शैक्षिकमूल्यमापनम्--४ (Educational Evaluation--4)

  

मूल्यमापनस्य साधनम्–घटकपरीक्षा (Unit Test) --

पाठ्यपुस्तके विद्यमानाः पाठाः यथाक्रमं पाठयामः तर्हि पाठ्यांशस्य समग्रं चित्रं छात्रस्य मनसि  प्रायः न उत्पद्येत यतः पाठाः पाठ्यांशस्य समग्रतां मनसि निधाय क्रमबद्धाः न स्युः। उदाहरणार्थं संस्कृते व्याकरणे प्रयोगानां पाठनम् इत्येषः एकः बिन्दुः। तथापि पाठ्यपुस्तके विद्यमानेषु पञ्चदशसु व्याकरणपाठेषु चतुर्थपाठे, द्वादशे पाठे, चतुर्दशे पाठे च तस्य किञ्चित् किञ्चित् विवेचनम् अस्ति। प्रयोगविषये एतान् सर्वान् अंशान् सङ्कलय्य यदि एकत्रितं न पाठयामः तर्हि प्रयोगविषये छात्राणां मनःसु यत् संज्ञापनम् उत्पद्येत तस्मिन् सुसङ्गतिः न स्यात्। अतः तान् व्याकरणपाठान् एकत्र आनीय प्रयोगविषये सामग्र्येण पाठनम् अत्यावश्यकं भवति। एवं समानसूत्रधारिणः पाठाः एकत्र आनीताः चेत् एकस्य घटकस्य निर्मितिः भवति। 

इदानींतनपाठ्यपुस्तकेषु प्रायः एते घटकाः पूर्वमेव निर्माय दत्ताः सन्ति अतः घटकनिर्मितिविषये शिक्षकस्य कार्यभारः न्यूनः जातः अस्ति।

एषः घटकः यदा पाठितः भवति तदा तस्य घटकस्य पाठनोद्दिष्टानि कियता प्रमाणेन सफलीभूतानि एतस्य निश्चयनार्थं घटकपरीक्षा शालासु स्वीक्रियते। तत्र यः परिणामः प्राप्यते तदाधारेण अध्ययनाध्यापनप्रक्रियायाः परिष्कारार्थम् आवश्यकं प्रत्याभरणं (feedback) शिक्षकः प्राप्नोति। छात्रस्य आकलने याः न्यूनताः सन्ति तेषां ज्ञानं भवति। तदाधारेण पाठने किं परिवर्तनं करणीयमिति शिक्षकः निश्चिनोति।

घटकपरीक्षायाः प्रश्नपत्रस्य निर्माणे कानि सोपानानि सन्ति तद्वयं विचारयामः।

{१} प्रश्नपत्रस्य प्रारूपम् –

घटकपरीक्षायाः प्रश्नपत्रस्य सज्जीकरणे मुख्यतः त्रयाणाम् अंशानां विचारणा आवश्यकी–

अ) कानि उद्दिष्टानि परीक्षणीयानि ?

आ) घटके विद्यमानेषु पाठेषु कस्य पाठस्य कृते कियान् भारांशः (weightage) स्यात् ?

इ) के प्रश्नप्रकाराः प्रश्नपत्रे समावेशनीयाः?

अ) उद्दिष्टानुसारं भारांशः –

कस्यापि पाठस्य पाठने ज्ञान-आकलनादीनि यानि उद्दिष्टानि तानि सर्वाणि एव मनसि निधाय पाठनं न क्रियते। उदाहरणार्थं व्याकरणपाठने ज्ञानम् , आकलनम् ,उपयोजनम् इत्येतानि उद्दिष्टानि सन्ति। काव्यपाठने सस्वरं पठनं, अर्थस्पष्टीकरणम्, रुचिनिर्मितिः एतादृशानि भिन्नानि उद्दिष्टानि सन्ति। लेखनपाठे अभिव्यक्तिकौशलम्, व्याकरणशुद्धा वाक्यरचना च परीक्ष्येते। 

एवं यानि विशिष्टोद्दिष्टानि मनसि धारयित्वा पाठानां पाठनं कृतं तेषामेव उद्दिष्टानां साफल्यस्य परीक्षणं घटकपरीक्षया भवेत्। तत्तत् उद्दिष्टमधिकृत्य एव प्रश्नाः परीक्षायां भवेयुः। कस्य उद्दिष्टस्य कृते कः भारांशः दातव्यः तस्य निश्चयनं प्रथमं भवेत्।

उदाहरणार्थं प्रयोगः इत्येषः घटकः पाठितः तदा–

१) छात्रः दत्तवाक्ये  कर्ता, कर्म, क्रियापदं चेत्येतान् अंशान् कथयितुं क्षमेत। (ज्ञानम्)

२) सः कर्तृकर्मणोः विभक्ती कथयेत्। (ज्ञानम्)

३) क्रियापदस्य रूपं कर्त्रनुसारं, कर्मानुसारं अथवा स्वतन्त्रम् अस्ति इति वक्तुं प्रभवेत्।(आकलनम्) 

४) एतान् अंशान् ज्ञात्वा वाक्यस्य प्रयोगः कर्तरि, कर्मणि उत भावे इत्येतत् वक्तुं शक्नुयात्। (आकलनम्) 

५) दत्तवाक्यस्य प्रयोगस्य परिवर्तनं कर्तुं सः प्रभवेत्। (उपयोजनम्)

एतावन्ति उद्दिष्टानि सन्ति। एतेषामेव उद्दिष्टानां परीक्षणं घटकपरीक्षया भवेत्। एतस्य घटकस्य विषये २० अङ्कानां परिक्षा सज्जीकृता। तत्र प्रत्येकम् उद्दिष्टस्य कृते यथानिर्दिष्टं भारांशः दत्तः–

१) ज्ञानम् –       ७ अङ्काः (३५%)

२) आकलनम् –  ५ अङ्काः (२५%)

३) उपयोजनम् – ८ अङ्काः (४०%)

आ) पाठानुसारं भारांशः –

प्रयोगस्य पाठने मुख्यतया त्रयः पाठाः, तेषां  कृते घटकपरीक्षायां निर्धारिताः अङ्काः च एवं सन्ति।

१) प्रयोगपरिचयः– प्रयोगस्य मुख्याः प्रकाराः, तेषां वैशिष्ट्यानि च– १२ अङ्काः (६०%)

२) वर्तमानकालवाक्यानां प्रयोगपरिवर्तनम्।– ४ अङ्काः (२०%)

३) क्तक्तवतुरूपयुक्तानां वाक्यानां परस्परं प्रयोगपरिवर्तनम्।–४ अङ्काः (२०%)

इ) प्रश्नप्रकारानुसारं भारांशः –

लेख्यपरीक्षायां दीर्घोत्तराः, लघूत्तराः, वस्तुनिष्ठाः च इति त्रिप्रकारकाः प्रश्नाः प्रष्टुं शक्यन्ते। तत्र भाषाविषयेषु दीर्घोत्तराः लघूत्तराः च प्रश्नाः अधिकोपयुक्ताः गणितविज्ञानादिषु च वस्तुनिष्ठप्रश्नाः। विशिष्टम् उद्दिष्टं परीक्षितुं कीदृशः प्रश्नः उपयुक्तः भवेत् एतस्य विचारः अपि आवश्यकः। अनावश्यकरीत्या सर्वप्रकारकाः प्रश्नाः परीक्षायां न समावेशितव्याः।

घटपरीक्षा काचित् लघुपरीक्षा। अतः तत्र दीर्घोत्तरप्रश्नानां समावेशः प्रायः न भवति; लघूत्तरप्रश्नाः वस्तुनिष्ठप्रश्नाश्च तस्यां पृच्छ्यन्ते।

प्रयोगविषयिणी या परीक्षा चिन्तिता तस्यां समावेशितेषु प्रश्नेषु प्रायः सर्वे ज्ञानाकलनात्मकाः प्रश्नाः वस्तुनिष्ठाः प्रयोगपरिवर्तनविषयकाः उपयोजनात्मकप्रश्नाः लघूत्तरप्रश्नाः भवितुम् अर्हति।

१) दीर्घोत्तरप्रश्नाः— न सन्ति।

२) लघूत्तरप्रश्नाः — ८ अङ्काः (४०%)

३) वस्तुनिष्ठप्रश्नाः— १२ अङ्काः (६०%)

{२} संविधानकोष्टकम् –

एवं घटकपरीक्षायाः प्रश्नानां , भारांशानां च विषये उद्दिष्टानुसारं, पाठ्यांशानुसारं तथा च प्रश्नप्रकारानुसारं च एवं त्रिमितः (three-dimentional) विचारः अभवत्। एतेषां त्रयाणाम् अङ्गानां सङ्कलनं कृत्वा घटकपरीक्षायाः यत् प्रारूपं निश्चीयते तस्य नाम संविधानकोष्टकम्। घटकपरीक्षायाः प्रश्नपत्रस्य निर्माणे एतस्य कोष्टकस्य उपयोगः शिक्षकैः अवश्यं करणीयः।

यदि भिन्नाः शिक्षकाः एकमेव घटकम् अभिलक्ष्य घटकपरीक्षायाः प्रश्नपत्रस्य निर्माणं कुर्वन्ति तर्हि अपि तैः सज्जीकृतेषु प्रश्नपत्रेषु अत्यन्तभिन्नता न भवेत् यतः तैः निर्मितानि प्रश्नपत्राणि एकमेव संविधानकोष्टकम् आधारभूतं मत्वा निर्मितानि स्युः।

त्रिमितीयं संविधानकोष्टकं एवं स्यात्–

घटकपरीक्षायां केवलं लघूत्तरप्रश्नाः वस्तुनिष्ठप्रश्नाश्च समावेश्यन्ते। अतः प्रश्नप्रकाराः तथा च तदनुगुणं भारांशः इत्येनं विचारं दूरं विहाय सौकर्यार्थं कदाचित् केवलम् उद्दिष्टानुसारं तथा च पाठ्यांशानुसारं भारांशस्य विचारः एव क्रियते।

तदा संविधानकोष्टकं द्विमितीयं (two dimensional) भवति। 

एतत् केवलं सुकरतां दृष्टिपथे स्थापयित्वा कृतं कोष्टकम्। तथापि प्रश्नपत्रनिर्माणे प्रश्नप्रकाराणामपि विचारः पृथग्रीत्या करणीयः एव। केवलं तस्य समावेशः द्विमितीय-संविधानकोष्टके न कृतः अस्ति।

{३} प्रश्ननिर्माणम् –

यदा संविधानकोष्टस्य निश्चितिः भवति तदा कोष्टकानुसारं प्रश्नाः निर्मातव्याः भवन्ति। उत्तमप्रश्नस्य निकषाः एते भवन्ति–

१) प्रश्नः उद्दिष्टाधारितः अस्ति।

२) पाठ्यांशस्य आशयस्य अनुगुणम् अस्ति।

३) संविधानविचारे स्वीकृतानां प्रश्नप्रकाराणाम् अनुसारम् अस्ति।

४) प्रश्नः केवलं स्मरणशक्त्याधारितः न स्यात्। सः विचारप्रवर्तकः भवेत्।

५) प्रश्नः इष्टकाठिन्यस्तरानुगुणं स्यात्। प्रश्नपत्रे केचन प्रश्नाः सुलभाः, केचन मध्यमाः केचन च कठिनाः भवितुम् अर्हन्ति।

६) प्रश्नस्य व्याप्तिः तथा मर्यादा एतयोः बोधः स्पष्टः भवेत्।

७) उत्तमाधमछात्रयोः भेदं स्पष्टयितुं प्रश्नः सक्षमः भवेत्। 

{४} प्रश्नपत्रस्य सम्पादनम् – 

अ) परीक्षायां विविधप्रकाराणां प्रश्नानां समावेशः अस्ति अतः तेषां वर्गीकरणम् अत्यावश्यकम्। वस्तुनिष्ठप्रश्नानाम् एकः विभागः अपरश्च लघूत्तरप्रश्नानाम् एवं भागद्वयं निर्मितं भवेत्।

आ) छात्रेभ्यः सूचना– उत्तरलेखनविषये छात्रेभ्यः यत् अपेक्ष्यते तस्य स्पष्टाः सूचनाः देयाः। उत्तरस्य व्याप्तिः कियती भवेत्, अङ्कयोजना कीदृशी अस्ति तत् स्पष्टीकर्तव्यम्।

इ) छात्रेभ्यः परीक्षा कथं देया तस्य सूचनाः पर्यवेक्षकेभ्यः अपि दातव्याः।

ई) वस्तुनिष्ठप्रश्नानां कृते विकल्पाः न देयाः। विकल्पयोजनं केवलं लघूत्तरप्रश्नानां कृते योग्यम्। तत्रापि सर्वङ्कषविकल्पस्य अपेक्षया प्रश्नान्तर्गतः विकल्पः दातव्यः। अन्यथा छात्राः केषाञ्चन पाठानां पठनमेव न कुर्युः।

उ) परीक्षालेखनाय पर्याप्तः समयः दातव्यः।  बहुसङ्ख्यच्छात्राः पूर्णपरीक्षायाः लेखनाय प्रभवेयुः एतावत् समयः आवश्यकः।  

{५} अङ्कदानयोजना, उत्तरसूचिश्च 

लघूत्तरप्रश्नस्य दीर्घोत्तरप्रश्नस्य वा उत्तरे के बिन्दवः अपेक्ष्यन्ते तेषा लेखनं करणीयम्। तेन अङ्कदाने व्यक्तिनिष्ठतायाः प्रभावः न्यूनीभवेत्। वस्तुनिष्ठप्रश्नानां उत्तरसूचिः निर्मातव्या येन परीक्षणे वस्तुनिष्ठता वर्धेत।