववर्ण: दीर्घ: इव उच्चर्यते।
४) एणीकृत:-- हरिण्या: इतस्तत: कूर्दनवत् स्वर: स्थानद्वये उच्चारित: भवति अथवा अविस्पष्ट: उच्चार्यते यथा ओकार: औकारवत् श्रूयते।
५) अम्बूकृत:-- जलपूरितमुखेन इव स्वरोच्चारणं येन स्वर: अन्तर्मुख: श्रूयते।
६) अर्धक:-- दीर्घस्य ह्रस्वोच्चारणम्।
७) ग्रस्त:--जिह्वामूले निगृहीत:।
८) निरस्त:-- कठोरोच्चारणम्।
९) प्रगीत:-- सामगानवत् उच्चारणम्।
१०) उपगीत:-- समीपस्थवर्णान्तरस्य गीत्या प्रभावितम् उच्चारणम्।
११) क्ष्विण्ण:--स्वरस्य कम्पनम्।
१२) रोमश:--गम्भीरमुच्चारणम्।
१३) अवलम्बित:-- अन्यवर्णेन संयुक्तमिव उच्चारणम्।
१४) निर्हत:--रूक्ष:।
१५) सन्दष्ट:-- वर्धितं कर्तितमिव वा उच्चारणम्।
१६) विकीर्ण:-- एक: सन् अनेकवर्णवत् प्रतीयमान: स्वर:।
एवमाहत्य षोडश स्वरदोषा: सन्ति। एतेभ्य: अन्ये व्यञ्जनदोषा अपि सन्ति। तेषामपि प्रतिषेध: वक्तव्य:।
भाष्यकार: वदति न एष: दोष:। गर्गादिविदादिगणेषु पठिता: शब्दा: स्वरव्यञ्जनदोषरहिता: शुद्धा: एव सन्ति अत: तत्र दोषार्थम् अवकाश: न विद्यते।
तथापि आक्षेपक: वदति यत् गर्गादिविदादिगणानां पाठस्य प्रयोजनं न स्वरव्यञ्जनदोषनिवृत्ति: अपि तु शब्दसमुदायस्य साधुत्वदर्शनम्।
तर्हि यथा पाणिनि: ‘अ अ’ इति अन्तिमसूत्रे अकारस्य विवृतत्वदोषं निवार्य तस्य संवृतत्वं प्रतिपादयति , तथैव वयं ‘इ इ’ , ‘उ उ’ एवं सूत्राणि विरचय्य कलादिदोषरहितानां वर्णानां प्रत्यापत्तिं (प्रतिविधानं) कुर्म:।
तथापि अनेन गौरवदोष: उत्पद्यते खलु?
लिङ्गार्था तु प्रत्यापत्ति:। (वा २१)
तर्हि एतत् कलादिदोषरहितानां वर्णानां प्रतिविधानं लिङ्गार्थमेव (लिङ्गनिवृत्त्यर्थमेव) भवतु। ‘अनुदात्तङित आत्मनेपदम्’ इत्यादिसूत्रेषु उक्तम् औपदेशिकधातुगतस्य इत्स्वरस्य अनुदात्तत्वं ङकारस्य इत्त्वं च लिङ्गरूपं यत: एताभ्यां लिङ्गाभ्यां (चिह्नाभ्यां) धातो: आत्मनेपदित्वं ज्ञायते। आत्मनेपदस्य सूचनं कृत्वा एते लिङ्गे निवृत्ते भवत:।
कलादिदोषाणामपि निवृत्ति: इष्यते अत: वयं लिङ्गरूपेण धातुप्रत्ययादिषु दोषयुक्तानां स्वरादीनाम् अनुबन्धवत् प्रयोगं कुर्म:। उदाहरणार्थं एधँ वृद्धौ इत्यस्मिन् धातूपदेशे य: अँ इति स्वर: स: अनुदात्त: इत्। तमेव कलादिदोषयुक्तं पठित्वा पुन: तस्य परिहारार्थं अदोषयुक्तस्य प्रतिविधानं कुर्म:। तेन दोषयुक्ता: स्वरादय: निवृत्ता: (अग्राह्या: वा) भवेयु:।
अनुबन्धशतै: यत्कार्यं सिध्यति तदेव कलादिदोषै: सिध्येत्। तेन च शतश: अनुबन्धा: न उच्चार्या:। इत्संज्ञा, इत: लोपश्च न वक्तव्ये भवत:। एतया युक्त्या यद्यपि कार्यं सिध्येत् तथापि नेयं पाणिनीयव्याकरणम्।
अत: ‘आकृत्युपदेशात् सिद्धम्’ इति यल्लिखितं तत् तथैव तिष्ठतु। गर्गादिविदादीनां शुद्धरूपेण उपदेशत्वात् संवृतादय: दोषा: तेषु न सम्भवन्ति इति उक्तमेव। यदाक्षिप्तं शुद्धशब्दसमुदायोपदेशार्थमेव गणानां पाठ: न तु संवृतादिदोषनिवृत्त्यर्थम् तद्विषये वदाम:--उभयमपि प्रयोजनं शक्यं–शुद्धशब्दानां समुदायस्य पाठ: ,संवृतादिदोषनिवारणं च। द्वौ प्रयोजनौ एकेनैव प्रयत्नेन सिध्यत: यथा–आम्राश्च सिक्ता: पितरश्च प्रीणिता:। आम्रवृक्षस्य अध: स्थित्वा पितॄणां तर्पणं कृतम्। तदर्थं यज्ज्लमुपयुक्तं तेन आम्र: अपि सिञ्चित: अभवत्। वाक्यान्यपि द्विष्ठानि भवन्ति– श्वेतो धावति इत्यस्य श्वा इत: धावति तथा श्वेत:( अश्व:) धावति एवं द्विविध: अर्थ: शक्य:।
एतानि आक्षेपसमाधानानि विहाय वयं आक्षेपकं एतमेव प्रष्टुम् अर्हाम: यत् संवृतादय: दोषा: भवान् कुत्र लब्धवान् इति। आगमा:, प्रत्यया:, प्रातिपदिकानि, धातव: एतेषु सर्वेषु कलादय: दोषा: नैवोपलभ्यन्ते व्याकरणे शुद्धानामेव उपदेशात्। अगृहीतानि प्रातिपदिकानि संवृतादिदोषयुक्तानि स्युरिति उक्ते वयं वदाम: यत् तेषामपि शुद्धोपदेश: एव इष्ट: व्याकरणे येन शश: इत्यस्य उच्चारणं शष: इति मञ्चक: इत्येतस्य मञ्जक: एवम् अशुद्धं मा भूत्।
एतेन सर्वेण विवेचनेन ज्ञायते यत् वृत्तिसमवाय: अनुबन्धकरणम् इति द्वे एव वर्णोपदेशस्य प्रयोजने भाष्यकारस्याभिमते। तृतीयस्य विषये बहुधा विप्रतिपत्ति: दृश्यते।